________________
परिच्छेदः ]
रुचिराख्यया ब्याख्यया समेतः। प्रथमावतीर्णमदनविकारा, यथा मम प्रभावतीपरिणये
'दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तःपुरात्, नोदाम हसति क्षणात्कलयते हीयन्त्रणां कामपि । किञ्चिद्भावगभीरवक्रिमलघस्पृष्टं मनाग्भाषते,
सभूभङ्गमुदीक्षते प्रियकथामुल्लापयन्ती सखीम् ॥२९॥' रतौ वामा यथा-- 'दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता, शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते। निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते,जाता वामतयैव सम्प्रति ममप्रीत्यै नवोढा प्रिया॥३०॥
माने मृदुर्यथा-- एवं प्रथमावतीर्णयौवनामुदाहृत्य प्रथमावतीर्णमदनविकारामुदाहर्तुमुपक्रमते-प्रथमा इत्यादिना ।
प्रथमावतीर्णमदनषिकारा प्रथममवतीर्णो मदन ( काम ) विकारो यस्याः सा तथोक्ता । यथा । मम विश्वनाथस्येत्यर्थः । प्रभावतीपरिणये लक्षणया तदीये 'दत्ते..' इत्यत्र पद्य इत्यर्थः।
- 'सालसमन्थरमलसेनालस्येन सहवर्ततइति सालसंचतन् मन्थरं मन्दगमनमिति तथोक्तं यथा भवेत्तथा । 'प्रभा वती "ति शेषः । भुवि क्षितितले । पदं चरणम् । दत्ते । अन्तःपुरात । न नैव । नियोति निष्कामति । उहाममत्यन्तम् । न नैव । हसति । क्षणाकिञ्चिद् यदा कदाचिद्धसत्यपि तदा क्षणादुत्तरमिति भावः । काम् । अपि । ह्रीयन्त्रणां हियो लज्जाया यन्त्रणा बन्धनं ताम् । कलयते रचयति । किश्चिद्भावगभीरवक्रिमलवस्पृष्ठं किश्चिद्भावगभीरवक्रिम्णो लवोऽशस्तेन स्पृष्टं यथा भवेत्तथा । गभीरो गम्भीरोऽसौ वक्रिमा कुटिलतेति गभीरवक्रिमा । भावोऽभिप्रायस्तस्य गभीरवक्रिमा। किञ्चिदित्यस्य लव इत्यनेन योगः । 'भावोऽभिप्रायवस्तुनोः ।' इति हैमः । वक्रस्य भावो वक्रिमा। मना किञ्चित् । 'किञ्चिदीषन्मनागल्पे' इत्यमरः । भाषते । प्रियकथां प्रियस्य स्वामिनः कथा नाम गुणादिकथनं ताम् । उल्लापयन्तीम् । अत्र स्वार्थे णिच् । सखीम् । सभ्रूभङ्गंभूभनेण सह यथा भवेत्तथा । भ्रुवोर्भङ्गः कौटिल्यमिति भ्रूभङ्गः। 'भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये। कौटिल्ये भयविच्छित्यो' रिति हैमः । उदीक्षते निरीक्षते । अत्र शार्दूलविक्रीडितं छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ २९ ॥'
अथ रतौ वामामुदाहर्त्तमुपक्रमते-रतावित्यादिना । रतौ रमणे । वामा। प्रतिकूला अत एव स्वामिनो मनोरमत्वाद्वामा (रमणीया)। यथा-'दृष्टा..' इत्यत्र ।
'मम । नवोढा नवपरिणीता। प्रिया । दृष्टाऽवलोकिता सतीत्यर्थः। दृष्टिम् । अधो नीचैर्भूम्यां पादान इति यावत् । ददाति । आभाषिताऽऽलापिता सती । आलापम् । न नैव । कुरुते । शव्यायां शेतेऽत्रेति तथोक्तायां, शयनीये पर्यकोपरीति यावत् । 'सज्ञायां समजनि..शीभृअिणः ।' ३।३।९९ इति क्यप, 'अयङ् यि विति।' ७।४।२२ इत्ययङ् । परिवृत्य । तिष्ठति 'न तु शेते' इति शेषः । वलात । आलिब्रिताऽऽलिङ्गनं नीता। वेपते कम्पते । निर्यान्तीषु कथमपि विश्वास्य प्रापय्य कृतकृत्यतया निवृत्तासु सतीषु । सखीषु । वासभवनाद्रमणगृहात् । 'सखीनामेवानुपद' मिति शेषः । निर्गन्तुं निर्यातुम् । एव न तु तत्र स्थातुमपि, किं पुना रन्तुमिति भावः । ईहते चेष्टते । सम्प्रति परिणयोत्तरं कतिपयेषु वासरेष्वेषु व्यतीयमानेषु सत्स्वपीति शेषः । वामतया प्रतिकूलस्वभावतया । एव । प्रीत्यै प्रीतिमाधातुम् । 'क्रियाऽर्थोपपदस्य च कर्मणि स्थानिनः ।' २।३।१४ इति चतुर्थी। जाता सम्पद्यते स्मेत्यर्थः । अत्र 'आलाप' मित्यभिधाय 'आलापिते' त्यनभिधानेन 'निर्व्यान्ती' वित्यभिधाय 'निया॑न्तु' मित्यनभिधानाच प्रक्रमभङ्गः । पद्यं चैतच्छ्रीहर्षदेवस्य । शार्दुलविक्रीडितं छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ ३०॥
अथ माने मृदुमुदाहर्तुमुपक्रमते-माने इत्यादिना । माने आग्रहे । मृदुः कोमला । यथा-'सा पत्युः.. इत्यादौ ।