________________
१५४
साहित्यदर्पणः ।
[ तृतीय:
पण्डको वातिकपण्डकादिः । छत्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्र रागहीना यथा-लटकमेलकादौ मदनमञ्जर्य्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः ।
पुनश्च
7
धनार्जनमात्रपरत्वात्, अथ यद्यनुरागिण्यपि स्यात्तदाऽपि किं तेन न ह्येतस्याः सङ्गः सुलभ उभयलोकभीत्या प्रतिबन्धं नीतत्वात्, ततोऽपि सङ्गे न किञ्चित्सुखम्, पण्डकत्वादिसम्भवात् । इति । यत्तूक्तं टिप्पणीकारैः - ' रतमिति । 'रतमस्यां सुदुर्लभमि' त्युक्तिस्तु नितरां जघन्यतमा हरितालपातयोग्या च । शास्त्रस्य वस्तुस्थिति ख्यापनमात्रपरतया तदनुमोदनानुपलम्भाच्छिष्टैरनादृतत्वाच्च । अत एव सूत्रकृताऽप्यभिहितम् -'धर्म्ममर्थं च कामं च प्रत्ययं लोकमेव च । पश्यत्येतस्य तत्त्वज्ञो न च रागात्प्रवर्त्तते ॥ अधिकारिवशादुक्ता ये चित्रा रागवर्धनाः । तदनन्तरमत्रैव ते यत्नाद्विनिवारिताः ॥ तदेतद्ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रायै न रागार्थोऽस्य संविधिः ॥' इति । एवं परकीयाविषयोऽपि जघन्यतम एव । उक्तं च तेनैव - ' संदृश्य शास्त्रतो योगान् पारदारिकलक्षितान् । न याति च्छलनां कश्चित्खदारान्प्रतिशास्त्रवित् ॥ पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात् । धर्म्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ॥ तदेतद्दारगुप्त्यर्थमारब्धं श्रेयसे नृणाम् । प्रजानां दूषणायैव न विज्ञेयोऽस्य संविधिः ॥' इति । तदेतदन्यथा व्याख्यानेन पाण्डित्यप्रदर्शनमात्रम् । नहि 'सुदुर्लभ' मित्यस्यात्यन्तमुपादेय' मित्यर्थोऽभिप्रेतः कविराजानाम्, 'वित्तमात्रं..' इत्यादिना स्फुटं तत्सम्भोगस्य तुच्छतया प्रदर्शितत्वात् ॥ ९३ ॥ ९४ ॥ ९५ ॥ ९६ ॥
कारिकांशदुर्बोधतां परिहरति- पण्डक इत्यादिना ।
पण्डकः 'पण्डकाइति पठित इति शेषः । वातिकपण्डकादिः । ' वातपण्डादिरिति पाठान्तरम् । अत्रादिपदं बहुवचनबोध्यम् । तेनोपदेशादिग्रहणम् । ' इत्यर्थक' इति शेषः । अयम्भावः - 'पण्डका' इति पठितः पण्डकशब्दो वातिकपण्डकार्थको, लक्षणया पुनस्तद्वदर्थकः तत्र प्रत्ययः पुनराद्यर्थमाह । यत्तु - कामसूत्रव्याख्यातृभिः 'पण्डको नपुंसकः । स पुंस्त्वख्यापनार्थ बहु ददातीत्युक्तम् । तन्न चारु, मूलाभिप्रायाननुसृतत्वात् । तथाहि - 'पण्डकश्च पुंशब्दार्थी' ति मूलम्, अत्र पण्डकपुंशब्दार्थिशब्दार्थयोर्विशेष्य विशेषणभाव परिहारकं 'चैत्यव्ययमन्तराले पठितम् । एतेन पण्डको वातिकपण्डकार्त्तार्थकः, पुंशब्दार्थी पुनः पुंस्त्वमात्रख्यापनार्थी नपुंसकप्राय इति स्पष्टम् । ननु - 'पण्डकस्य ( वातिकपण्ड कस्य रुग्णस्य ) किं वेश्यये 'ति चेत् ? अत्रेयं व्यवस्था - अजितेंद्रियाः खलु वेश्याऽऽदिनिरता भवन्तीति तु विदितचरम्, तत्र ये ह्यल्पधना अल्पाया वा ते तद्वञ्चिताः प्रथमं सर्वस्वं तदधीनं विधाय विषीदन्तस्ततो ऽप्यनिर्विण्णास्तस्करा भवन्ति । केचित्कृपणा धनलोभाद्दुर्भगां भजन्तः पण्डकादिरोगग्रस्ता भवन्ति, ये केचित्सुखप्राप्तधनास्ते यथा भाग्यवशादनायासं प्राप्तधनास्तथैव वेश्यागामिनोऽपि भाग्यवशादेव न तस्करा न वा पण्डकादिरोगार्त्ता भवन्ति । ये मूर्खास्ते विषीदन्तोऽपि पुनः पुनस्तत्र प्रवर्तन्त इति च स्पष्टम् । ये लिङ्गमात्रेणोपजीवन्ति, तैर्दारग्रहस्तु लोकभयान्न विधीयते, अतो वेश्या - सङ्गेऽपि नितान्तमप्रवृत्तास्ते यथायस्तथा वितरन्ति, किन्तु तस्करतां नावलम्बन्ते । एतादृशा एवान्येऽखतन्त्रा वा लोकमान्यास्ते प्रच्छन्नकामाः सङ्कुचितवेश्यासङ्गत्वान्न तस्करताऽऽदिभागिनो भवन्तीति दिकू । छन्नमित्यस्ये 'ति शेषः । प्रच्छन्न'मित्यर्थ' इति शेषः । ये । कामयन्ते सुरतमभिलषन्तीत्यर्थः । ते । छन्नकामा 'भवन्ती' ति शेषः । अत्र कर्म्मण्यण् ।
उदाहरति-तत्रेत्यादिना ।
तत्र तयो रक्ताऽरक्तयोर्मध्य इत्यर्थः । रागहीनाऽरक्ता । यथा-लटकमेलकादौ आदिपदेन हास्याणवादेर्ग्रहणम् । मदनमञ्जर्य्यादिः । आदिपदेन शशाङ्कलेखादेर्ग्रहणम् । रक्ता रागयुक्ता । यथा मृच्छकटिकादी । आदिपदेन मालविकाग्निमित्रादेर्ग्रहणम् । वसन्तसेनादिः । आदिपदेनैरावत्यादेर्ग्रहणम् ।
अथ नायिकानामवस्थाभेदेनान्येऽपि भेदा इत्याह- पुनश्चेत्यादिना ।
पुनर्निरुक्तनथेन नायिकायाः षोडश भेदभिन्नत्वोपपत्त्यनन्तरमित्यर्थः । चापीत्यर्थः ।