________________
१२८ साहित्यदर्पणः।
[तृतीयःसहायकथनप्रकरणे । 'नायकस्यार्थचिन्तने मन्त्री सहाय' इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । यदप्युक्तम्-'मन्त्रिणा ललितः, शेषा मन्त्रिप्वायत्तसिद्धयः।' इति, तदपि स्वलक्षणकथने नैव लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः, किन्तु स्वयं सम्पादकः, तस्यार्थचिन्तनाद्यभावात् ।
अथान्तःपुरसहायाः।
८५ तद्वदवरोधे । वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥६॥
आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातादयो यथा रत्नावल्याम्यलक्षणप्रकरणे । लक्षयितव्यम्। न । तु। सहायकथनप्रकरणे । 'लक्षयितव्य'मिति पूर्वतोऽन्वेति । इदमभिहितम्-'कोऽत्र तत्पदवाच्यः? कोवाऽत्र स्वपदवाच्यः? यदि नाम नायक इति तत्कथं तयोः (तत्पदस्वपदवाच्ययोः) अन्वयः? यदि तु 'तस्यार्थचिन्तायां मन्त्री सखा, खं वा खस्यार्थचिन्तायां सखा स्यात्, खस्यार्थचिन्तायां मन्त्री तस्य च स्वं सखा स्यान्मन्त्री स्वं चेत्युभयं वाऽर्थचिन्तायां सखा' इत्यभिप्रायेण तथाऽभिधीयते तर्हि स्वकर्तृके चिन्तापक्षे तत्पदवाच्यस्य वैयर्थ्यं स्वस्य सहकारित्वात्मकसहायत्वानुपपत्तिश्च । उभयकर्तृके पुनरेवात्र राज्ञो मन्त्रित्वापत्तिः, मन्त्रिणश्च राजत्वापत्तिारत्येवं सहायकविवेकानुपपत्तिः, परत्र च तत्पदार्थस्य सङ्गतिनिरासः, उभयत्र च कारणान्तरप्रसङ्गः । इति । 'नायकस्य । अर्थचिन्तनेऽर्थचिन्तनविषय इति भावः । मन्त्री। सहायः। 'भवती'ति शेषः । इतीत्येवम् । उक्ते 'सती'ति शेषः । अपि । नायकस्य नायकपदार्थस्य । अर्थतः प्रसङ्गात् । एव । सिद्धत्वात्तदनुल्लेखेऽपि तद्वोधात् । अत्रापि स्वारस्येन-खं वोभयं वाऽपी'त्येषां वैयर्थ्यापत्तिः, सखिशब्दस्य च सहायापरपया॑यत्वानुपपत्तेस्तथाऽर्थालाभः स्वत एवेति । यत् । अपि । 'मन्त्रिणा । 'आयत्तसिद्धिरिति शेषः । ललितो धीरललितः । शेषा।धीरोदात्तप्रभृतयः । 'पुन' रिति शेषः । मन्त्रिषु । आयत्तसिहयः । 'अनियमेने ति धनिकः । 'स्युरिति शेषः । इति उक्तम् । तत् । अपि। स्वलक्षणकथनेन स्वकर्तृकनायकलक्षणाभिधानेनेति भावः । एव । लक्षितस्य । धीरललितस्य निश्चिन्तत्वादिगुणशालिनः । मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेः। गतार्थ निरर्थकम् । तस्य धीरललितस्य । च। अर्थचिन्तने । मन्त्री। सहायः । न नैव भवति, किन्तु । स्वयम् एव । सम्पादकोऽर्थचिन्तनाद्यभावे प्रधानकारणम् । हेतुमाह-तस्य धीरललितस्य । अर्थचिन्तनाद्यभावात् । इति । इदमभिहितम्-खतश्चिन्ताविरहितस्य धीरललित स्यार्थचिन्ताऽसद्भाव एवेति तस्यार्थचिन्तायां मन्त्री सहाय इति न वक्तं सांप्रतम्। अन्येषामप्येवं नायकानामन्यान्यखभावानामर्थचिन्ताचचैव न सम्भवतीति तथाऽभिधानं प्रामादिकम्। इति ।
अथान्तःपुरसहायकथनं प्रतिजानीते-अथेत्यादिना । अथ राज्ञोर्थचिन्तने सहायाभिधानानन्तरम् । अन्तःपुरसहायान् । आह-८५ तद्धदित्यादिना।
८५ तद्वद् 'यद्वदाज्ञोऽर्थचिन्तने मन्त्री सहाय'इति शेषः । अवरोधेऽन्तःपुरे । 'अवरोधस्तिरोधाने राजदारेष तगृहे ।' इति विश्वः। वामनषण्ढकिरातम्लेच्छाभीराः वामना अनल्पवयस्त्वेऽपि भदीर्घाङ्गाः, षण्ढा नपुंसकविशेषाः, किराता अल्पवयस्त्वे सति विकृताकारा ह्रस्वाङ्गाः, म्लेच्छा इङ्गितमात्रेण बोधनसमर्था अव्यक्तवाचः, आभीरा भयानकस्वभावतया प्रियतामाधातुमसमर्थाः । षण्ढः स्यात् पुंसि गोपतो। आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि ॥' इति मेदिनी। 'किरातो म्लेच्छभेदे स्याद् भूनिम्बेऽल्पतनावपि ।' इति च मेदिनी । म्लेच्छन्त्यव्यक्तं ब्रुवत इति म्लेच्छाः । 'आभीरो बल्लवे भीमे'इति गोपालः । इदं च बोध्यम्-'आभीरा द्वारमात्रस्था भवन्तीति । तथा-शकारकुळजाद्याः । 'राज्ञः सहाया भवतीति शेषः । अत्रोपगीतिश्छन्दः, लक्षणं चोक्तं प्राक ॥६॥
आद्यपदार्थ द्योतयति-आद्यशब्दा'दुपात्तात्' इति शेषः । मूकादयो मूककुब्जादयः । 'माया' इति शेषः । एषां दिनिर्देशमुदाहर्तुमुपक्रमते-तत्रेत्यादिना।
तत्रावरोधसहायेष्वित्यर्थः । षण्ढवामनकिरातादयः। आदिपदेन कुब्जकञ्चुकिविदूषकग्रहणम् । क्वचित्'षण्ढबामनकिरातकुरुजादय' इति पाठः । तत्रादिपदेन न कुब्जग्रहणम् । रत्नावल्यां तदाख्यायां नाटिकायामित्यर्थः । 'वानररूपेणान्तःपुरान्तःप्रविष्टे विदूषके' इति शेषः । यथा-'नष्ट..' इत्यत्र ।