________________
पारच्छेदः ] ___ रुचिराख्यया व्याख्यया समेतः।
१३१ ९० निसृष्टार्थों मितार्थश्च तथा सन्देशहारकः ।
- कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ॥७२॥ तत्र कार्यप्रेष्यो दूत इति लक्षणम् । तत्र
९१ उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
___ सुश्लिष्टं कुरुते कार्य निसृष्टार्थस्तु स स्मृतः॥ ७३ ॥ उभयोरिति येन प्रेषितो यदन्तिके च प्रषितः ।
९० कार्यप्रेष्यः कार्य्यस्य प्रेष्यः प्रेषणीयः । दूतः स च-निसृष्टार्थो निसृष्टो निहितोऽर्थः प्रयोजनं कार्यसिद्धिभार इति यावद् यत्र सः । च तथा । मितार्थों मितः परिमितोऽर्थो यस्मात्स तथोक्तः । तथासन्देशहारकः सन्देशं हरति गृह्णाति गृहीत्वा व्याहरतीति यावत् स तथोक्तः । इत्येवम्-विधा त्रिप्रकारः । 'भवतीति शेषः । अयम्भावःयस्मिन् सर्वोपि कार्यभारः स प्रथमः, यस्मात् कस्मैचिदेव काव्य प्रयोजनं स द्वितीयः, यस्तु यथोक्तानुवादी स तृतीय इत्येवं कार्ये प्रेष्यो दूतस्त्रिविध इति । न केवलं दूत एवंविध इत्याह-दूत्यः। अपि । च । तथाविधा यद्विधो दूतस्त्रिधा तद्विधा दूत्योऽपि त्रिधा ज्ञेया इत्यर्थः ।
सम्पत्तये केनचित् कयाऽपि वा कश्चित् काचिद्वा प्रेष्यतेऽसौ दूतो दूती वेति व्यपदिश्यते । तत्र-'आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् । असाध्यमप्ययत्नेन कावें संसाधयेन्नरः ॥' इत्युक्तदिशाऽऽत्मन्याहितगुणत्वादात्मवान् , सहायविमर्शित्वान्मित्रवान् , विश्वसनीयत्वाद् युक्तः, इङ्गिताकारज्ञतया भावज्ञः, देशकालानुरूपधाष्टर्यप्रतारणादिकारितया देशकालवित् , अत एव-विनाऽऽयासं य: कार्य सम्पादयेत्स दूत इत्यर्थः । एवं दूती स्वयमाद्यपाधिपरतन्त्रतयाऽनेकविधाऽपि निसृष्टा, मितार्था. सन्देशहारिणी चेति त्रिविधा, असौ चात्मवती मित्रवती युक्ता (समवहिता ) भावज्ञा, देशकालविच । तथोक्तम्-'स्वयंदूती, मूढदूती, भाऱ्यांदूती, मूकदूती, वातदूती चेत्येवमनेकविधा अपि दृत्यो निसृष्टार्थादिभिदा त्रिविधा एव।' इति । अत एव कविराजैरपि 'दूत्य' इति बहुत्वेन निर्दिष्टम् । तत्र-स्वरूपं निगूहमाना स्वयं परस्यां दूतीव स्वस्यामेवानुरागाधानाय नायकं याऽनुकूलयेत्सा स्वयंदूती, मूढेव स्थित्वा गत्वा चेष्टित्वा वा या कार्य निष्पादयति सा मूढदूती, नायकसविधे नायकभार्थ्यामेव प्रेष्य केनापि व्याजेन स्वसङ्केतादिं सूचयेत सा भाऱ्यांदूती, मकेव नायकस्य नायिकाया वा चेष्टितमः मूकदूती, किमपि चेष्टितं लवतोऽप्युपलभ्य सर्वं तदर्थ करामलकमिव या कुरुते सा वातदूती च; इति दिक् । अत्र श्लोकश्छन्दः ॥ तल्लक्षणं चोक्तं प्राक् ॥७२॥
अत्र त्रिविधत्वप्रसिद्धये 'कार्य्यप्रेष्य' इति पदार्थ सङ्गमयति-कार्यप्रेष्यः । दृतः। 'भवती'ति शेषः । इति । लक्षणम् । अयम्भावः-कार्यप्रेष्यत्वं नाम दूतत्वम्, तथा सति तदवच्छिन्नस्य निसृष्टार्थत्वादिना त्रिविधत्वमभिधीयमानं सङ्गच्छते । इति ।
अथ निसृष्टादिपदार्थ समवगमयितुमाह-तत्र तेषु निसृष्टार्थादिषु मध्य इत्यर्थः ।
९५ निसृष्टार्थी निसृष्टः समर्पितोऽर्थः कार्यभारो यत्र सः। तु पुनः । सः। स्मृतश्चिन्तितोऽभिमतः । यः-उभयोयन प्रष्यते यदन्तिकं च प्रयाति तयोयोरित्यर्थः । भावमभिप्रायम् । 'भावः सत्तास्वभावाभिप्रायचेष्टाऽऽत्मजन्मसु' इत्यमरः । उन्नीय 'आत्मनी'ति शेषः । तथा च-विचार्येति निष्कृष्टोऽर्थः । स्वयं येन प्रेषितस्तमपृष्ट्वैवात्मनेति भावः । च पुनः । उत्तरं प्रतिवादवाक्यमिति भावः । वदति कथयति । कार्य्य यदि यः स्वयं तस्य कत्तव्यम् । सुश्लिष्टं सुयुक्तं यथा भवेत्तथा । कुरुते सम्पादयति । अत्र श्लोकश्छन्दः । लक्षणं चोक्तं प्राक् ॥ ७३ ॥
'उभयो' रिति पदार्थ विवृणोति-उभयोः । इत्यस्येति शेषः । येन स्वामिनेति शेषः । प्रेषितः प्रचोद्य प्रापितः । यदन्तिके यत्समीपे । च । प्रेषितः । 'तयोर्द्वयोरित्यर्थ' इति शेषः ।