________________
१४८ साहित्यदर्पणः ।
[ तृतीयःआलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्याऽन्तिके, कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥ ८१ ॥
१०९ धीराऽधीरा तु सोल्लुण्ठ-भाषितैः खेदयत्यमुम् ॥ ८८ ॥ अमुं नायकम्। यथा मम'अनलङ्कतोऽपि सुन्दर ! हरसि मनो मे यतः प्रसभम् । किं पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः ॥ ८२ ॥'
११० वर्जयेत्ताडयदन्याअन्याऽधीरा।
यथा-'शोणं वीक्ष्य मुखं..' इत्यत्र । अत्र च सर्वत्र 'रुषे' त्यनुवर्तते। सम्यक् प्रतिरुद्धः । अत्र'तत् करोति तदाचष्टे' इति णिच , ततः निष्ठायां क्तः । परिजन सेवकान् । अन्तिके समीपे । 'नायकस्येति शेषः। व्यापारयन्त्या तत्तत्कार्थेविति शेषः । आलापः सम्भाषणम् । अपि । न नैव । मिश्रितः 'प्रत्यालापेने'ति शेषः । एवम्-कान्तं नायकम् । प्रत्युपचारतः प्रत्युपचारात् । उपचारः सेवायै तत्तत्कर्मानुष्ठानम् । चतुरया। कोपः परनामिकागमनचिह्नावगमजन्यः क्रोधः । कृतार्थीकृतः सफलतां नीतः। 'सम्भोगप्रतिरोधेने'ति शेषः । तेनैव कान्तो वशीकृत इति विवृतिकाराः । अमरुशतकस्येदं पद्यम्, अत्र शार्दूलविक्रीडित छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ८१॥
अथ धीराधीरायाः प्रगल्भाया रुषा (रुष्टा)त्वे स्वरूपं लक्षयति-१०९ धीराऽधीरेत्यादिना ।
१०९ धीराधीरा । तु 'प्रगल्भा रुषा (रुष्टा) सती'ति शेषः । सोल्लुण्ठभाषितैः सोल्लुण्ठनानि (प्रियवद्भासमानान्यप्रियाणि ) यानि भाषितानि तैरिति तथोक्तैः । अम नायकम् । खेदयति खिन्नमनस्कं करोतीत्यर्थः॥ ८८॥
कारिकांशकाठिन्यपरिहारायाह-अमुम् 'इत्यस्येति शेषः । नायकम् । इति भावः' इति शेषः । उदाहर्तमुपक्रमते-यथेत्यादिना । यथा । मम-'अनल.. इत्यादौ।
'हे सुन्दर ! यतो यस्माद्धेतोः । अनलङ्कृतो नालङ्कृत इति तथोक्तः । अपि प्रसभं । बलादिति भावः । 'प्रसभं तु बलात्कारो हठः' इत्यमरः । क्रियाविशेषणमेतत् । मे मम । मनश्चित्तम् । हरसि । किम् । पुनः । 'चित्र' मिति शेषः। यत्-सम्प्रति । तस्याः । अत्र नामानुल्लेखस्तन्निन्दनीयत्वज्ञापनार्थः । नखरक्षतैर्नखराणां नखानां क्षतान्याघातास्तैः । 'नखोऽस्त्री नखरोऽस्त्रियाम् ।' इत्यमरः । अलङ्कृतो नितान्तं कृतचिह्नः । त्वम् । 'प्रसभं मम मनो हरसी'ति शेषः ॥ अत्रोपगीतिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ८२॥
अथ प्रगल्भाया अधीरत्वे स्वरूपमाह-११० वर्जयेदित्यादिना।
११० अन्याऽधीरा प्रगल्भा रुषोपलक्षिता सतीति भावः । वर्जयेत् स्वसङ्गाद व्यावृत्तं नायकं कुर्यादित्यर्थः । ताडयेत् 'पादाघातादिना वा प्रिय' मिति शेषः ।
कारिकायाः काठिन्यपरिहारायान्यपदार्थमाह-अन्या 'इत्यस्'ति शेषः । 'अधीरेत्यर्थः।' इति शेषः । उदाहरति-यथा-'शोणं वीक्ष्य मुखं...' इत्यत्र ‘उदाहृते पद्य' इति शेषः । अथ प्रगल्भाया अपि खकीयायाश्छन्नकोपत्वादि सङ्गमयितुमाह-अत्रेत्यादि ।
अत्रैषु १.८ प्रगल्भा.. १५० वर्जये...दन्या 'इत्युक्तेषु सूत्रेष्विति यावत् । च । सर्वत्र । 'रुषा' इति । 'पद'मिति शेषः । अनुवर्तते '१०८प्रिय.. इति सूत्रा'दिति शेषः । तथा च-रुषोपलक्षिते'ति कर्तविशेषणत्वेन योज्यमिति निष्कृष्टम् ।