________________
साहित्यदर्पणः।
[तृतीयः
एषामुदाहरणान्यूह्यानि। अथ नायिकाभेदानाह-- १०० ननु नायिका त्रिभेदा स्वाऽन्या, साधारणा, स्त्रीति ।
नायकसामान्यगुणै-र्भवति यथासम्भवैर्युक्ता ॥ ८१ ॥ नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति, सा च स्वस्त्री, अन्यस्त्री, साधारणस्त्री चेति त्रिविधा । तत्रद्रव्यादिसमर्पणम् । तथा- शत्रुमित्रयोः । शत्रौ मित्रे च । विषये सप्तमी। समताऽऽत्मसमानत्वम् । 'उदारचारतानां तु वसुधैव कुटुम्बकम् ।' 'आत्मवत् सर्वभूतेषु' इत्यायुक्तदिशाऽपकर्तुं सामर्थेऽपि शत्रूणामपकारात्पराङ्मुखत्वे सति यथासम्भवं तेषामुपकारप्रवणत्वम् , कृतज्ञत्वेऽपि मित्राणां 'नरः प्रत्युपकारार्थी विपत्तिमभिकाइक्षती' त्युक्तदिशा प्रत्युपकाराग्रहिलताशून्यत्वं चेति भावः । औदार्यमुदारता । 'समुदाहृतमिति पूर्वतोऽन्वेति । अत्र गीतिश्छन्दः, लक्षणं चोक्तं प्राक् ॥ ७९ ॥ ८० ॥
एषामुदाहरणानि प्रसिद्धान्येवेत्युपेक्षयाऽऽह-एषां निरुक्तलक्षणानां तेजोललितौदाव्णामित्यर्थः। उदाहरणानि । ऊह्यानि गवेषणीयानि । इति ।
अत्राहुर्विवृतिकाराः-“यथा (मम ) रामविलासे-'विस्फारस्फुरदोष्टपल्लवमतिस्विन्नातिकान्तं क्रुधा किञ्चिल्लोहितलोचनाम्बुजयुगेनाकुञ्चितभूलतम् । युक्तं तस्य दुरुक्तमुत्तरयितुं तेजोभरादुद्यतन्नेत्रान्तेन निवार्य लक्ष्मणममुं प्रोचे स्वयं राघवः ॥' विस्फारमत्यन्तं स्फुरदोष्ठं यस्य तं, तस्य भार्गवस्य, अमुं भार्गवम् ... वीक्ष्य तस्य रुचिरं कलेवरं सन्निशम्य मधुरं च भाषितम् । स्मारसारमपुलभ्य विभ्रमं दास्यमस्य कलयन्ति सुभ्रवः ॥' 'दत्ते सहासवचनं सप्रियवचनं च भूपाल: । रिपुरपि लभते मानं निरीतिभावं धरा तस्मात् ॥' इति"
अत्रायं पालोकः-शोभाऽऽदयोऽष्टौ सात्त्विका गुणाः, तत्र शोभा शूरताऽदिभेदात्सप्तविधा, अत्र शूरता शत्रूजेतुं साहसः, उत्साहः पुनः कार्यान्तरेऽपि मनोहर्षः, इत्येवानयोर्भेदः । विलासो धीरदृष्टयादिभेदात्रिविधः, माधुर्म्यगाम्भीर्यधीरत्वानामेकैकात्मकत्वमेव, कटूक्तिश्रवणादिना सम्पाद्यमानस्य सक्षोभस्यावरोधो माधुय्ये, हर्षशोकादिनाऽपि किं पुनः कटूक्तिश्रवणादिना यस्य चेतसि कोऽपि तत्पारतन्त्र्यव्यञ्जको विकार एव न सम्भवेदेतद्गाम्भीर्यम् , एष एवानयोर्भेदश्च, वाइमाधुर्य वेषमाधुर्य शृङ्गारचेष्टा चेति त्रिविधं ललितम्, प्रेमपुरःसरं दानं शत्रुमित्रयोः समत्वं चेति विभेदमुदारत्वं च । इति ।।
एवं नायकस्वरूपादि निरूप्य नायिकास्वरूपाद्यपि निरूपयितुं प्रतिजानीते-अथेत्यादिना। अथ नायकनिरूपणानन्तरम् । नायिकाभेदान् ‘खरूपकथनगर्भा'निति शेषः । आह-१०० नन्वित्यादिना ।
१०० स्वा स्वकीया । 'स्वः स्यात् पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने ।' इति मेदिनी। अन्याऽन्यस्येयमिति तथोक्ता, परकीयेति यावत् । साधारणा साधारणस्येयमुपभोगयोग्येति तथोक्ता। 'साधारणं तु सामान्य' मित्यमरः। स्त्री। इतीत्येवम् । त्रिभेदा त्रिस्वरूपा । यथासम्भवैस्सम्भवमनतिक्रम्य वर्तमानैः, प्रायः सम्भवद्भिरिति भावः । नायकसामान्यगुणैर्नायकानां धीरोदात्तादीनां सामान्यगुणाः साधारणगुणास्तैः । नायकमात्रस्य ये गुणास्तैरिति भावः । ते च ६८ त्यागीत्यादिनोक्ता एवेति बोध्यम् । युक्ता । नायिका । ननु । 'अथे ति पाठान्तरम् । भवति ॥ ८१॥
एतदेव विवृणोति-नायिकेत्यादिना ।
नायिका । पुनः। यथासम्भवैः। त्यागादिभिः । मायकसामान्यगुणैः । युक्ता । भवति । सा। निरुक्तखरूपा नायिका। च पुनः । स्वस्त्री स्वकीया स्त्रीत्यर्थः । अन्यख्यन्यस्य स्त्रीति तथोक्ता। साधारणस्त्री। च। इतीत्येवम् । त्रिविधा। 'मते'ति शेषः । अत्राहुर्विवृतिकाराः-'यथासम्भवैरिति । तेन दक्षतोत्साहतेजांसि नायिकानां न वर्णनीयानि । अत एव-दक्षताऽऽदयो नायकस्यैव सात्त्विका गुणा उक्ताः।' इति । अन्ये त्वेवम्-दक्षताss.