________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। तत्रानुरागिता यथा
"अहमेव मतो महीपतेरिति सर्वः प्रकृतिवचिन्तयत् । उदधेरिव निम्रगाशते-प्वभवन्नास्य विमानना क्वचित् ॥ २३ ॥” इति । एवमन्यदपि । अथ विलासः--
९५ धीरा दृष्टिगतिश्चित्रा विलासे सस्मितं वचः । यथामहनीयोऽतिशयितो वाऽसा उत्साहः । अनुरागिताऽनुरागः । नीचे नीचो जात्या कर्मणा गुणैर्वा स्वापेक्षया न्यूनस्त
ति, तद्विषय इति भावः । घृणा जुगुप्सा दया वा । 'जुगुप्साकरुणे घृणे' इत्यमरः। अधिके कर्मणा गुणैर्वोत्कृष्ट इत्यर्थः । स्पर्धा तदपेक्षयाऽऽत्मनो महिममहनीयतासम्पादनेन तत्पराभवेच्छा। ताम् । शोभेति। अत्रेतिना कर्मणोऽभिहितत्वाच्छोभेति प्रथमा । यदुक्तं वामनैः - 'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ।' इति । विदुः ॥ ७६ ॥
दिङ्मात्रमुदाहतूंमुपक्रमते-तत्रेत्यादिना ।
तत्र तासु शूरताऽऽदिष्वित्यर्थः । अनुरागिताऽनुरागोऽस्यास्तीति तस्य भावस्तत्ता। प्रेमेति भावः । यथा"अहमेव.." इत्यादौ।
"प्रकृतिषु प्रजासु मध्ये । प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः। योनौ लिङ्गे पौरवर्गे' इति मेदिनी । सर्वः समस्तो ब्राह्मणादिसमाजः (कर्तपदम्)। महीपते राज्ञोऽजस्थेति यावत् । अहमेव 'व्यवसायी'ति शेषः । एव न त्वन्यः । मतोऽभिमतो'स्मी'ति शेषः । इतीत्येवम् । अचिन्तयच्चिन्तयामास । निम्नगाशतेषु निम्नगानां नदीनां शतानि तेषु । अत्रापि निर्धारणार्था सप्तमी। उदधेस्समुद्रस्य । इव । अस्याजस्य महीपतेः । क्वचित कस्मिन्नपि जन इत्यर्थः । 'प्रकृति' विति पूर्वतोऽन्वेति । विमाननाऽनादरोनुरागिताऽभाव इति यावत् । न नैव । अभवत् समुत्पन्ना। अयम्भावः-यथा नानादेशेभ्य उपस्थितासूच्चावचासु नदीषु मध्ये नदीपतेरभिन्नरूपतयाऽनुरागाभिनता लक्ष्यते तथाऽस्यापि महीपतेः प्रजासु मध्ये सर्व स्मिन्नपि जने विशदेवानुरागिताऽवस्थिता। इति । इदं रघुवंशस्य पद्यम्, वैतालीयं च वृत्तम्, तल्लक्षणं च यथोक्तम्, 'वैतालीयं द्विस्वराअयुपादे, युग्वसवोऽन्ते गाः।' इति ।"
__ एतनिदर्शनमित्याह-एवं यथानुरागितोदाहरणं दर्शितं तथा । अन्यच्छूरताऽऽद्युदाहरणम् । अपि । 'द्रष्टव्य' मिति शेषः ।
अत्रेदं बोद्धव्यम्-शूरताऽऽदिबीजभूता शोभेति निवेदितं प्राक् । तत्र-शूरता महाभारतेऽर्जुनादेः प्रसिद्धैव, दक्षताऽप्येवं गान्धर्वप्रस्वापाद्यस्त्रेण वीराणां मोहने जागरूका । अथ सत्यं हरिश्चन्द्रयुधिष्ठिरायुक्तिमनुगतमित्यपि न तिरोहितम् । उत्साहो वीरस्थायिभाव इत्यसौ पुनस्तस्मिन्नदाहरिष्यमाणे स्वत उदाहरिष्यते । अत एवानुरागिता ग्रन्थकृद्भिरुदाहृता । नीचे घृणा यथा बन्धन प्राप्तेऽपि भीमादौ, जेतुमशक्येऽप्यर्जुनादौ यथा वा स्पर्धा कर्णस्य। इति ।
एवं शोभा निर्वर्ण्य विलासं निर्वर्णयितुमुपक्रमते-अथेत्यादिना ।
अथ शोभावर्णनानन्तरम् । विलासः । 'स्वरूपतो वर्ण्यते' इति शेषः । तथा च विलासस्वरूपं-९५ धीरेत्यादिना।
९५ विलासे 'विलास' इत्यभिधेये गुणे समुद्भूते सतीत्यर्थः । धीरा धैर्यवती व्याकुलताशून्येति यावत् । दृष्टिर्विलोकनम् । चित्रा विचित्रा मनोहारिणीति यावत् । गतिर्गमनम् । तथा-सस्मितं स्मितं मन्दहासस्तेन सह वर्तत इति तथोक्तम् । वचो भाषणम् ।
उदाहर्तुमुपक्रमते-यथा-'दृष्टिः-'इत्यत्र ।