________________
साहित्यदर्पणः।
[ तृतीयः'दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारके पि गिरिवहरुतां दधानो वीरो रसः किमयमित्युत दर्प एव ॥ २४ ॥'
९६ सझोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ७७ ॥ ऊह्यमुदाहरणम्
९७ भीशोकक्रोधहर्षायै-र्गाम्भीर्यं निर्विकारता । यथा-'आहूतस्याभिषेकाय, विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य वल्पोऽप्याकारविभ्रमः॥२५॥' इति ॥ 'तृणीकृतजगत्त्रयसत्त्वसारातृणीकृतो तृणवत्तुच्छीकृतौ जगत्रयस्य सत्त्वसारौ यया सा। सत्त्वं पौरुषम् , सारो बलम्। 'सत्त्वं बले पिशाचादौ बले द्रव्यस्वभावयोः। आत्मत्वव्यवसायासुवित्तेष्वस्त्री तु जन्तुषु ॥'इति मेदिनी। 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ।' इत्यमरः । दृष्टिः । 'लक्ष्यत इति शेषः । तथा-धीरोद्धता धीरा मन्थराऽसा उद्धतोद्भटेति तथोक्ता, विचित्रा (मनोरमा) इत्यर्थः । गतिर्गमनम् । धरित्री पृथिवीम् । नमयति । इवो पलक्ष्यत इति शेषः । इत्यतः । कौमारके कुमारावस्थायाम् । कुमारस्येदम् (वयः ) इति तत्र । अपि । गिरिवगिरिरिव । गुरुताम् । दधानः । अयं 'सामाङ्गणमलकुर्वन्नुपस्थितः कुश'इति शेषः। किं किं ननु । वीर उत्साहस्थायिभावकः । रसः। उताथवा। दोऽहङ्कारः । एव 'साक्षात्'इति शेषः । अयम्भावः-अत्रोत्साहदर्पयोरतिशय सूचयितुं नायकस्य कुशस्य वीरत्वेन दर्पत्वेनाध्यवस्योत्प्रेक्षणम् । अत एव हेतूत्प्रेक्षेति । पद्यं चैतदुत्तररामचरितस्थम् । वसन्ततिलकं च च्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ २४ ॥
एवं विलास निरूप्य माधुर्यं निरूपयति-९६ सङ्क्षोभेष्वित्यादिना।
९६ सङ्क्षोभेषु लक्षणया तत्कारणेष्वित्यर्थः । अत्र सतिसप्तमी। सङ्क्षोभ उद्वेगापरपर्यायश्चित्तवृत्तेर्विक्षेपः, तत्कारणानि दोषारोपोक्त्यादीनि। अपि । अनुढेगः सङ्क्षोभाभाव इत्यर्थः। माधुर्य्यम् । परिकीर्तित'माचाय'रिति शेषः ॥ ७ ॥
उदाहरणं प्रसिद्धमित्युपेक्षमाण आह-उदाहरणं 'माधुर्य्यस्येति शेषः। ऊह्यं गवेषणीयमित्यर्थः । अत एवाहुस्तर्कवागीशा:-'यथा मम रामविलासे-"तन्निपीय कटुकर्णपदव्या खेदमापन मनागपि रामः । शूलपाणिरिव घोरमुदग्रं कालकूटपटलं किल पूर्वम् ।" इति ।'
अथ गाम्भीर्यमाह-९७ भीशोक.. इत्यादिना ।
९७ भीशोकक्रोधहर्षाद्यैः। भीर्भयम् , शोक इष्टमरणादिना चेतसो व्याकुलता, क्रोधोऽपकारादिना तदनिष्टाय चित्तक्षोभः, हर्ष इष्टाभ्युदयादिना चित्तविकारः । आद्यपदं च मोहादिवाचकम् । 'सक्षोभेष्वपीति पूर्वतोऽध्याहार्य्यम् । * 'प्रकृत्यादिभ्य उपसङ्ख्यान'मिति तृतीया । तथा च भयाद्यभिन्नसक्षोभकारणेषु सत्स्वपीत्यर्थः । निर्विकारता निर्गतो विकारश्चित्तवृत्तिविपरिणामो यस्य तस्य भावस्तत्ता। गाम्भीर्य नदनदीभिः क्षोभेऽपि सिन्धोरिव तादवस्थ्यमिति भावः ।
उदाहरति-यथा 'गाम्भीर्य'मिति शेषः । 'आहूतस्येत्यादिना।
'अभिषेकायाभिषेको युवराजपदे स्थापयितुमाभ्युदयिकः कर्मविशेषः, तस्मै तं सम्पादयितुमित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।' २।३।१४ इति चतुर्थी । आहूतस्य । वनाय वनं गन्तुम् । च। विसृष्टस्य कृताभ्यनुज्ञस्य । तस्य श्रीरामचन्द्रस्येत्यर्थः । स्वल्पः किञ्चिन्मात्रम् । अपि । आकारविभ्रम आकारस्य मुखनेत्रादेविभ्रमो वैपरीत्यं विकार इति यावत्, इति तथोक्तः । न नैव । मया। लक्षितो बुद्धः । अयम्भावः-युवराजपदप्राप्ति श्रुतवतो रामस्य हर्षेण मुखनेत्रादिविकाशो मनाङ्न जातः, न च पुनर्वननिवासाज्ञां श्रुत्वा तस्यैव कोऽपि मनागुद्वेगेन मुखनेत्रादिग्लानिरभूत् । इति । इयं कस्यापि श्रीराम तदा साक्षात्कुर्वतः कमपि प्रत्याश्चर्योक्तिः ॥ २५॥'