________________
परिच्छेद: ]
यथा
रुचिराख्यया व्याख्यया समेतः ।
९८ व्यवसायादचलनं धैर्य विघ्ने महत्यपि ॥ ७८ ॥
'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसङ्ख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ २६॥' ९९ अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ७९ ॥ वाग्वेषयेार्मधुरता, तद्वच्छृङ्गारचेष्टितं ललितम् । दानं प्रियभाषण- मौदार्यं शत्रुमित्रयोः समता ॥ ८० ॥
१३५
अथ धैर्य्यस्वरूपं लक्षयति - ९८ व्यवसायादित्यादिना ।
९८ महति प्रबले । अपि । विघ्ने चित्तस्वास्थ्यविघातहेताविति भावः । सतिसप्तमी । 'विघ्नोऽन्तराये घाते चे 'ति गोपालः । व्यवसायाद् व्यवसाय 'इदमेवमनुष्ठेय' मिति निश्चयस्तं कृत्वेत्यर्थः । ल्यपो लोपे पञ्चमी । 'व्यवसायस्तु यत्रे च जीविकायां च निश्चये ।' इति गोपालः । अचलनं चलनं चितक्षोभस्तदभाव इत्यर्थः । धैय्र्यं धीरो बुद्धिमान् धृतिमान् वा तस्य भाव इति तथोक्तम् । अत एव - 'नानुशोचन्ति पण्डिताः ॥, ' ' अङ्गीकृतं सुकृतिनः परिपालयन्ति || ' इत्यादि सङ्गच्छतेऽभिधानम् ॥ ७८ ॥
उदाहर्तुमाह-यथा 'धैय्यै सम्भवति तथोदाह्रियते ' इति शेषः । 'श्रुता' इत्यादिना ।
'अस्मिन् समाधेश्चालकतया साक्षात् क्रियमाण इत्यर्थः । क्षणे समयेऽकस्माद् वसन्ताविर्भावोपस्थिताविति यावत् । 'निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः । इत्यमरः । श्रुताप्सरोगीतिः श्रुताऽप्सरसामुर्वश्यादीनां देवाङ्गनानां गीतिर्गानं येन तथोक्तः । अपि । हरो महादेवः । प्रसङ्ख्यानपरः प्रसङ्ख्यानं तत्त्वविचारो ब्रह्माक्षात्कार इति यावत्, तत्र परः परायण इति तथोक्तः । बभूव । तदेव समर्थयते - हि यतः । आत्मेश्वराणामात्मनश्चित्तस्येश्वरा निग्रहसमर्थास्तेषाम् । जितेन्द्रियाणामिति भावः । ' आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्त्तनेऽपि च ॥' इति धरणिः । समाधिभेदप्रभवः समाधेश्चित्तवृत्तिनिरोधस्य भेदो विघातस्तस्य प्रभवः प्रधानभूताः । विघ्नाः । न । जातु कदाऽपि । 'कदाचिज्जात्वि' त्यमरः । भवन्ति सम्भवन्ति । अत्रेयं देवदेवं जेतुं प्रयतमानेऽपि वसन्तादौ तस्य समाधितादवस्थ्यं वर्णयतः कवेरुक्तिः, कुमारसम्भवस्थं च पद्यमिदम् । इन्द्रवज्रोपेन्द्रवज्रयोश्च सम्मेलनात्तयोरुपजातिश्छन्दः, लक्षणं चोक्तं प्राक् ॥ २६ ॥ '
अथ तेजो ललितौदार्याणां स्वरूपमेकदैव कारिकाद्वयेन व्याख्यातुमुपक्रमते - ९९अधि.. इत्यादिना ।
९९ परेण प्रवरेण, अथ च शत्रुणा । ' परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले ।' इति विश्वः । तथा च-बलीयस्त्वादिनोत्तमेन (अपि) शत्रुणेति निष्कृष्टोऽर्थः । प्रयुक्तस्य । अधिक्षेपापमानादेः । अधिक्षेपो भर्त्सनम्, अपमानस्तिरस्कारः, तावादी यस्य ( अपकारादेः ) तस्य तथोक्तस्य । प्राणात्यये प्राणानामत्ययो विनाशो लक्षणया तत्सदृशे भयावहेऽवसर इत्यर्थः । अपि । यत् । असहनं सहनाभावः, प्रतिकारमविधाय विराम इति यावत् । तत् । तेजः तत्पदवाच्योगुणः । समुदाहृतं कीर्त्तितम् । तथा - वाग्वेषयोर्वाक् ( भाषणं ) च वेष (आभूषणादिविहितशोभा ) श्चेति तयोस्तथोक्तयोः । 'वाग्वाचे भारत्यां वचने स्त्रियौ ।' इति व्याख्यासुधा । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ।' इत्यमरः । मधुरताऽऽह्लादकत्वमित्यर्थः । तद्वत्तथा । शृङ्गारचेष्टितं शृङ्गारस्य चेष्टितमुद्दीपन हेतुभूता चेष्टेति तथोक्तम् । ललितम् । 'समुदाहृत 'मिति पूर्वतोऽन्वेति । एवम् सप्रियभाषणं प्रियं मनोरमं प्रीतिपुरःस्कृतमिति यावद् यद्भाषणं, तेन सह । 'वोपसर्जनस्य ।' ६।३।८२ इति सहस्य सादेशः । दानं