________________
परिच्छेदः) रुचिराख्यया न्याख्यया समेतः।
१४९ ११३ प्रत्येकं ता अपि द्विधा ।
कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ ८९॥ ता अनन्तरोक्ताः षडूभेदा नायिकाः ।
यथा'दृष्ट्रकासनसस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने पिधाय विहितक्रीडाऽनुबन्धच्छलः । ईषद्धक्रितकन्धरः सपुलकः प्रेम्णोल्लसन्मानसामन्तहासलसत्कयोलफलकां धूर्तोऽपरांचुम्बति॥४३॥'
११४ मध्याप्रगल्भयोर्भेसास्तस्माद् द्वादश कीर्तिताः ।
मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥ ९० ॥
एवं मध्याप्रगल्भयोः षड्भेदानभिधायैतेषामपि द्वैविध्यमभिधत्ते,-११३ ताः षड्भेदभिन्ना मध्याप्रगल्भा नायिक इत्यर्थः । अपि । प्रत्येकमेकामेकां प्रति। नायकप्रणयं नायकस्य प्रणयोऽनुरागस्तम् ।' अत्र षष्ठयर्थे द्वितीया। 'प्रणयः प्रसरे प्रेम्णी'ति मेदिनी। प्रति । कनिष्ठज्येष्ठरूपत्वात् कनिष्ठं च ज्येष्ठं चेति, ते रूपे यस्य तस्य भावस्तत्त्वं तस्मात्। कनिष्ठमल्पं, ज्येष्ठं महत् । 'कनिष्ठोऽतियुवाल्पयोः ।' इत्यमरः, 'ज्येष्ठः श्रेष्ठे भृशे वृद्धे त्रिषु, मासान्तरे पुमान् ।' इति गोपालः । द्विधा द्विविधाः । अयम्भावः-'नायकप्रणयं प्रती' त्यत्र 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपी' त्यनेन प्रतियोगे षष्टयर्था द्वितीया, तथा च-नायकप्रणयस्य प्रत्येकं (नायिका नायकां प्रतीति भावः ) कनिष्ठ (अल्प)-त्वाज्ज्येष्ठ ( महत् )-त्वाच ताः प्रागुक्ताः षड्विधा अपि नायिका द्विधा भिद्यमाना द्वादशभेदा भवन्तीति ॥ ८९ ॥ - *
कारिकास्थं 'ता' इति पदं व्याचक्षाणस्तत्काठिन्यं परिहरति, ताः । 'इत्यस्य'ति शेषः । अनन्तरोक्ता नान्तरं व्यवधानं यत्र तद् यथा भवेत्तथोक्ता इति तथोक्ताः । षड्भेदाः । नायिकाः । 'इत्यर्थ' इति शेषः।
उदाहरति-यथा,-'धूर्तः प्रतारणचतुरो नायक इति भावः । एकासनसंस्थिते एकस्मिन् शय्याद्यन्यतमे आसने तदुपार संस्थिते उपविष्टे । प्रियतमे कनिष्ठाज्येष्ठे इति शेषः । वस्तुतस्तु 'एकासनगे प्रियाप्रियतमे इति पाठः साधीयान् , तत्र प्रिया कनिष्ठा कान्ता, प्रियतमा तु ज्येष्टा इति विवक्षितस्यार्थस्य स्फुटमुपलब्धः। दृष्ट्रा विलोक्य । पश्चात् पृष्ठतः । उपेत्य समीपं प्राप्येत्यर्थः । आदरादादरं दर्शयित्वा । एकस्याः 'प्रणयेन कनिष्टायाः प्रियतमाया' इति शेषः । नयने नेत्रे । पिधाय करतलाच्छादनेन तिरोधाय । विहितक्रीडाऽनुबन्धच्छल्लो विहितं कृतं क्रीडानुबन्धः क्रीडाऽनुसार्युव च्छलं येन सः । क्रीडामनुबन्धाति इति क्रीडाऽनुबन्धम् । दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादिविनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥' इत्यमरः । ईषद्धक्रितकन्धर ईषद्वक्रिता तिर्यक्कृता कन्धरा ग्रीवा येन सः । सपुलको रोमाञ्चितशरीरः । प्रेम्णा । उल्लसन्मानसामुल्लसत्सपत्न्यां प्रियतमस्यानुरागहासेन विकसन्मानसं चित्तं यस्यास्ताम् । अत एव-अन्तर्हासलसत्कपोलफलकामन्तहासेनान्तरिकेण विकासेन लसन्तौ कपोलफलको यस्यास्ताम् । अपरां प्रणयेन ज्येष्ठां प्रियतमामित्यर्थः । चुम्बति । अमरुशतकस्य पद्यमिदम्, अत्र शार्दूलविक्रीडित छन्दः। तल्लक्षणं चोक्तं प्राक् ॥ ४३ ॥'
एवं स्वकीयाभेदानिर्दिश्य सन्देहापनयाय सिंहनिरीक्षणन्यायेन तान् स्मारयति,-११४ तस्मात् षड्विधयोः मुग्धाप्रगल्भयो यकप्रेम्णोऽल्पानल्पत्वाभ्यां द्वैविध्याद्धेतोः । मुग्धाप्रगल्भयोर्मुग्धायाः प्रगल्भायाश्चेत्यर्थः । द्वादश। भेदाः । कीर्तिताः । मुग्धा । तु पुनः। एका 'भेदान्तरानुपपत्ते'रिति शेषः। एव 'सम्भवतीति शेषः । तेन हेतुने'ति शेषः । त्रयोदश । स्वीयाभेदाः स्वीयायाः ( स्वकीयाया नायिकायाः ) प्रकारा इत्यर्थः । स्युः ॥ ९० ॥