________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । विचित्रसुरता यथा
‘कान्ते ! तथा कथमपि प्रथितं मृगाक्ष्या, चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथाऽस्याः ॥३२॥' प्ररूढस्मरा यथाऽत्रैवोदाहरणे । प्ररूढयौवना यथा मम
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः। कान्तिःकाश्चनचम्पकप्रतिनिधिर्वाणी सुधास्पन्दिनी,स्मेरेन्दीवरदामसोदरवपुस्तस्याःकटाक्षच्छटा॥' अत्राहः-'मध्या यथा.. “स्वापे प्रियाननविलोकनहानिरेख स्वापच्युतौ प्रियकरग्रहणप्रसङ्गः । इत्थं सरोरुहमुखी परिचिन्तयन्ती स्वापं विधातुमपि हातुमपि प्रपेदे ॥ इति ।
अथ मध्यामुदाहर्तमुपक्रमते-विचित्र..इत्यादिना । विचित्र सुरता तत्स्वरूपा मध्या नायिकेति भावः । यथा-'कान्ते..' इत्यत्रेति शेषः ।
'हे कान्ते सुन्दर ! नायकमनोहरणक्षमे ! इति यावत् । उद्धतमनोभवयोद्धत उत्कटो मनोभवः कामो यस्यास्तयेति तथाभूतया । मृगाक्ष्या मृगस्येवाक्षिणी नेत्रे यस्यास्तथेति तथोक्तया। रतेषु रमणेषु लक्षणया तव्यतिकरेष्विति यावत् । अत्र बहुवचनं कपोतानां तथाऽध्ययनयोग्यतां सूचयतीति बोध्यम् । भावे क्तः । तथा तेन प्रकारेण । . कथमप्यत्यवहितत्वेनेति भावः । चातर्यम। चतुराया भाव इति तथोक्तम् । प्रथितं ख्यापितम् । यथा येन प्रकारेण । तत्कूजितानि तान्येव कूजितानि भणितान्यव्यक्तशब्दविशेषा इति तानि तथोक्तानि । अनेकवारमसकृत् । अनेके वारा अवसरा यत्र (कर्मणि) इति यथा भवेत्तथेति भावः 'वारः सूर्य्यादिदिवसे वारोऽवसरवृन्दयोः। कुब्जवृक्षे हरे द्वारे वारं मध्यस्य भाजने ॥'इति विश्वः । अनुवदद्धिस्तदुत्तरं तथैवोच्चरद्भिः ।
पोतशतैर्गहस्य कपोतशतानि तैः । अत्र शतपदं तदगणितत्वबोधनार्थम् । अस्याः । शिष्यायितं शिष्यवदाचरितम् । इदं पद्यं शृङ्गारतिलके । अत्र च वसन्ततिलकं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ३२॥'
प्ररूढस्मराया अप्येतदेवोदाहरणमित्याशयेनाह-प्ररूढस्मरा । यथा। अत्रास्मिन् । एव। उदाहरणे 'विचित्रसुरताया' इति शेषः । तथा च-'कान्ते...'इत्यस्मिन् विचित्रसुरता यथा वर्णिता तथा प्ररूढस्मराऽपीत्युभयोरेतदुदाहरणमिति निष्कृष्टम् ।
अथ प्ररूढयौवनामुदाहर्तुमुपक्रमते-प्ररूढयौवनेत्यादिना । प्ररूढयौवना । यथा। मम ग्रन्थकर्तुः । 'नेत्रे...'इत्यादौ ।
'खञ्जनगञ्जने खञ्जनस्य खञ्जरीटस्य पक्षिविशेषस्य, लक्षणया तन्नेत्रयोर्गञ्जनं शब्दो लक्षणया प्रत्याख्यानं याभ्यां ते तथोक्ते । यद्वा-खञ्जनस्य गञ्जने प्रत्याख्यायके इति तथोक्ते । 'खञ्जरीटस्तु खञ्जनः ।' इत्यमरः । 'गजि' शब्दार्थः । गञ्जयत इति गञ्जने, गलत इति वा गजने । गञ्जनशब्दस्य हि प्रसिद्धिस्तिरस्कारे। नेत्रे स्त इति शेषः । सरसिजप्रत्यर्थि सरसिजयोः कमलयोः प्रत्यर्थि वैरि खमहिना तिरस्कारकमिति यावत्, इति तथोक्तम् । पाणिद्वयं हस्तयुगलम् । अस्तीति शेषः । वक्षोजौ वक्षसो जायते इति तथोक्तौ, कुचावित्यर्थः । करिकुम्भविभ्रमकरी कारणः कुम्भौ मूर्धाशविशेषौ तयोर्विभ्रमः सादृश्यप्रत्यायनं, तयोः करी तां तथोक्ताम् । अत्युन्नतिम्। गच्छतः प्रतिपद्यते। काश्चनचम्पकप्रतिनिधिः काञ्चनचम्पकयोः काञ्चनचम्पकस्य वा प्रतिनिधिस्तुल्यस्वरूपत्वेन स्थानमापन्नेति तथोक्ता । स्वच्छपीततया काञ्चनस्य, मार्दवसंवलिततया च चम्पक (पुष्प) स्यानुकारिणीति बोध्यम् , यद्वा-काश्चनवणेतरचम्पकसादृश्यपरिहाराय काञ्चनेति विशिष्याभिधानम् । कान्तिः शोभा। अस्तीति शेषः । सुधास्पन्दिनी सुधाममृतं स्पन्दयितुं शीलमस्या अस्तीति तथोक्ता । 'स्पर्द्धिनीति पाठे तु-सुधायाः स्पर्धिनी तिरस्कारिणीत्यर्थः । वाणी भाषणम् । तथा-तस्याः । 'नायिकाया' इति शेषः । स्मेरेन्दीवरदामसोदरवपुः स्मेरं प्रफुलं यदिन्दीवरं नीलकमलं तस्य सोदरवपुःसदशीति तथोक्ता । सोदराया इव वपुर्लक्षणया स्वरूपं यस्याः सेति सोदरवपुः । कटाक्षच्छटा कटाक्षयोश्छटा शोभाविशेषः, 'धारे ति तु तर्कवागीशाः । अस्तीति शेषः । अत्र शार्दूलविक्रीडितं छन्दः, तल्लक्षणं चोक्तं प्राक ॥ ३३ ॥'