________________
१५५
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । ११७ अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः।
स्वाधीनभर्तृका तद्वत् खण्डिताथाभिसारिका ॥ ९७ ॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । अन्या वासकसज्जा स्यात् विरहोत्कण्ठिता तथा ॥ ९८॥
___११७ एता निरुक्ता अमी नायिका इत्यर्थः । षोडशभेदिताः षोडश भेदा जाता यासां ताः । तारकादित्वादितच । स्वकीयायास्त्रयोदश भेदाः, परकीयाया द्वौ भेदौ, सामान्यायाः पुनरेक एव भेद इति नायिकायाः षोडशभेदा अवसेयाः। अवस्थाभिः खाधीनत्वादिहेत्ववसरविशेषैरिति भावः । अष्टौ। भवन्ति । ताः का इत्यत आह-स्वाधीनभर्तका वाधीनो भर्ता नायको यस्याः सा तथोक्ता । तद्वत् । खण्डिता खण्डो भेदः सम्भुक्ताया व्यवच्छेदो जातो यस्याः सेति तथोक्ता । अथ । अभिसारिकाऽभिसारयत्यभिसरति वा कान्तं सङ्केतस्थलं प्रत्यसाविति तथोक्ता ॥ कलहान्तरिता कलहेनान्तरिता नायकविरहितेति, कलह एवान्तरं व्यवधानमिति, तज्जातं यस्या इति वा । विप्रलब्धा विप्रलभ्यते स्मेत्यसौ तथोक्ता वञ्चिता। प्रोषितभर्तृका प्रोषितो दूरे निवासं प्राप्तो भर्ता नायको यस्याः सा तथोक्ता। अन्याऽवरा। वासकसजा वासकं वासस्थानं सज्जयतीति वासके सज्जा कृतमण्डना वेति तथोक्ता । तथा । विरहोत्कण्ठिता विरहेणोत्कण्ठिता । स्यात् ॥ ९७॥९८॥
इदमवधेयम्-नायिकास्तिस्रः । स्वीया परकीया सामान्या च, तत्र स्वीया, मुग्धा मध्या प्रगल्भा च, अत्र मुग्धैकैव, मध्याप्रगल्भे पुनीराऽधीरा धीराधीरा चेति त्रिनिर्भिद्यते ता अपि कनिष्टप्रणया ज्येष्ठप्रणया चेति स्वीया त्रयोदशभेदा । परकीया-कन्या, परोढा चेति द्विभेदा। अथ सामान्यनायिका रक्तारक्ता चेति द्विभेदाऽप्येकैव गण्यते, तस्या उभयविधात्वेऽपि रतेरप (तुच्छ) त्वात् । इत्येवं त्रयो भेदा एते तैस्त्रयोदशभेदैः सम्मेलिताः षोडशेति सुव्यक्तम् । एता अपि प्रत्येकमष्टप्रकाराः । तथा च-भर्तुः स्वाधीनत्वावसरे वर्तमाना स्वाधीनभर्तृका, खण्डितत्वावसरे खण्डिता, अभिसारित्वावसरेऽभिसारिका, कलहान्तरितत्वावसरे कलहान्तरिता, विप्रलब्धत्वावसरे विप्रलब्धा, प्रोषितत्वावसरे प्रोषितभर्तका, वासे सज्जकत्वावसरे वासकसज्जा, विरहोत्कण्ठितत्वे पुनर्विरहोत्कण्ठिता । अन्ये तु नायिकानां षोडश भेदानभिधाय खीयादीनां प्रथमं भेदान्तरत्रयममिदधति । अत एव रसमञ्जरीकारा:-एता-(स्वीया परकीया सामान्या चेति त्रिविधाः) अन्यसम्भोगदुःखिता, वक्रोक्तिगर्विता, मानवत्यश्चेति तिस्रो भवन्ति । तत्रान्यसम्भोगदुःखिता यथा-'त्वं दूति ! निरगाः कुजं नतु पापीयसो गृहम् । किंशुकाभरणं देहे दृश्यते कथमन्यथा ॥' वक्रोक्तिगर्विता द्विभेदा, प्रेमगर्विता सौन्दर्यगर्विता च । तत्र-प्रेमगर्विता यथा-'वपुषि तव तनोति रत्नभूषां, प्रभुरिति धन्यतमाऽसि किं ब्रवीमि । सखि तनुनयनान्तरालभीरुः कलयति में न विभूषणानि कान्तः ॥' सौन्दर्यगर्विता यथा-'कलयति कमलोपमानमक्ष्णोः प्रथयति वाचि सुधारसस्य साम्यम् । सखि ! कथय किमाचरामि कान्ते ! समजनि तत्र सहिष्णुतैव दोषः ॥' मानवती यथा-प्रियापराधसूचिका चेष्टा मानः । स च लघुर्मध्यमो गुरुश्च । अल्पापनेयो लघुः । कष्टतरापनेयो मध्यमः । कष्टतमापनेयो गुरुः । असाध्यस्तु रसाभासः । अपरस्त्रीदर्शनादिजन्मा लघुः । गोत्रस्खलनादिजन्मा मध्यमः, अपरस्त्रीसङ्गजन्मा गुरुः । अन्यथासिद्धकुतूहलापनेयो लघुः । अन्यथा वा दशपथाद्यपनेयो मध्यमः । चरणपातभूषणदानाद्यपनेयो गुरुः । अपरस्त्रीदर्शनादिजन्मा यथा-'स्वेदाम्बुभिः वचन पिच्छलमङ्गभूमौ शातोदर क्वचन कण्टकितं चकास्ति । अन्यां विलोकयति भूषयति प्रियेऽपि मानः क्व दास्यति पदं तव तन्न. विद्मः ॥' गोत्रस्खलनादिजन्मा यथा-'यद्गोत्रस्खलनं तत्र भ्रमो यदि न मन्यते । रोमालिव्यालसंस्पर्श शपथं तन्वि! कारय।' अपराङ्गनासङ्गजन्मा यथा-'दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिञ्जरं सपत्न्याः । सुदशो नयनस्य कोणदेशः श्रुतिमुक्ताः शिखरोपमा बभूवुः ॥' यभिधाय एताः षोडशाप्यष्टाभिरवस्थाभिः प्रत्येकमष्टविधाः ।.. 'इत्याद्यभिदधति । इति ।
अथैतासामष्टौ भेदान् क्रमशोऽभिधातुमुपक्रमते-तत्रेत्यादिना।