________________
[ तृतीयः
साहित्यदर्पणः। ९२ मितार्थभाषी कार्यस्य सिद्धिकारी मितार्थकः ।
यावद्भाषितसन्देश-हारी सन्देशहारकः ॥ ७४ ॥ अथ सात्त्विकनायकगुणाः-- ९३ शोभा विलासो माधुर्यं गाम्भीर्य धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ ७५ ॥
९४ शूरता दक्षता सत्यं महोत्साहोऽनुरागिता।
नांचे घृणाऽधिके स्पर्धा यतः, शोभेति तां विदुः ॥७६ ॥ अथ मितार्थसन्देशहारकयोरेकयैव कारिकया स्वरूपं निर्दिशति-९२ मितार्थभाषीत्यादिना ।
९२ मितार्थभाषी मितः परिमितः स्वल्प इति यावत्, यद्वा-मितः प्रमितः सुयुक्तिक इति यावत्, अर्थ: प्रयोजनं यत्र तनूमितार्थं यथा भवेत्तथा भाषितुं शीलमस्यास्तीति तथोक्तः । 'स' निति शेषः । कार्यस्य । सिद्धिकारी सम्पन्नताविधायी। मितार्थको मितार्थः 'स्या'दिति शेषः । अत्र स्वार्थे कन् । तथा-यावद्भाषितसन्देशहारी यावद् यत् परिमितं भाषितमुक्तमिति, तेन कृतः सन्देश इति तं हर्तुं शीलमस्यास्तीति तथोक्तः ।
'इति पाठे तु-'हरतीति तथोक्तः । 'कर्मण्यण ।। ३।२।१ इत्यण । सन्देशहारकः । 'ज्ञेय'इति शेषः । अत्र श्लोकदछन्दः । लक्षणं चोक्तं प्राक् । एवं पुरस्तात् ॥ ७४ ॥ ____ अत्रेदमवसेयम्-त्रयाणां निसृष्टार्थो यथा-हनुमान् , मितार्थो यथा-युधिष्ठिरप्रेषितो देवमुनिः, सन्देशहारास्तुप्रायः सर्व एवान्ये । इति ।
एवं दूतस्वरूपं निर्दिश्य नायकगुणानिर्देष्टुमुपक्रमते-अथेत्यादिना ।
अथ दूतखरूपनिर्देशानन्तरम् । सात्त्विकनायकगुणाः सात्त्विकाः सत्त्वगुणप्रधाना ये नायकास्तेषां गुणा धर्मा इति तथोक्ताः । 'उच्यन्त' इति शेषः । तथा च सात्त्विका ये नायकास्तेषां गुणा अपि सात्त्विका एवेत्यमी एव ९३ शोभा-इत्यादिनोच्यन्त इति निष्कृष्टम् ।
__९३ शोभा शोभयतीति तथोक्ता । पचाद्यच् । विलासो विलसनमिति, 'भावे ।' ३।३।१८ इति घञ् । माधुर्य मधुरस्य भाव इति तथोक्तम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च ।' ५।१।१२४ इति प्यञ् । गाम्भीर्य गम्भीरस्य दुर्बोध्यविचारस्य भाव इति तथोक्तम् । धैर्यतेजसी धैर्य च तेजश्चेति तथोक्ते। धीरस्य भावो धैय॑म् । धीरो बुद्धिमत्तया धृतरत्यागी। 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे।' इति व्याख्यासुधा । तेजः प्रागल्भ्यम् । 'तेज: प्रभावे दीप्तौ च बले शुक्रेऽपी'त्यमरः । तथा-ललितौदार्य ललितं चौदाय॑ चेत्यनयोः समाहार इति तथोक्तम् । ललितमीप्सनीया चेष्टा, 'लल ईप्सायाम्', 'नपुंसके भावे क्तः ।' ३।३।११४ इति क्तः । उदारस्य यथेष्ट दातुर्भाव औदार्यम् । ब्राह्मणादित्वात्म्यञ् । इतीत्येवम् । अष्टौ । सत्त्वजाः सत्त्वात्सत्त्वगुणाजाता इत्यर्थः । 'पञ्चम्याम.जातौ।' ३।३१९८ इति डः । पौरुषाः पुरुषे नायके भवा इति तथोक्ताः । तत्र भवः' ४।३।५३ इत्यण् । गुणाः। 'ज्ञेया' इति शेषः ॥ ७५॥
अथैनान स्वरूपतो व्याचष्टमुपक्रमते-तत्र तेषु सात्त्विकेषु पौरुषेषु गुणेषु मध्य इत्यर्थः ।
९४ यतो यस्माद् यद्वत्तया हेतुनेति यावत् । शूरता शूरस्य भावस्तत्ता । 'शूरो वीरश्च विक्रान्तः।' इत्यमरः । 'तस्य भावस्त्वतलौ ।' ६११११९ इति तलू । दक्षता दक्षस्य चतुरस्य भावस्तत्ता। 'दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ। दमे दक्षा तु मेदिन्या'मिति मेदिनी। सत्यं यथाऽर्थभाषणम् । 'व्रतादस्खलन' मित्यन्ये । महोत्साहो महान