________________
१५६
साहित्यदर्पणः ।
[ तृतीयः
११८ कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥९९॥ यथा-'यस्माकं सखि ! वाससी..' इत्यादि।
११९ पार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः ।
___सा खण्डितेति कथिता धीरैरीयाकषायिता ॥ १० ॥ यथा-'तदवितथमवादी...' इत्यादि ।
तत्र ताखष्टासु मध्य इत्यर्थः... ११८ रतिगुणाकृष्टो रतेर्गुणास्तैराकृष्टो वशीकृत इति तथोक्तः । रतेर्गुणाश्च सीत्कारादिनाऽऽमोदप्रमोदाधानहेतुभूता ज्ञेयाः । कान्तो नायकः पत्युपपत्यन्यतर इति यावत् । यदन्तिकं यस्या अन्तिकं सन्निधानमित्यर्थः । न। जहाति परित्यजति। सा। विचित्रविभ्रमासक्ता विचित्रा ये विभ्रमा मनोविकारजन्याश्चेष्टाविशेषा लक्षणया सर्वा अपि विलासादिरूपाश्चेष्टास्तैरासक्ता पूर्णा। यद्वा-विचित्रो भूषणाद्यन्तराऽपि कान्तमनोग्राही यो विभ्रमः शोभा तयाऽऽसक्ताऽऽलिङ्गितेति तथोक्ता। 'अथ विभ्रमः । शोभायां संशये हावे'इति हैमः। स्वाधीनभनका स्यात् ॥ ९९ ॥
उदाहृतान्येवास्या अप्यवसेयानीत्याशयेनाह यथा-'अस्माकं सखि। वाससी...'इत्यादि। इति । अयम्भावःयथेदं तथा-'दृष्टादृष्टि...' 'कान्ते तथा...' 'स्वामिन् भगुरया...'इत्याद्युदाहरणमपि बोध्यम् । अत एव रसमजरीकाराः'मुग्धा खाधीनपतिका यथा-'मध्ये न कशिमा, स्तने न गरिमा, देहे न वा कान्तिमा, श्रोणौ न प्रथिमा, गतौ न जडिमा, नेत्रे न वा वक्रिमा । लास्ये न द्रढिमा, न वाचि पटिमा, हास्ये न वा स्फीतिमा, प्राणेशस्य तथाऽपि मज्जति मनो मय्येव किं कारणम् ॥' मध्या स्वाधीनपतिका यथा-'यदपि रतिमहोत्सवे नकारो, यदपि करेण च नीविधारणानि । प्रियसखि ! पतिरेष पार्श्वदेशं तदपि न मुञ्चति तरिकमाचरामि ॥' प्रौढा (प्रगल्भा) स्वाधीनपतिका यथा-'वस्याधरपल्लवस्य वचसो हास्यस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशां कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथं चेतःपथं दृक्पथं काऽप्यन्या दयितस्य मे सखि ! कथं तस्यास्तु भेदग्रहः ॥' परकीया खाधीनपतिको यथा-खीयाः सन्ति गृहेगृहे मृगदृशो यासां विलासक्वणत्-काञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति । को हेतुः सखि ! कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिर्न मां मुञ्चति ॥' स्वाधीनपतिका सामान्यवनिता यथा'सन्त्येव प्रतिमन्दिरं युवतयो यासां सुधासागर-स्रोतःस्यूतसरोजसुन्दरचमत्कारा दृशो विनमाः । चित्रं किन्तु विचित्रमन्मथकलावैशद्यहेतोः पुनर्वित्तं चित्तहरं प्रयच्छति युवा मय्येव किं कारणम् ॥'
अथ खण्डितां लक्षयति-११९ पार्श्वमेतीत्यादिना।
११९ अन्यसम्भोगचितितोऽन्यस्याः सम्भोगस्तेन चिह्नित इति तथोक्तः । 'सर्वनाम्नो वृत्तिमात्रे पुंवभावः ।' इति पुंवद्भावः । प्रियो नायकः । यस्याः। पार्श्व लक्षणया समीपदेशम् । एति गच्छति । सा । ईर्ष्याकषायिते
jया परोपभोगचिह्नावलोकनजन्येनासहिष्णुताहेतुभूतेन मनोविकारविशेषेण कषायिता कलुषितचित्तेति तथोक्ता । धीरैः। खण्डिता। इतीत्येवम् । कथिता । यथोक्तं रसमञ्जरीकारैः-'अन्योपभोगचिह्नितः प्रातरागच्छति पतिर्यस्याः सा खण्डिता । प्रातरित्युपलक्षणम् । अस्याश्चेष्टा अस्फुटालापचिन्तासन्तापनिःश्वासतूष्णीम्भावाश्रुपातादयः । इति ॥१०॥
उदाहृतान्येवास्या अप्युदाहरणानीत्याशयेनाह-यथा-'तदवितथमवादी.' इत्यादि । इति । अयम्भावःयथेदं तथा-'सा पत्युः प्रथमा..' 'सुभग ! कुरबकस्त्वं किं ममालिङ्गनोत्क: किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघातः प्रियमिति परिहासात् पेशलं काचिदूचे ॥' 'एकत्रासन..' 'अनलकृतोऽपि' इत्याद्युदाहरणान्तरमपि गवेषणीयम् । इति । अत एव--रसमञ्जरीकाराः- मुग्धा खण्डिता यथा--
१ स्वाधीनः पतिको यस्याः सेति तथोक्ता । पतिक उपपतिः । 'कुत्सिते।' ५।३।७४ इति कः । एवं पुरस्तादपि । २ पतिारत्युपपतेरप्युपलक्षणम् । ३ अन्यकालस्येत्यध्याहार्य्यम् ।