________________
१४०
साहित्यदर्पणः ।
[ तृतीय:
'सा पत्युः प्रथमापराधसमये सख्योपदेशं विना, नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्य्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलाल कैरश्रुभिः॥ ३१॥' समधिकलज्जावती यथा- 'दत्ते सालसमन्थरं... ' इत्यत्र श्लोके ।
अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् । अथ मध्या
१०४ मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥ ८४ ॥
'सा प्रक्रान्तवर्णना । बाला बालस्वभावा नायिकेत्यर्थः । पत्युः । प्रथमापराधसमये प्रथमः प्रथमं ज्ञातोऽसावपराधस्तस्य समयोऽवसरस्तस्मिन्निति तथोक्ते । अत्र सतिसप्तमी । सख्योपदेशं सखीकर्त्तृकोपदेशम् । सख्या ओपदेशः आसमन्तादुपदेश इत्योपदेशस्तं तथा । यद्वा- सख्याः कर्मेति सख्यम् । 'सख्युर्यः । ' ५।१।१२६ इति यः । सख्यमेवोपदेश इति तं तथोक्तम् । सखीकर्माभिन्नमुपदेशमित्यर्थः । यद्वा- सख्या भावः सख्यम् । तेन सख्येन ( सखीत्वेन ) य उपदेशस्तम् । विना । सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनं सविभ्रममङ्गवलनावक्रोक्तिसंसूचनमिति तत् तथोक्तम् । विभ्रमेण सहवर्त्ततइति सविभ्रमं यथा भवेत्तथेति भावः । अङ्गस्य भ्रुकुटयादेर्वलना ( स्वाभिप्रायाविष्करणार्थम् ) चालनमित्यङ्गवलना । असौ च वक्रोक्तयस्ताभिः संसूचनमिति तत्तथोक्तम् । यद्वा-सख्या । विना । सख्या अभावादिति भावः । सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनं तदभिन्नमित्यर्थः । उपदेशम् । इति । नोनैव । जानाति । स्वच्छैः । अच्छकपोलमूलगलितैरच्छा अञ्जनपत्ररचनाव्यपगमान्निर्मलौ यौ कपोलौ तयोर्मूल तेन गलितास्तैस्तथोक्तैः । रोदनाधिक्यं सूचयितुम् 'अच्छे'ति विशेषणम् । लुठल्लोलालकैलुठन्तो लोला अलका यत्र तैस्तथोक्तैः । अश्रुभिः । पर्य्यस्तनेत्रोत्पला पर्यस्ते अन्धीभूते व्याकुले वा नेत्रोत्पले यस्याः सा तथोक्ता । केवलम् । रोदिति दुःखं निवेदयते । एव न त्वन्यत् कोपनिदर्शनं जनयतीति भावः । इदं च पद्यममरुशतक - स्थम् । अत्र शार्दूलविक्रीडितं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ३१ ॥ '
अथ समधिकलज्जाशीलामुदाहत्तुमुपक्रमते - समधिकलज्जावतीत्यादिना ।
समधिकलज्जावती । यथा । ' दत्ते सालसमन्थरं... ' इत्यत्र । श्लोके । ' उदाहृत' इति शेषः ।
ननु नितान्तमधिका लज्जा रतेः प्रतिकूलेति' रतौ वामेत्यनेनैव समधिकलज्जावत्या ग्रहणे सिद्धे किमर्थमिदमुदाहरणमित्याशङ्कयाह- अत्रेत्यादि ।
अत्र । समधिकलज्जावतीत्वेन । अपि । लब्धाया उपपन्नायाः । रतिवामताया रतौ वामतायाः । रतिविच्छित्तिविशेषवत्तया रतेविंच्छित्तिविशेषश्चमत्कार विशेष इत्यसावस्यामस्तीति तस्यास्तथाभूताया भावस्तता तया तथोक्तया । पुनः । कथनम् ।
एवं मुग्धां निर्वर्ण्य मध्यामपि तथैव निर्वर्णयितुमुपक्रमते - अथेत्यादिना ।
अथ । मध्या नातिमुग्धा नातिप्रौढेत्येवं मध्यमतया यौवनं मदनविकारं चाविष्कुर्वाणा नायिकेत्यर्थः । वर्ण्यते - १०४ मध्या.. इत्यादिनेति शेषः ।
१०४ विचित्रसुरता विचित्रमनन्यसदृशं सुरतं विहारविशेषो यस्याः सा तथोक्ता । प्ररूढस्मरयौवना प्रदे मुग्धाऽपेक्षया सप्रकर्षमाविर्भूते स्मरयौवने यस्याः सा तथोक्ता । स्मरश्च यौवनं चेति स्मरयौवने । तथा च - प्ररूढस्मरा प्ररूढयौवना चेति निष्कृष्टोऽर्थः । अत एव - ईषत्प्रगल्भवचनेषत् किञ्चित् मुग्धाऽपेक्षयोत्कृष्टत्वात्प्रौढापेक्षया च न्यूनत्वान्नात्यन्तमिति यावत्प्रगल्भं वचनं भाषणं यस्याः सा तथोक्ता । तथा मध्यमव्रीडिता मध्यमं नातिशयितं नापि तिरोहितं व्रीडितं व्रीडा यस्याः सा तथा । अत्र भावे क्तः । मध्या । मता ' पूर्वाचाय्यै ' रिति शेषः । एवं च - विचित्रसुरता, प्ररूढस्मरा, प्ररूढयौवनेषत्प्रगल्भवचना तथा या मध्यमत्रीडिता सा मध्या मतेति निष्कष्टम् । अत्र श्लोकछन्दः । तल्लक्षणं चोक्तं प्राक् ॥ ८४ ॥