________________
साहित्यदर्पणः।
[तृतीयःमदधिवसतिमागाः कामिनां मण्डनश्रीव्रजति हि सफलत्वं वल्लभालोकनेन ॥ ७८ ॥' मध्यैव धीराधीरा यथा
'बाले ! नाथ !, विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु. न मेऽपराध्यति भवान् सर्वेऽपगधा मयि । तत्कि रोदिषि गद्गदेन वचसा?, कस्याग्रतो रुद्यते, नन्वतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥ ७९ ॥'
तत्तथावादित्वं सङ्गच्छते । मदधिवसर्ति मम (प्रियजनस्य, वस्तुतः-खप्रियजनसौभाग्यसूचनेन दुर्भगायमानता प्रति नेष्यमाणायाः) अधिवसतिरधिवासस्ताम् । अधिवासः प्रधानगृहं, वस्तुत:-कथमपि समयापयापननिकेतनमित्यर्थः । 'अधिवासो मुख्यगृहे रहःस्थाने चेति गोपालः । आगाः प्राप्तवानसि । अहमेव तव प्रिया, अत एव मया भुक्तत्यक्तं दुकूलं मम प्रीत्यै मनिकेतमुपेतोऽसि, वस्तुतस्तु-नाहं तव प्रिया, कथमन्यथाऽन्यया भुक्तत्यक्तं दुकूलं परिधायापि तस्याः प्रियत्वं सौभाग्यं च सूचयितुं मामेकान्तवासेन कथमपि समयं यापयन्तीमपि दुःखाकर्त्तमुपेतोऽसि, तत्र तव प्रीतिनिळलीकेति भावः । एतदेव स्पष्टयति-हि यतः-कामिनां कामवशंवदानामित्यर्थः । अत एव तथाऽऽचरणं स्थाने इति सूचितम् । मण्डनश्रीर्मण्डनस्य तादशदुकूलादिना प्रसाधनस्य श्रीः शोभेति तथोक्ता । वल्लभालोकमेन वलभानां प्रेयसीनामालोकनं तेन । मादशीनामालोकनेनेव, तादीनां तु सङ्गदानेन सौभाग्यार्पणेनेति भावः । एवं च-मामालोकितुम्व तवागमनम् , अन्यथा किमेतया मयेति सूच्यते । सफलत्वं कृतकार्यत्वम् । व्रजति । 'कामिनो ह्यलत्यात्मानं नायिका आलोकयितुं परिभ्रमन्ति । इति स्वभाव एवैषामिति तात्पर्यम् । अत्र सम्बुद्धयभावो नितान्तं स्थाने, अत एव कान्तायाः कान्तविषयककोपाभिव्यक्तिः, ततश्च कस्याश्चिदपरस्या दुकूलं वसानं कान्तं प्रति तत्पारणीताया नायिकायाः सोल्लुण्ठनमुक्तिरियम् , अस्याश्च धीरात्वम् । तथाहि-नाहं परिणीताऽपि प्रियात्वेन प्रतिज्ञाताऽपि तव निर्मलीकमभिमता प्रिया, प्रिया तु सैव यस्या दुकूलं वसानः खां मण्डनश्रीं मन्यसे, अतस्सैव प्रसत्स्यति, नाहम् , अत्रागमनं तु:-यदि त्वमपि मम प्रियाऽभविष्यस्तर्हि तवापि तस्या इच दुकूलादिना कृतकृत्योऽभविष्यमिति परस्यामनुरागं सूचयित्वा मां परं सन्तापयितुमेवेति निष्कृष्टम् । पद्यमिदं शिशुपालवधस्य, अत्र च मालिनी छन्दः, तल्लक्षणं यथोक्तम्'ननमयययुतेयं मालिनी भोगिलोकैः।' इति ॥ ७८ ॥
अथ द्वितीयामुदाहर्तुमुपक्रमते-मध्यवेत्यादिना ।
'हे बाले कान्ते ! 'बाला त्रुटिस्त्रियोः । इति मेदिनी। (इति कान्तस्योक्तिः)। हे नाथ प्राणनाथ ! (इति कान्ताया उक्तिः) । हे मानिनि! 'नाहं पत्या रस्ये इत्यभिमानवतीत्यर्थः । रुषं क्रोधं 'नाहं पत्या रंस्य'इत्याग्रहमूलभूताभिमानजन्यनिष्ठुरतामिति यावत् । विमुश्चैकपदं त्यज (इति कान्तस्योक्तिः) । मया'बालयेति शेषः । रोषाद्रोषं कृत्वा । अत्र त्यपो लोपे पञ्चमी। किम् । 'तवाकार्य मिति शेषः । कृतम् (इति कान्ताया उक्तिः)। अस्मासु। अत्र बहुत्वं मत्कथनानुसारमवश्यमनुष्ठेयमिति सूचनार्थम् । विषये सप्तमी । खेदः 'कृतः' इति लिङ्गव्यत्ययेन पूर्वतोऽन्वेति । (इति कान्तस्योक्तिः) । मे मम । 'तेमयावेकवचनस्य ।' ८1१।२२ इति मयादेशः । न नैव । भवान् । अपराध्यति । यतः-सर्वे । अपराधाः। मयि मद्विषयाः (इति कान्ताया उक्तिः) । तत्तर्हि यदि नाहं तवापराधं विदध इत्यर्थः । किं किमर्थम् । गद्देन । वचला। रोदाष (इति कान्तस्योक्तिः)? कस्य । अग्रतोऽग्रे। रुद्यते 'मयेति शेषः । ( इति कान्ताया उक्तिः)। ननु । मम । 'अग्रत' इति शेषः । एतत् 'रुद्यते' इति श्रावणं प्रत्यक्षमित्यर्थः । (इति कान्तस्योक्तिः)।का किंसम्बन्धा । तव । स्म्यहमित्यर्थः । ( इति कान्ताया उक्तिः )। दायता प्रिया । 'त्वमसी'ति शषः । 'प्रिय हृद्यं मनोहारि दयितं वल्लभं त्रिषु।' इति गोपाल: । ( इति कान्तस्योक्तिः ) । न नैव। 'तव दयिते'ति
अस्मि । इत्यत इत्यस्मात् कारणात् । 'एवेति शेषः । रुद्यते रोदनं क्रियते। 'मये 'ति शेषः । ( इति कान्ताया उक्तिः)। अमझशतकस्य पद्यमिदम् । अत्र शार्दूलविक्रीडितं वृत्तम् , तलक्षणं चोक्तं प्राक् ॥ ७९ ॥'