________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
१४७ इयमेवाधीरा यथा'सार्द्ध मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या । अस्माकमस्ति नहि कश्चिदिहावकाश-स्तस्मात्कृतं चरणपातविडम्बनाभिः ॥ ८० ॥'
१०८ प्रगल्भा यदि धीरा स्या-च्छन्नकोपाकृतिस्तदा ॥ ८७ ॥
___उदास्ते सुरते तत्र दर्शयन्त्यादरान्बहिः ॥ तत्र प्रिये।
यथा-- 'एकत्रासनसंस्थितिः परिहता प्रत्युद्गमाद्दरत-स्ताम्बूल्लानयनच्छलेन रभसाश्लषोऽपि संविनितः।
अथ तृतीयामुदाहर्तुमुपक्रमते-इयमित्यादिना । इयं मध्या। एव। अधीरा। 'रुषा (रुष्टा सती)' इति शेषः । यथा-'साई..' इत्यादौ ।
! परप्रतारणचतुर। एतेन-मयि पारणीतायामनुकूलायामपि न तवानुरागः, अनुरागः किल परस्यामेवेति तव चरितं स्थाने इति व्यज्यते । मनोरथशतैः । साईम् । तव । मनसि ।सा परकीयेत्यर्थः । एव न त्वहम् । कृत्रिमहावरम्या कृत्रिमा न तु खत:सिद्धा ये हावा वक्ष्यमाणलक्षणाः 'स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा । हेला लीलल्यमी हावाः क्रियाः झारभावजाः॥' इत्यमरोक्ताः शृङ्गारभावजाः क्रियास्तै रम्या रमणीयेवेति तथोक्ता ।
न्ता सुन्दरी । स्थिता । ननु त्वमपि मम मनसि स्थितैवासीति चेनेत्याह-इहास्मिंस्तव मनसीत्यर्थः। अस्माकम् । कश्चित् । अवकाशः। नहि नैव । अस्ति । तस्मात् । चरणपातविडम्बनाभिश्चरणपातेन विडम्बना अनुकरणानि क्षमाप्रार्थिवदाचरणानीति यावत् , ताभिस्तथोक्ताभिः । अद्य यावद्यदपराद्धं तत्क्षमापय इति यच्चरणयोः प्रणिपत्य मुहुः क्षमाप्रार्थिवदनुकरोषि तेनेति भावः । कृतं पर्याप्तमितः परं व्यर्थमित्यर्थः । 'युगपर्याप्तयोः कृतम् ।' इत्यमरः । अत्र वसन्ततिलक छन्दः, तलक्षणं चोक्तं प्राक् ॥ ८० ॥
यथा वा-'जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा, निष्पीतं भवता मधु प्रविततं व्याघूर्णितं मे मनः । भ्राम्यदृङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं पञ्चेषुः पुनरेष मां हुतवहक्रूरैः शरैः कृन्तति ॥' इति रसमजाम् ।
अथ त्रिविधायाः प्रगल्भायास्तिस्रो विधाः पृथक्पृथकस्वरूपेण निर्देष्टुकामः प्रथमं धीरेति प्रथमां विधामेव निर्दिशति-५०८ प्रगल्भा...इत्यादिना ।
१०८ यदि यदा । प्रगल्भा । धीरा । 'रुषा (एटा)' इति शेषः। स्यात् । तदा । छन्त्रकोपाकृतिश्छन्नः पिहितः कोपो रोषो यत्र यया वेति, तथाभूताऽऽकृतिर्लक्षणया चेष्टाऽपि यस्यास्तथाभूता। यद्वा-छन्ना कोपाकृतिः कोपस्याकृतिः कोपसूचक आकारो यस्यास्तथाभूता । बहिर्बाह्यात् । आदरामादर(प्रेम) हेतुकान् व्यवहारानिति भावः । दर्शयन्ती प्रत्यक्षतां नयन्ती सतीति भावः । तत्र तस्मिन् कृतागसि नायक इत्यर्थः । अत्र विषये सप्तमी। तथा च-तद्विषयक इति निष्कृष्टम् । सुरते। अत्रापि विषये सप्तमी। उदास्त उदासीना भवति।
कारिकायाः कठिनाशं व्याचष्टे-तत्र 'इत्यस्येति शेषः । प्रिये ।'इत्यर्थः'इति शेषः । इति । उदाहर्तुमाह-यथा-प्रगल्भा धीरा रुषा (रुष्टा ) सती-'एकत्र...' इत्यादौ ।
'दूरतो दूरात् । प्रत्युद्गमात्प्रत्युत्थानात् । एकत्रैकस्मिन् स्थान'इति शेषः । आसनसंस्थितिरासने (शय्योपरि) संस्थितिः (सम्यगुपवेशनम्) इति तथोक्ता। 'आसनेन संस्थिति'रित्येके, “एकत्रेति । एकस्मिन्नासन आसनस्थितिरुपवेशनसम्बन्धः ।' इति त्वाहुस्तर्कवागीशाः ? परिहताऽपाकृता । ताम्बलानयनच्छलेन ताम्बूलस्य ताम्बूलपत्रस्य लक्षणया ताम्बूलवीट्या आनयनं तस्य तदेव वा छलं तेनेति तथोक्तेन । रभसाश्लेषो रभसेन वेगेनैकपदं हठेनेति यावत्, हर्षेण वाऽऽश्लेष आलिङ्गनमिति तथोक्तः । 'रभसो वेगहर्षयोः ।' इति विश्वः । अपि । संविनितः