________________
१३७
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। १०१ विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया । यथा--
'लज्जापजत्तपसाहणा. परभत्तिणिप्पिवासाई। अविणअदुम्मेधाइँ धण्णाण घरे कलत्ताई ॥२७॥' १०२ साऽपि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥ ८२ ॥
-
दयो गुणा नायिकानामपि वर्ण्यन्ते, किन्तु न नायकानामिव, तथाहि-दक्षता क्षिप्रकारित्वं, विदग्धत्वं वा, तत्राद्या विभ्रमोदाहरणा, अन्त्या पुनः प्रसिद्धव, उत्साहः 'शरीरं वा पातयेयं, देवदेवानुग्रहं वा सम्पादयेय' मित्यात्मा पार्वतीप्रभृत्तीनां विदितचरः, तेजोऽप्येवं सीताऽऽदेरग्निप्रवेशादिना प्रसिद्धात्मेति ।
एताः क्रमान्निरूपयितुमुपक्रमते-तत्र तासु स्वस्त्रीप्रभृतिषु मध्य इत्यर्थः । 'स्वीया तावलक्ष्यते इति शेषः । १०१ विनयेत्यादिना ।
१०१ विनयार्जवादियुक्ता विनयावादिना युक्ता। विनयो लज्जयाऽनुद्धतत्वम् , आर्जवमकौटिल्यम् । आदिपदेन सुशीलत्वादिग्रहणम् । गृहकर्मपरा गृहस्य श्वश्रूश्वशुरादेः कर्म परिचादि तत्र परा क्षिप्रकारितया चातुर्येण सर्वसम्मानकारितया वोद्यतेति तथोक्ता । स्वीया स्वस्येयमिति तथोक्ता । स्वस्य स्त्रीत्यर्थः । 'भवतीति शेषः । इदमुक्तम्-पतिव्रता स्वीया, तथा च-पतिव्रतात्वं स्वकीयायाः स्वरूपम् , तदभिव्यञ्जकं पुनर्लक्ष्म विनयादियुक्तत्वे सति गृहकर्मपरत्वम् । गृहपरत्वं नामाचातुर्य्यानुत्साहपरित्यागेन गृहवर्तिनां श्वश्रूश्वशुरादीनामनुरञ्जमपुरःसरमशेषाणामन्येषामपि कार्याणां झटिति निष्पादनकारित्वम् । एवं च-क्षिप्रकारित्वं चतुरत्वमुत्साहवत्त्वं चेत्येतेऽपि गुणा नायिकायाः । इति निष्कृष्टम् । इति ।
उदाहरति-यथा-'लज्जा.. ॥' इत्यादिना ।
'धण्णाण धन्यानां कृतपुण्यानामित्यर्थः । घरे गृहे । लज्जापज्जत्तपसाहणाइँ लज्जापाप्तप्रसाधनामि लज्जायाः पाप्तानि योग्यानि प्रसाधनान्यलङ्कारादिरचना येषां तानि। 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रर परभत्तिणिप्पिवासाइँ परभर्तृनिष्पिपासानि, परस्या अन्यस्या नायिकाया भर्ती कान्तस्तत्र निष्पिपासानि तृष्णारहितानि तत्सौभाग्यभोगायालुब्धानीति यावत् । निर्गता पिपासा (पातुमिच्छा) लक्षणया सौभाग्यामृतलाभेच्छा येषां तानि निष्पिपासानि । अविणअदुम्मेधाइँ अविनयदुर्मेधांस्यविनयस्य दुर्मेधांस्यनभिज्ञानीत्यर्थः । दुष्टा (नष्टा) मेधा बुद्धियेषां तानि दुम्मेधांसि । 'नित्यमसिच् प्रजामेधयोः । ५।४।१२२ इत्यसिन् । 'दुर्मेधानी'ति पाठे तुअविनयस्य दुर्मेधानि नितान्तं हिंसकानीति भावः । 'मेधृ सङ्गमे च' इत्यस्य चकारेण हिंसाऽर्थकताया अप्युपपत्तेः । कलताइँ कलत्राणि । 'सम्भवन्तीति शेषः । अत्र कस्यापि पतिव्रतां प्रशंसतोऽसावुक्तिः । आय्यांछन्दश्च । तल्लक्षणं चोक्तं प्राक् ॥'
यथा वा रसमजाम्-'गतागतकुतूहलं नयनयोरपाङ्गावधि, स्मितं कुलनतभ्रुवामधर एवं विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव, कोपक्रमः कदाचिदपि चेत्तदा मनसि केवलं मजति ॥' इति ।
एवं स्वकीयायाः स्वरूपं निर्दिश्य भेदात्मनाऽवस्थां निर्दिशति-१०२ साऽपीत्यादिना ।
१०२ सा स्वकीया । अपि । मुग्धा । मध्या । तथा-प्रगल्भा। इतीत्येवम् । त्रिभेदा । कथिता 'आचार्योरिति शेषः ॥ आ-छन्दः ॥ ८२॥
अर्थतासां स्वरूपं निर्देष्टुमुपक्रमते-तत्र तासु मध्ये-'मध्या लक्ष्यते' इति शेषः १०३ प्रथमेत्यादिना । १ 'लज्जापर्याप्तप्रसाधनानि, परभर्तृनिष्पिपासानि । अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि ॥'