________________
साहित्यदर्पणः ।
[ तृतीय:
'मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै, रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितै, स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥३७॥' दर (स्वल्प ) व्रीडा यथा- 'धन्याऽसि या कथयसि... ' इत्यत्रैव । आक्रान्तनायका यथा, - 'स्वामिन् ! भङ्गुरयालकं सतिलकं भालं विलासिन् ! कुरु, प्राणेश ! त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्राननास्पृष्टा तेन तथैव जातपुलका प्राप्तापुनर्मोहनम् ॥ ३८ ॥ मध्याप्रगल्भयोर्भेदान्तराण्याह
१४४
सा प्रकृतवर्णना नायिका । मधुरवचनैमिष्टेः कोमलैर्वचनैः । तथा सभ्रूभङ्गैः भ्रुवोर्भुकुटयोर्भङ्गः कौटिल्यं तेन सह वर्तन्ते इति तथोक्तैः । कृताङ्गुलितर्जनैः कृतान्यङ्गुलितर्जनानि यत्र तैः । अङ्गुलिभिस्तर्जनानीत्यङ्गुलित र्जनानि । रभसरचितैः रभसः प्रमोदस्तेन रचितास्तैः । ' रभसो वेगहर्षयोः ' । इति विश्वः । महोत्सवबन्धुभिर्महोत्सवस्य नायकचित्तान्तःप्रमोदाधानस्य बन्धवो लक्षणया तद्वत्सहायकास्तरिति भावः । अङ्गन्यासैरङ्गानां चरणादीनां न्यासास्तैः । तथा-असकृदसकृद्वारंवारम् । स्फारस्फारैः । अत्र वीप्सायां द्वित्वम् । तथा च - अतिविपुलैरित्यर्थः । 'स्फारस्तु स्फरकादीनां बुद्बुदे विपुलेऽपि च' इति हेमचन्द्रः । अपाङ्गविलोकितैरपाङ्गेन नेत्रान्तेन विलोकितानि विलोकनानि तै: । 'अपाङ्गी नयनस्यान्ते स्याच्चित्रकप्रधानयोः । इत्यजयः । अत्र "कर्तृकरणयोस्तृतीया ।” २।३।१८ इति सूत्रेण साधने तृतीया । त्रिभुवनजये त्रिभुवनस्य जयस्तत्र । 'कर्तव्य' इति शेषः । पञ्चषोः पञ्चेषवो बाणा यस्य तस्य, कामदेवस्येत्यर्थः । कामस्य पञ्चेषवस्तु 'उन्मादनस्तापनश्च शोषण: स्तम्भनस्तथा । सम्मोहनश्च कामस्य पश्च प्रकीर्त्तिताः ॥ इत्युक्ता अवगम्याः । सहायतां प्राबल्याधानम् । करोति । शृङ्गारतिलकस्येदं पद्यम् । अत्र हरिणी छन्दः, तलक्षणं च यथोक्तम्- 'हरिणी न्सौ नो स्लो गृतुसमुद्रऋषयः ।' इति ॥ ३७ ॥'
दर (स्वल्प ) - व्रीडामुदाहरति, दरव्रीडा । यथा - 'धन्याऽसि या कथयसि ... ॥' इत्यत्र । 'उदाहृते पद्य' इति शेषः । एव 'ज्ञेथे 'ति शेषः । अत्र हि वक्रयाः सुरतावसरे सर्वथा विस्मरणोक्तर्लज्जायाः स्वरूपत्वम् । इति बोध्यम् । अथाक्रान्तनायकामुदाहरति आक्रान्तनायकाऽऽक्रान्तः सुरतानन्दानुभावनेन वशीकृतो नायको यया सेति तथोता, प्रगल्भा नायिकेत्यर्थः । यथा
'स्वामिन्! अलकं केशम् । भङ्गुरय भगुरं कुरु । कुटिलतासम्पादनेन शोभा नयेति भावः । ' भङ्गुरं कुटिले भने' इति गोपालः । हे विलासिन् ! भालं ललाटम् । 'भालो ललाटं निटिल' मिति गोपाल: । हे प्राणेश ! प्राणानामीशो नाथ इति तत्सम्बुद्धौ तथोक्त ! त्रुटितं खण्डितमित्यर्थः । हारं मुक्ताऽऽभरणम् । ‘हारो मुक्तावली' त्यमरः । पुनः । पयोधरतटे पयोधरयोः कुचयोस्तटं तत्र तदुपरीत्यर्थः । योजय संयोजय । इतीत्येवम् । सुरतावसानसमये सुरतस्यावसानमन्तस्तस्य समयस्तत्र । उक्त्वा 'स्थिते 'ति शेषः । सम्पूर्णचन्द्रानना सम्पूर्ण: षोडशकलाभिः पूर्णोऽसौ चन्द्रस्तस्यैवाननं यस्याः सेति तथोक्ता । सम्पूर्णचन्द्रसाम्याभिधानेनाभिधास्यमान मोहोपस्थितैर्योग्यत्वं व्यज्यते । तेन प्राणशेनेत्यर्थः । स्पृष्टा करकमलादिना स्पर्शविषयीकृता । तथा 'यथा पूर्व मुरतावसरे' इति शेषः । एव न त्वन्यथा । पुनः । 'अनुभूतमेव तत् किमपीति शेषः । मोहनं मोहम् । भावे ल्युट् । प्राप्ता प्राप्तवतीत्यर्थः । इदं पद्यं शृङ्गारतिलके कस्या अपि स्वात्मनि नितान्तमनुरक्तं नायकं प्रत्युक्तिपरम् । शार्दूलविक्रीडितं च च्छन्दः, तलक्षणं चोक्तं प्राक् ॥ ३८ ॥'
अथ सिंहनिरीक्षण येन मध्याप्रगल्भयोर्भेदान्तराणि वक्तुं प्रतिजानीते - मध्याप्रगल्भ्योमंध्यायाः प्रगल्भाया श्रत्यर्थः । भेदान्तराण्यन्ये निरुक्तेभ्यो विचित्रसुरतादिभ्यो भिन्ना भेदा इति तानि तथोक्तानि । आह इत्यादिना