________________
परिच्छेदः]
- रुचिराख्यया व्याख्यया समेतः । 'स्वामी निःश्वसितेऽप्यसूयति, मनोजिघ्रः सपत्रीजनः, श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः। तादयमञ्जलिः, किमधुना हग्भङ्गिभावेन ते, वैदग्धीमधुर! प्रबन्धरसिक ! व्यर्थोऽयमत्र श्रमः॥८॥'
अत्र हि मम परिणेताऽन्नाच्छादनादिदातृतया स्वाम्येव, न तु वल्लभः, त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्यङ्गयार्थवशादस्याः परनायकविषया रतिः प्रतीयते ।
'हे वैदग्धीमधुर वैदग्ध्या चातुर्येण मधुरो मनोरम इति तत्सम्बुद्धौ तथोक्त ! विदग्धस्य भावः कर्म वा वैदग्धी, 'गुणवचनब्राह्मणादिभ्यः कर्मणि च ।' ५।१।१२४ इत्यनेन ब्राह्मणादित्वात् प्यञ्, षित्त्वाच्च ङीष् । 'विदग्धश्वतुरेऽत्यन्तं दग्धे च त्रिषु वाच्यवत् ।' इति गोपालः । प्रबन्धरसिक प्रबन्धस्य सुरतानुवन्धिव्यापारस्य रसिको मामिक इति तत्सम्बुद्धौ तथोक्त! यद्वा-समस्त मिदं पदम् । वैदग्ध्या मधुरो यः प्रबन्धस्तस्य रसिक इति तत्सम्बुद्धौ तथोक्त ! इति । स्वामी प्रभुर्न तु प्रियः । एतेन तत्रानुरागाभावो द्योतितः । निःश्वस्तेि निःसारिते श्वासे । 'त्वादृशमवलोक्य हन्त नाहं दैवहतकेनैतस्याङ्कभाजिनी कृताऽस्मी'ति चिन्तयाऽन्यथाऽपि चोच्छासपरित्यागे कृत इति यावत् । अपि किं पुनः कमलनिमीलनादिना सङ्केतबोधनादिव्यापार इति भावः । असूयति । असू-उपतापे । सपत्नीजनः समानः पतिर्यस्याः, सोऽसौ जन इति तथोक्तः । 'नित्यं सपन्यादिषु ।' ४।१।३५ इति साधुः । मनोजिनो मनश्चित्तं लक्षणया मनोरूपं कुसुमं जिघ्रतीति, मनो जिघ्रति लक्षणया सूक्ष्ममपि तत्सङ्कल्पमनुभवतीति वेति तथोक्तः । मनसा किमियं सङ्कल्पत इति पर्यवेशत इति भावः । श्वश्रूः पत्युर्भार्या । 'पतिपन्योः प्रसूः श्वश्रू' रित्यमरः । इङ्गितदैवतमिङ्गितस्याभिप्रायानुकूलचेष्टाया दैवतं विदुषीति तथोक्तम् । यातरः पतिभ्रातृणां भार्थ्याः । 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।' इत्यमरः । नयनयोः। ईहालिह ईहां चेष्टां लिहन्ति स्वादन्ते लक्षणया नितान्तमनुभवन्तीति तथोक्ताः । लिङ्-क्विप् । मदीयमितस्ततो दृष्टिपातचेष्टां विज्ञातुमेव सक्षणा इति भावः । तत्तस्मात् कारणात् । दूरात् । एतेन समीपं यातुं नाहं प्रभवामीति व्यज्यते । अयम् । अञ्जलिः । अधुनाऽस्मिन्समये । ते तव । दृग्भडिभावेन शोर्नेत्रयोर्भङ्गिः कल्लोलो लक्षणया तद्वत्पुनःपुनरुल्लासस्तस्य तेन वा भावोऽभिप्रायावेदनं तेन । किं न किमपि सम्पत्स्यत इति भावः । अत एव अत्रास्मिन् मत्प्राप्तिविषये । अयम् । श्रमः परिश्रमः । व्यर्थों निष्फलः । नाहमधुना तव श्रमेण लभ्या, नापि तवाहं मनोरथं पूरयितुं प्रभवामीत्ययमञ्जली परमेश्वराय क्रियते, स एव यदा मयि प्रसत्स्यति तदा कदाचित् त्वया विहरिष्य इति भावः । भिक्षाटनस्य पद्यमिदम् । अत्र शार्दूलविक्रीडितं वृत्तम्, तलक्षणं चोक्त प्राक् ॥ ८४ ॥
अथ लक्ष्य सङ्गमयति-अत्रेत्यादिना ।
हि यतः । अत्र 'खामी...'इत्यस्मिन्नुदाहृते पद्य इति यावत् । 'नायिकोक्त्येति शेषः । मम तवाभिमतादपि सङ्गात्पराङ्मुखाया अस्या इत्यर्थः। परिणता पाणिग्रहीता। अन्नाच्छादनादिदातृतया भोजनवस्त्रादिदानकर्त्तत्वमात्रेण हेतुनेत्यर्थः । अन्नं भोजनमाच्छादनं वस्त्रम् । स्वामी यावत्तस्य दृष्टिविषयाऽस्मि तावन्ममेह निरोधे प्रभुः । एव । न । तु । वल्लभः प्रीतिविषयः । त्वं ममास्या नयनचकोरचन्द्रः । तु । वैदग्धीमधुरप्रबन्धरसिकतया। 'हेतुने ति शेषः । ममास्यास्त्वच्चन्द्रचकोरनयनाया इति यावत् । वल्लभः प्रियः । असि । इत्यादिव्यङ्यार्थवशादित्यादि यद् व्यङ्गचं तस्यार्थस्य वश आधीन्यं तस्मात्। अस्या एवंवादिन्या इत्यर्थः। परनायकविषया परो भिन्नः खपत्युर्द्वितीयोऽसौ नायक इत्यसावेव विषयो यस्यास्सेति तथोक्ता । रतिः। प्रतीयते । अतः 'खामी...'इत्येवं वक्री परोढा परकीयेति भावः ।
अत्राह रसमञ्जरीकारा:-'गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामेवान्तर्भावः । गुप्ता त्रिधा-वृत्तसुरतगोपना, वतिष्यमाणसुरतगोपना, वृत्तवतिष्यमाणसुरतगोपना च । त्रितयमपि यथा-"श्वधूः क्रुध्यतु विद्विषन्तु सुहृदो निन्दन्तु वा यातरस्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः खापो विधेयो मया । आखोराक्रमणाय कोणकुहरादुत्फालमातन्वती मार्जारी नखरैः खरैः कृतवती कांकां न मे दुर्दशाम् ॥” विदग्धा च द्विविधा-वाग्विदग्धा,