________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
१४३
गाढतारुण्या यथा"अत्युन्नतस्तनमुरो,नयने सुदीघे, चक्रे भ्रुवा, वतितरां, वचनं व्रतीपि । मध्योऽधिकं तनु-रनूनगुरुनितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥ ३५॥" समस्तरसकोविदा यथा"क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः, क्वचिच्चूर्णोद्गारी, क्वचिदपि च सालक्तकपदः। वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः, स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥३६॥" भावोन्नता यथा--
गाढयौवनामुदाहरति-गाढतारुण्या गाढं घनीभूतं पूर्णरूपेण वर्तमानमिति यावत्, तारुण्यं यौवनावस्था यस्याः सेति तथोक्ता । 'प्रगल्भा नायिके' ति शेषः । यथा
"अद्धतयौवनाया अद्भुतं पूर्णतया ( सर्वतोभावेन ) वर्तमानतया विस्मयावहं यौवनं यस्यास्तस्याः । अतएवअत्यन्नतम्तनमत्यन्तमुन्नतौ स्तनौ यत्रेति तथोक्तम् । उरो वक्षःस्थलम् । सुदीर्घ अत्यन्तमायते। नयने नेत्रयुगलम्। वके कुटिले । भ्रुवी भ्रकुटी। ततो भ्रुवोरपेक्षया। अपि । वचनम्भाषणम् । वचनविपरिणामेन 'वक्र'मिति योज्यम् । अधिकम् । तनुः सूक्ष्मः । 'तनुः काये त्वचि स्त्री स्यात्रिध्वल्पे विरले कृशे' इति मेदिनी। मध्यो मध्यभाग उदरमिति यावत् । 'मध्यम चावलग्नं च मध्योऽस्त्री'-त्यमरः । अनूनगुरुनौनो न्यून इत्यनूनः तादृशोऽसौ गुरुरिति तथोक्तः । 'हीनन्यूनावनगा वित्यमरः । नितम्बःकटिपश्चाद्भागः । किमपि अनिर्वचनीयमत्यन्तमिति यावत् । इदं क्रियाविशेषणम् । च । मन्दा सविलासा गतिर्गमनम् । पद्यमिदं धनिकस्य । वसन्ततिलकं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥" - समस्तरतकोविदामुदाहरन् तस्याः । शय्याप्रच्छदपटवर्णनमिषेण विविधसुरताभिज्ञत्वं प्रकटयति-समस्तरतकोविदा समस्तानि लक्षणयाऽनेकविधानि यानि रतानि सुरतानि तेषां कोविदा पण्डिता चतुरेति यावत् । “ज सुधी: कोविदो बुधः ।" इत्यमरः । यथा
"क्वचित कस्मिंश्चिदंशे । ताम्बलाक्तस्ताम्बूलेन लक्षणया चर्वितावशिष्टनाधरताम्बूलरागेणाक्तो रञ्जित इति तथोक्तः । एतेनाधोवदनाया ऊर्वोत्तम्भितनितम्बाया मार्जारसुरतं सूचितम् । क्वचित्ततोऽपरस्मिन्नंशे । अगुरुपड्रामलिनोऽगुरुण: कालागुरु वन्दनस्य पयोधरयुगलोपरि चर्चितस्य श्रमाम्बुशवलिततयाऽऽर्द्रतां गतस्य तस्येति यावत् पङ्कस्तस्याङ्काश्चिह्नानि तैर्मलिनः श्यामतां नीतः । एतेनाधोवदनायाः समभावेन स्थिताया धेनुसुरतं सूचितम् । क्वचित्तदुभयतोऽपरस्मिन्नशे । चूर्णोद्वारी चूर्णानि स्वभावसुरते लज्जारक्षाऽऽद्यर्थ दीपनिर्वापणार्थों त्क्षिप्तानि सुरभितानि द्रव्याणि उद्गिरति लक्षणया तथा लक्ष्यमाण इति भावः । एतेन स्वाभाविकसुरतं सूचितम् । क्वचित् एभ्योऽप्यपरस्मिन्नशे । च । सालक्तकपदः सालक्तकानि, अलक्तकेन सह वर्तन्ते इति तथाभूतानि अलक्तकरागरञ्जितानीति यावत् पदानि लक्षणया तन्न्यासचिह्नानि यत्र तथोक्तः । एतेन सङ्कचितचरणयुगलाया उत्तानस्थितायाः सुरतं सूचितम् । अपि । इदं वैलक्षण्यं सम्भावयति । वलीभाभोगवलीभिस्त्रिवलीभिः लोमरेखाविशेषैरिति यावत्, ( कृता ये) भङ्गा विच्छित्तयस्तेषामाभोगाः परिपूर्णत्वानि तैस्तथोक्तः । 'भङ्गस्तरङ्गे भेदे च रुग्वि
शेषे पराजये । कौटिल्ये भयविच्छित्त्योः ' इति हैमः । "आभोग: परिपूर्णता।" इत्यमरः । “इत्थम्भूतलक्षणे" २।३।२१ 'इति तृतीया । एवं च वलीभङ्गाभोगैरुपलक्षित इत्यर्थः । 'क्वचित्' इति शेषः । एतेन अधोवदनसमभावस्थितायाः
शय्याऽऽस्तरणे उदरस्थवलीत्रयचिह्नसम्भवात् सुरतविशेषः सूचितः । तथा-अलकपतितः अलकेभ्यश्चूर्णकुन्तलेभ्य: पतितानि स्खलितानि तैस्तथोक्तैः । “अलकादचूर्णकुन्तलाः ।" इत्यमरः । शीर्णकुसुमैः शीर्णानि सुरतावसरे विमदेनेतस्ततः परिक्षिप्तानि यानि कुसुमानि पुष्पाणि तैः । “उपलक्षितः" इति शेषः । अत्रापि 'इत्थम्भूतलक्षणे।' २।३।२१ इति तृतीया। एतेन-नायकोपरि स्थिताया अधोवदनाया अलकेभ्यः कुसुमस्खलनसम्भवात् पुरुषायितं सुरतं सूचितम् । प्रच्छदपटः शय्यास्तरणवस्त्रम् । 'निचोल: प्रच्छदपटः ।' इत्यमरः । स्त्रिया नायिकायाः । सर्वावस्थं सर्वा यावत्प्रकारा अवस्थाः स्वरूपाणि यस्य तत् । रतं सुरतम् । कथयति सूचयति । अमरुशतकस्येदं पद्मम् । इदं च कस्याश्चित् प्रातरास्तरणं पश्यतः कस्यापि वचनम् । अत्र शार्दूलविक्रीडितं वृत्तं तल्लक्षणं चोक्तं प्राक् ॥"
भावोन्नतामुदाहरति-भावोन्नता भावैश्चेष्टाविशेषैरुन्नता ज्येष्ठेति तथोक्ता । यथा