________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । १०६ ते धीरा चाप्यधीरा च धीराधीरोत षाविधे । ते मध्याप्रगल्भे। तत्र--- १०७ प्रियं सोत्पासवकोत्या मध्या धीरा दहेद्वषा ॥ ८६ ।।
धीराधीरा तु रुदितै-रधीरा परुषोक्तिभिः । तत्र मध्या धीरा यथा--- 'तदवितथमवादीर्यन्मम त्वं प्रियेति, प्रियजनपरिभुक्तं यद् दुकूलं दधानः।
आह-१०६ ते इत्यादिनेति शेषः ।
१०६ ते मध्याप्रगल्भे इत्यर्थः। धीरा धैर्यवती। च । अपि । अधीरा धैर्यहीना। च। धीराऽधीरा किञ्चिद्धैर्यवतीति भावः । इतीत्येवम् । षडविधे 'मते' इति शेषः । इदमभिहितम्-मध्या धीरा, मध्याऽधीरा, मध्या धीराधीरा चेति त्रयो मध्याया भेदाः, एवं प्रगल्भा धीरा, प्रगल्भाऽधीरा, प्रगल्भा धीराधीरा चेति पुनः प्रगल्भायाः, सम्मिलितानां चैषां षोढत्वं निर्विचिकित्सितम् ।
कारिकाऽर्थकाठिन्यपरिहारायाह-ते 'इत्यस्येति शेषः । मध्याप्रगल्भे 'इत्यर्थ' इति शेषः । इति । अथ तत्र तावत्रिविधाया मध्यायाः पृथक्पृथक्क्रयाऽभिधानेन स्वरूपपार्थक्यं ज्ञापयितुमुपक्रमते-तत्रेत्यादिना । तत्र तयोः षधियोर्मध्याप्रगल्भयोर्मध्य इत्यर्थः ।
१०७ मध्या। धीरा । 'नायिके 'ति शेषः । रुषा रोषयतीति तथोक्ता, 'इगुपधज्ञाप्रीकिरः कः ।" ३।१११३५ इति कः । अत एव विवृतं 'रुषेति कर्तृविशेषणम् ।' इति । यद्वा-साधने तृतीया। यद्वा-' इत्थम्भूतलक्षणे । '२।३।२१ इति तृर्त या, तथा च-रुष्यत इति रुट, तया लक्षितेत्यर्थः । अत्र भावे सम्पदादित्वात् विप। ' कोपक्रोधामर्षरोषप्रतिघारुधौ स्त्रियौ । 'इत्यमरः । अत्रान्त्य एव पक्षो ज्यायान्, अन्यथाऽस्या रोषकतत्वं स्वाभाव्येनोपपद्यतेति बोध्यम् । सोत्प्रासवक्रोक्त्या साक्षेपया वक्रोक्त्येत्यर्थः । उत्प्रासनमुत्प्रक्षेपणमुत्प्रासः । उत्प्र-असु-क्षेपणे इत्यस्माद भावे घञ् । उत्प्रासेन सहेति, सोत्प्रासाऽसौ वक्रोक्तिस्तयेति तथोक्तया। 'उत्प्रासः परिहासे स्या' दिति गोपालः । प्रियं। दहलक्षणया दहेदिवेत्यर्थः ॥ अथैवम् धीराऽधीरा । मध्या रुषा (रुष्टा सती) इति पूर्वतोऽन्वेति । तु । रुदितै रोदनै रोदनप्रधामैचोभिरिति यावत् । ‘प्रियं दहे' दिति पूर्वतोऽन्वेति । अधीरा। 'मध्या रुषा ( रुष्टा सती)' इति पूर्वतोऽन्वेति । परुषोक्तिभिः । ‘प्रियं दहे' दिति पूर्वतोऽन्वेति ॥ ८६ ॥
इदमवसेयम्-मध्यायाः प्रगल्भाया अपि वा रुष्टत्वं मानावसर एव, मानश्च पत्युः परगामित्वबोधिका चेष्टा । तत्र मध्या धीरोपहासेन वक्रोक्तया वा कोपं व्यनक्ति, अत एवास्या न परुषोक्तिर्न वा रुदितम्, अधीरा मध्या रुष्ठा सती परुषोक्त्या कोपं व्यनक्ति, अत एवास्या अधीरत्वम् , धीराधीरा पुनर्मध्या स्टा सती रुदितप्रधानचोभिः कोपं व्यक्ति, अत एवास्यास्तदुभयान्तरालावस्थात्वम् । इति ।
अथात्र तावदाद्यामुदाहर्तुमुपक्रमते-तत्रेत्यादिना।
तत्र तासु त्रिविधासु मध्यानायिकासु। मध्या। धीरा । 'कष्टा सती'ति शेषः । यथा-'तदवितथ... इत्यादौ। । 'त्वं 'परिणीते'ति शेषः। मम 'परिणेतु यकस्येति शेषः । प्रिया प्रेमास्पदम् । 'असी'ति शेषः । 'प्रियो वृद्धयौषधौ हुवे धव' इति हैमः । इतीत्येवम् । यत् । 'मामुद्दिश्ये ति शेषः । अवादीः । तत् । अवितथं न वितथं मिथ्येति तथोक्तं, सत्यमित्यर्थः । वस्तुतस्तु न वितथं मिथ्या यस्मात्तादृशम् , अत्यन्तमसत्यमित्यर्थः । तदेवीपपादयति-यद् यत इत्यर्थः । अत एव नात्र पुनरुक्तिः, । प्रियजनपरिभुक्तं प्रियजनेन परिभुक्तमिति तत्तथोक्तम् । प्रियजनश्चाहमेवेति सोलण्ठनोक्तिः, प्रियजनेन न तु मयेति तु सत्योक्तिः । दुकूलं क्षौममंसोपरि निधेयं वस्त्रमित्यर्थः । 'क्षौमं दुकूल' मित्यमरः । दधानो दधदित्यर्थः । 'वसान' इति पाठे त्वाच्छादयन्नित्यर्थः । धानः शानच् । एतेन
१९