________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
१५३ ११७ निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद्धाहः ॥ ९३ ॥ काममङ्गीकृतमापि परिक्षीणधनं नरम् ।। मात्रा निष्कामयेदेषा पुनःसन्धानकाङ्क्षया ॥ ९४ ॥ तस्कराः पण्डका मूर्खाः सुखप्राप्तधनास्तथा । लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः॥९५॥ एषाऽपि मदनायत्ता वापि सत्यानुरागिणी।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥ ९६॥ अथास्याः स्वभावं लक्षयति-११७ निर्गुणानित्यादिना।
११७ निर्गणानिरस्ता गुणा वदान्यत्वाद्यतिरिक्ता धैदियो येषां तान् । अत एव-'वित्तमात्रम ।' इति वध्यते । अपि । 'किं पुनरन्यैरपि गुणैस्सम्पन्ना' निति शेषः । न । द्वेष्टि । गुणिषु गुणा वदान्यत्वाद्यतिरिक्ता धैर्यशौर्यादयः येषां सन्तीति तेषु । अत्र विषये सप्तमी, न त्वनादरे । अपि। 'किं पुनर्दोषशालिष्वि' ति शेषः । न । रज्यति । किन्तु-वित्तमात्रं वित्तमेवेति तत्तथोक्तं, केवलं धनमित्यर्थः । केवलशब्देन-दोषादोषहानोपादानापेक्षा निरस्ता। मयूरव्यंसकादित्वादस्वपदविग्रहो बोध्यः । यद्वा-वित्तं धनमेव मात्रं कात्न्यै कृतार्थताऽवगमकं यस्य तं तथोक्तम् । 'मात्रं कात्स्न्येऽवधारणे।' इत्यमरः । समालोक्य । सा वेश्येत्यर्थः । बहिर्बाह्यमित्यर्थः । रागा मनुरागम् । दर्शयेत सूचयेत् । कामं यथेष्टम् । 'कामं कामाभ्यनुज्ञयोः ।' इति त्रिकाण्डशेषः । अडीकतं खा. नुरागपात्रतयाऽभिमतम् । अपि। 'किं पुनरनभिमत' मिति शेषः । परिक्षीणधनं परिक्षीणं धनं यस्य तं तथोक्तम् । नरम् । एषा । पुनःसन्धानकाङ्क्षया पुनः सन्धानस्य कालान्तरीणसङ्घटनस्य काङ्क्षा तया। मय्यनुरक्ततया सर्वे मत्साद्विधाय क्षीणधनोऽयम् , अथ यद्येनं निष्कामयिष्ये तर्हि कथमपीतस्ततो धनमुपाय॑ त्वरितमेव मामुपगमिष्यतीतीच्छयेति भावः। वेश्यायाः प्रकृतिरेवैषा यत् अनुरक्तमनुरक्तं निष्पीड्य निष्पीड्य परंपरं समीहते, कथमपि पुनरर्जितधनं च तमनुरजयतीति । मात्रा जनन्या लक्षणया तद्वदधिकृतया कुहिन्या वोपदेशिन्या वेति भावः । निष्क्रामयेनिःसारयेत् ॥ एवम्-अस्या वेश्याया इत्यर्थः । प्रायेणाधिक्येन । 'प्रायश्चानशने मृत्यौ प्रायो
यतुल्ययोः ।' इति विश्वः । तस्कराश्चोराः । अत्र बहुवचनमेतस्यास्सामान्यरूपेण भोग्यात्वसूचनार्थम्, एवमन्यत्रापि । पण्डकाः। षण्डका इति पाठान्तरम् । प (ष)ण्डको वातिकप (ष)ण्डकनामा रोगविशेषः, लक्षणया तद्विशिष्ट इत्यर्थः । अयम्भाव:-वेश्यासङ्गिनः प्राय एवंविधै रोगैर्जर्जिताङ्गा भवन्तीति । तल्लक्षणं चोक्तं यथा चरकेण-'वाय्यग्निदोषाद वृषणौ तु यस्य नाशं गतौ वातिकप (ष) ण्डकः सः ।' इति । मूर्खा धर्मादिनाशपूर्वकस्वार्थापक्षयचिन्ताशून्याः। सखप्राप्तधना अनायासेन लब्धधनाः । तथा। लिझिनो लिङ्ग (वेष) मात्रेणोपजीविनः । लिङ्गं ब्रह्मचाऱ्यांदिवेषरूपं चिह्नमेषामस्तीति तथोक्ताः । छन्त्रकामाद्याश्छन्नं प्रच्छन्नरूपेण ये कामयन्ते तथाभुता आद्या येषां ते । अत्राद्यपदं कामसूत्रोक्तेष्ववशिष्टानां वाचकम् । यथोक्तं-'खतन्त्रः, पूर्वे वयसि वर्त्तमानो, वित्तवानपरोक्षवृत्तिरधिकरणवानकृच्छ्राधिगतवित्तः, सङ्घर्षवान्, सन्ततायः, सुभगमानी, श्लाघनकः, पण्डकश्च, पुंशब्दार्थी । समानस्पर्धी, स्वभावतस्त्यागी। राजनि महामात्रे, वा सिद्धो, दैवप्रमाणो, वित्ताभिमानी, गुरूणां शासनातिगः, सजाताना लक्ष्यभूतः, सवित्त एकपुत्रो, लिङ्गी, प्रच्छन्नकामः, शूरो, वैद्यश्च ।' इति । वल्लभाः प्रियाः । 'भवन्तीति शेषः ॥ तथाएषा सामान्यनायिकेत्यर्थः । अपि । 'अवस्थामहिम्ना' इति शेषः । मदनायता कामाधीना। क्वापि कस्मिंश्चित् पुरुषे । सत्याऽनुरागिणी सत्या प्रतारणशून्याऽसावनुरागिणीति तथोक्ता । 'भवतीति शेषः । रक्तायामनुरागिण्याम् । वा तथा। विरक्तायामनुरागहीनायाम् । अस्याम् । सुदूर्लभमत्यन्तं दुःखेन सम्पादयितुं शक्यम् । रतं रमणं लक्षणया तदानन्द इत्यर्थः । अयम्भाव:-प्रथमं त्वेषा कदाचिदपि कुत्रचिदनुरागिण्येव न भवति