________________
१३८ साहित्यदर्पणः।
[तृतीयः१०३ प्रथमाऽवतीर्णयौवनमदनविकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥ ८३ ॥ तत्र, प्रथमावतीर्णयौवना यथा मम तातपादानाम्-- 'मध्यस्य प्रथिमानमेति जघनं, वक्षोजयोर्मन्दतां दूरं यात्युदरं च, रोमळतिका नेत्रार्जवं धावति । कन्दर्प परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणादङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रवः ॥२८॥'
१.३ प्रथमावतीर्णयौवनमदनविकारा प्रथममवतीौँ यौवनमदनविकारौ यस्याः सेति तथोक्ता । यौवनं मदन (कामकृत) विकारं च प्रथममेव (तदानीमेव) प्राप्तेति भावः । यद्वा-यौवनमदनविकारावतीर्णेत्यवतीर्णयौवनमदनविकारा, प्रथममवतीर्णयौवनमदनविकारेति तथोक्ता । यौवनं च मदनविकारश्चेति यौवनमदनविकारी। तथा च-- प्रथमाऽवतीर्णयौवना, प्रथमावतीर्णमदनविकारा चेति निष्कृष्टम् । रतौ रमणे तद्विषय इति यावत् । वामा 'सकम्पा चुम्बने वकं हरत्येषोपगृहिता । परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥' इत्युक्तस्वभावा, 'वामौ वल्गुप्रतीपौ द्वावित्यमरः । माने आग्रहे। 'मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे।' इति हैमः । च । मृदुरनिष्ठुराऽल्पप्रयासापनेयाग्रहेति यावत् । समधिकलज्जावती नितान्तं लज्जावती। मुग्धा। कथिता । अत्रोपगीतिश्छन्दः, तल्लक्षणं च यथोक्तम्, 'अन्त्येनोपगीतिः (पि.)' इति ॥ ८३ ॥
अत्रेदमप्यवगम्यम्-मुग्धा, प्रथमावतीर्णयौवना, प्रथमावतीर्णमदनविकारा, रतौ वामा, माने मृदुः, समधिकलज्जावती चेति पञ्चविधा । तत्र मुग्धा यथा-'आज्ञप्तं किल कामदेवधरणीपालेन काले शुभे वस्तुं, वास्तुविधि विधास्यति तनौ तारुण्यमेणीदृशः। दृष्टया खजनचातुरी, मुखरुचा सौधाधरी माधुरी, वाचा किन्तु सुधासमुद्रलहरीलावण्यमामन्त्र्यते ॥' इति । अन्ये त्वाः-'मुग्धाऽज्ञातयौवना ज्ञातयौवना ज्ञाताज्ञातयौवना चेति त्रिविधा ।' इति, तत्राज्ञातयौवना यथानीरातीरमुपागता श्रवणयोः सीनि स्फुरनेत्रयोः श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं परं न्यस्यति । शैवालाकुरशङ्कया शशिमुखी रोमावली प्रोञ्छति श्रान्ताऽस्मीति मुहुः सखीमविदितश्रोणीभरा पृच्छति ॥' इति । ज्ञातयौवना यथा मम-'अयि सखि कुचयुग्मं पीनतुङ्गम्मदीयं निरतिशयमसह्यं, तद्भरेणार्दिताऽस्मि । न किमु तदिति नित्यं वर्द्धते कार्यमेतत्त्वमिव बत कृशाङ्गी पश्य जाताऽहमद्य ॥' इति । ज्ञाताज्ञातयौवना यथा मम-'किं यौवने सखि नितम्बयुगेन मा पनि प्रयाति न किमित्युदरम्ममैतत् । हन्तास्य किं हसति बालभवाऽपि नित्यं तत् कारणं वद विविच्य विवेकिनि: स्वम ॥' इति । वयं ब्रूमः-त्रयोऽप्यत भेदाः प्रथमावताणयोवनानतिरिक्ता एव । इति ।
अथ क्रमादुदाहर्तुमुपक्रमते-तत्रेत्यादिना ।
नत्र तास पञ्चविधासु मध्य इत्यर्थः। प्रथमावतीर्णयौवना प्रथममवतीर्णयौवना यौवनमवतीर्णा प्राप्तेति यावत्। यथा। मम विश्वनाथस्य। तातपादानां पितृपादानां चन्द्रशेखराणामिति यावत्। 'मध्यस्य.. इत्यादौ ।।
'जघनं श्रोणिदेशः । मध्यस्योदरस्य । प्रथिमानं पृथोः स्थूलस्य भावस्तं तथोक्तम् । 'पृथ्वादिभ्य इमनि था । ५।१।१२२ इतीमनिच् । एति प्रतिपद्यते । उदरम् । च पुन: । वक्षोजयोः स्तनयोः । मन्दतां । कृशत्वम् । 'मढाल्पापटनिर्भाग्या मन्दाः स्यु'रित्यमरः । दूरं विप्रकष्टं यथा भवेत्तथा । याति । 'मन्दता' इति पाठे तु 'वक्षोजयोर्मन्दता, दरमुदरं (कर्म) यातीत्यन्वयः । नेत्रार्जवं नेत्रयोराजवं सरलता । रोमलतिका लक्षणया तत्कौटिल्यम् । धावति । अत्राहुष्टिप्पणीकाराः-'मध्यभागे या विशालताऽऽसीत् सा जघनेन लुण्ठिता, तेन तद्विशालं जातम्, एवं जघने यत् काश्य तन्मध्यभागेन लुण्ठितम् , तेन स कृशो जातः, एवमुदरस्थौल्यं निर्लुण्ठितं सत् कुचयोर्जातम् , कुचयोश्चोदरे, रोमलताकौटिल्यं नेत्रयोः सङ्गतम्, नेत्रयोः सारल्यं रोमलतायामिति तात्पर्य्यम्।' इति। इत्थम्-सुभ्रवः कान्तायाः। अडानि । नूतनमनोराज्याभिषिक्तं नूतनं यन्मनोराज्यं तत्राभिषिक्तमिति तत्तथोक्तम् । मन एव राज्यमि मनोराज्यम् । कन्दर्प कामदेवम् । परिवीक्ष्य । क्षणात् । परस्परम् । निलण्ठनम् । विदधते । इव । नूतने राज्ये लुण्ठनं प्रायिकमित्यङ्गान्यपि परस्परं लुण्ठन्तीति भावः । अत्र शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् २८॥॥'