________________
१४२
साहित्यदर्पणः।
[ तृतीयः
एवमन्यत्रापि । अथ प्रगल्भा--
१०५ स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
___ भावोन्नता दरब्रीडा प्रगल्भाक्रान्तनायका ॥ ८५ ॥ स्मरान्धा यथा'धन्याऽसि या कथयसि प्रियसङ्गामेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नावी प्रति प्रणिहिते तु करे प्रियेण सख्याःशपामि यदि किश्चिदपि स्मरामि ॥३४॥'
ईषत्प्रगल्भवचनादेख्दाहरणमप्येवमित्याह-एवं यथा लक्षणानुसारेणात्र विचित्रसुरतादिस्तथेति भावः । अन्यत्रोदाहरणान्तरे । अपि। ईषत्प्रगल्भवचनाया मध्यमत्रीडितायाश्च व्यवस्थोह्येति भावः। अत्र तर्कवागीशाः-'यथा"सुभग! कुरबकस्त्वं किं ममालिङ्गनोत्क: किमु मुखमदिरेच्छु: केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पारातः प्रियमिति परिहासात्पेशलं काचिदचे ॥," "किञ्चिदाकुञ्चयत्यास्यं मन्दहासातिसुन्दरम् । दरमुद्रितनेत्रान्ता अम्बतीशे नितम्बिनी ॥” इति।'
अथ प्रगल्भां वकीयां नायिका वर्णयितुमुपक्रमते-अथेत्यादिना । अथ मध्यावर्णनानन्तरम् । प्रगल्भा वर्ण्यते-१०५ 'स्मरान्धा..' इत्यादिना ।
१०५ स्मरान्धा स्मरः कामस्तेनान्धा लक्षणयाऽन्धसदृशी स्थानास्थानसमयासमयादिसमीक्षणायोग्येति यावत्, इति तथोक्ता। गाढतारुण्या गाढं पूर्ण तारुण्यं यस्याः सेति तथोक्ता समस्तरतकोविदा समस्तान्यनुलोमविलोमादि यावद्भेदानि यानि रतानि सुरतानि तेषां कोविदा पण्डितेति तथाभूता। 'सन् सुधीः कोविदो बुधः।' इत्यमरः । भावोन्नता भावेनाभिप्रायेणोन्नता प्राधान्यं प्राप्तेति तथोक्ता । 'भावः सत्तास्वभावाभिप्रायचेष्टाऽऽत्मजन्मसु ।' इत्यमरः । दरवीडा दरेषद् ब्रीडा लज्जा यस्याः सा तथोक्ता । 'दराव्ययं मनागर्थे ' इति मेदिनी। इयमेव स्वल्पव्रीडेत्यपि व्यपदिश्यते । आक्रान्तनायकाऽऽक्रान्तो वशीकृतो नायको यया सा तथोक्ता । प्रगल्भा प्रौढा नायिका । 'मते'ति शेषः॥ ८५॥
अथ तत्र तावत्स्मरान्धामुदाहर्तुमुपक्रमते-स्मरान्धेत्यादिना । स्मरान्धा। 'प्रगल्भानायिके 'ति शेषः । यथा-धन्या.. इत्यादौ ।
'हे सखि ! धन्या कृतपुण्या। असि ‘सा त्व' मिति शेषः। या। प्रियसभमे प्रियस्य प्राणप्रियस्य सङ्गमस्तस्मिंस्तथोक्ते । 'सती'ति शेषः। रतान्तरेषु रतानां सुरतानामन्तराणि मध्यानि तेषु तथोक्तेषु । अपि किं पुनरन्यदा । विश्रब्धचाटुकशतानि विश्रब्धा ये चाटुकाः प्रियवचनानि तेषां शतानि तानि तथोक्तानि । 'चाटुकः प्रियवाक् चाटुः पुंसि प्रेमकथा स्त्रियाम् ।' इति गोपालः। कथयसि । प्रियेण प्राणनाथेन । तु पुनः । नीवीं कटिबन्धनग्रन्थिम् । प्रति नेतुमिति शेषः । करे प्रणिहिते प्र-नि-धा-क्तः । यदि। किञ्चित् । अपिः। स्मरामि । 'ती'ति शेषः । सख्याः । अत्र सम्बन्धमात्रविवक्षया षष्ठी। शपामि शपं (शपथं) करोमीत्यर्थः । 'सर्वप्रातिपदिकेभ्यः क्विव्वा।' इति । अन्यथा 'शप उपालम्भ' इत्यात्मनेपद स्यापत्तिः । इदमभिहितम्-प्रियसङ्गम एवालौकिकाहाद एतादृशः, येन तन्मन्थरतया किमपि न वक्तुं शक्यं, किं पुना रतेषु, तत्रापि तत्तेषां मध्ये एव, न त्वादावन्ते वेति तानितानि यद्वीषि तन्नितान्तमाश्चर्यम्, मम तु नीवी प्रति नेतुं प्रियेण प्रणिहिते करे प्रणिधानविषयीकृत एव नत्वर्पिते न किञ्चिदप्यहं स्मरामि किं पुनश्चाटून् प्रस्तोतुं पारयामीति तवैव शपथपूर्वकं प्रतिजाने । इति । इदं विजकायाः पद्यम् । सखीनां मध्ये सुरतावसरे बाह्यकथालापिनीमुद्दिश्योपहसन्त्याः कस्याश्चिदियमुक्तिः । अत्र च वसन्ततिलकं छन्दः, तल्लक्षणं चोक्तं प्राक ॥ ३४॥'
१ 'सख्य' इति पाठे तु 'धन्याऽस्ति या कथयती' त्याद्यपादे पठितव्यम्, अन्यथा 'सखी'ति पठितव्ये 'सख्य' इति पाठोऽयुक्त एव स्यात् ।