________________
१५०
तृतीयः
साहित्यदर्पणः। . ११५ परकीया द्विधा प्रोक्ता परोढा कन्यका तथा । .
तत्र
११६ यात्राऽदिनिरताऽन्योढा कुलटा गलितत्रपा ॥ ९१॥ .
। यथा
अत्राहू रसमञ्जरीकाराः-‘एते च धीरादिषड्भेदा द्विविधाः । ज्येष्ठा कनिष्ठा च । धीरा ज्येष्ठा कनिष्ठा च, अधीरा ज्येष्ठा कनिष्ठा च, धीराधीरा ज्येष्ठा कनिष्ठा च, परिणीतत्वे सति भर्तुरधिकस्नेहा ज्येष्ठा, परिणीतत्वे सति भर्तुन्यूनस्नेहा कनिष्ठा । अधिकस्नेहासु न्यूनस्नेहासु च परकीयासु सामान्यवनितासु च नातिव्याप्तिः, परिणीतपदेन व्यावर्त्तनात् । धीरा ज्येष्ठा कनिष्ठा च यथा-"एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय निद्रां तयोरेका पल्लविताऽवगुण्ठनपटामुत्कन्धरो दृष्टवान् । अन्यायाः सविधं समेत्य निभृतं व्यालोलहस्ताङ्गुलिव्यापारैर्वसनाञ्चलञ्चपलयन खापच्युतिं कूलप्तवान् ॥” अधीरा ज्येष्ठा कनिष्ठा च यथा-"अन्तः कोपकषायिते प्रियतमे पश्यन्घने कानने पुष्पस्यावचयाय नम्रवदनामेकां समायोजयत् । अ॰न्मीलितलोचनाञ्चलचमत्काराभिरामाननां स्मेराधिरपल्लवां नववधूमन्यां समालिङ्गति॥" धीराधीरा ज्येष्टा कनिष्टा च यथा-"धैर्ध्याधैर्यपरिग्रहप्रहिलयोरेणीदृशोः प्रीतये रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान् । एकस्याः कलयन्करे प्रथमतो रत्नं परस्याः प्रियो हस्ताहस्तिमिषात्स्पृशन्कुचतटीमानन्दमाविन्दति ॥” इति । ___ अत्रेदमवसेयम्-यद्यपि मुग्धाया न भेदावतार इत्येकविधैवासौ, मध्याप्रगल्भे पुनीश मेध्या धीरा प्रगल्भाऽधीरा मैयाधीरा पेंगल्भा धीराधीरा मध्या धीराधीरा प्रगल्भा कनिष्ठ ( अल्प )-प्रणया धीरा मध्या कनिष्टप्रणयाऽधीरा मंध्या कनिष्ठप्रणया धीराधीरा मध्या ज्येष्ठ ( अनल्प ) प्रणया धीरा मध्या ज्येष्ठप्रणयाऽधीरा मध्या ज्येष्टप्रणया धीराधीरा मैया, कनिष्ठ (अल्प )-प्रणया धोरा प्रगल्भी कनिष्ठप्रणयाऽधीरा प्रगल्भा कनिष्ठप्रणया धमाधीरा प्रगल्भी ज्येष्ठ ( अनल्प )-प्रणया धीरा प्रगल्भा ज्येष्ठप्रणयाधीरा प्रगल्भॊ ज्येष्ठ प्रणया धीराधीरा प्रगल्भी चेत्येवं स्वीयैकोनविंशभेदा, तथा मुग्धाः प्रथमाऽवतीर्णयौवना प्रथमावतीर्णमदनविकारा मृदुमाना समधिकलज्जेत्येवं चतुष्प्रकारा, मध्याप्रगल्भे अप्येवं विचित्रसुरतादिभेदर्भिद्यमाना धीराऽऽदिप्रभेदैः पुनर्भिन्ना ततोयधिकभेदेति वक्तुं शक्यते, तथाऽपि मुग्धायाः प्रथमावतीर्णयौवनत्वादिना, मध्याप्रगल्भयोर्विचित्रसुरतत्वादिनी च स्वरूपनिरूपणमात्रं न तु भेदनिरूपणं विवक्षितमिति, तथा धीराऽधीराधीराधीराणामेव कनिष्ठप्रणयत्वज्येष्ठप्रणयत्वे, न तु मध्याप्रगल्भेतिभेदभिन्नानामिति स्वीया त्रयोदशभेदैवावतिष्ठते । इति ।
एवं स्वकीयायाः स्वरूपनिरूपणपुरःसरं भेदान्निरूप्य परकीयां निरूपयितुमुपक्रमते,-११५ परोढा परेणान्येन प्रेमास्पदभिन्नेनेति यावढा परिणीतेति तथोक्ता । 'ऊढे' त्यभिधानमात्रेण प्रकरणवशात्स्वेष्टार्थे प्रतिपद्यमानेऽपि 'परोढे' त्यभिधानं तत्स्पष्टताकरणायेति बोध्यम् । तथा। कन्यकाऽनूढेत्यर्थः । 'कन्या कुमारी'-त्यमरः । एवम्-परकीया। द्विधा । प्रोक्ता । 'आचार्यै'-रिति शेषः। ____ एवं परकीयाया द्वैविध्यं दर्शयित्वा तत्राद्यायाः खरूपं दर्शयितुमुपक्रमते,-तत्र तयोः परोढाकन्यकयोर्मध्ये इत्यर्थः । ५१६ यात्राऽऽदिनिरता यात्रेतस्ततः कथमपि गमनं साऽऽदिर्यस्य(द्वारावस्थानगोष्ठीयोजनगवाक्षोपवेशनादेः) तत्र निरता परायणेति तथोक्ता । कुलटा पुंश्चली पत्युरन्यत्र प्रेमवतीति यावत् । 'पुंश्चली धर्षणी बन्धक्यसती कलटेवरी' इत्यमरः । गलितत्रपा गलिता त्रपा लज्जा यस्याः सा, निहजेति भावः । अन्योढा परोढा ॥ ९१॥
उदाहरति-यथा-स्वामी... इत्यादौ ।