________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । 'नष्टं वर्षवरैर्मनुष्यगणनाऽभावादपास्य त्रपामन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिर्निजस्य सदृशं नानः किरातैः कृतं : कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ २२॥
८५ मदमूर्खताऽभिमानी, दुष्कुल तैश्वर्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः॥ ६९॥ शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं ज्ञातव्याः। अथ दण्डसहायाः
८६ दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
'मनुष्यगणनाभावान्मनुष्यवद्गणनं तदभावाद्धेतोरित्यर्थः । त्रपां लज्जाम् । अपास्य त्यक्त्वा। वर्षवरः 'ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या, न दुष्टाः कार्येषु, ते वै वर्षवराः स्मृताः ॥' इति व्याख्यासुधा । नष्ट नष्टमिवेत्यर्थः । णश् अदर्शने । तो भावे । अयम् । वामनः। कचुकिकचुकस्य कञ्चुकिनः कुलीनस्य वृद्धस्यात एव सम्भोगविमुखस्य विकलप्रायस्य कञ्चुको वस्त्रविशेषस्तस्येति तथोक्तस्य । अन्तमध्ये । त्रासादुद्वेगात् । विशति प्रविशति । पर्यन्ताश्रयिभिः पय॑न्तमाश्रयन्तीत्येवंशीलैरित्यर्थः किरं स्वस्वसञ्चारणावधित्वेन कल्पितं प्रान्तदेशमतन्तीति तैस्तथोक्तैः । निजस्य स्वसम्बन्धिनः । नामः । सदृशमनरूपं पर्य्यन्ताश्रयित्वरूपमित्यर्थः। कृतमनुष्ठितम् । आत्मेक्षणाशङ्किन आत्मन ईक्षणम् इति तदाशङ्कन्ते इत्येवंशीलाः । अस्मानयं द्रक्ष्यतीत्येवं विभ्यन्तः । कुब्जाः । नीचतयाऽर्द्धभुमकायतयेति भावः । एव। शनकैः। यान्ति । अत्र शार्दूलविक्रीडितं छन्दः । तल्लक्षणं चोक्तं प्राक् ।' इति ॥ २२ ॥' ।
अत्रेदमवसेयम-अन्तःपुरे क्लीबाः स्थविरा बाला अप्राप्तयौवनाः कुब्जा वामना मूका बधिरा म्लेच्छाः शकारायाः परीक्षिता एव सञ्चरन्ति, न तत्र म्लेच्छाः किराता वा यथाश्रूयमाणार्थाः, किन्तु म्लेच्छा व्यक्तं वक्तमसमर्थाः, किराताः पुनरल्पवयसः । आभीराणां कञ्चुकिनां च द्वार एवावस्थानम् । अत एव-एषां पलायनं न कीर्तितम् । इति ।
अन्येषां प्रसिद्धतया स्वरूपनिरूपणमुपेक्ष्याप्रसिद्धं शकारं निरूपयति-८६ मद..इत्यादिना ।।
८६ मदमूर्खताऽभिमानी मदश्च मूर्खता चाभिमानश्चेति तेऽस्य सन्तीति स तथोक्तः । दुष्कुलतैश्वर्यसंयुक्तो दुष्टं कुलं यस्य तस्य भावस्तत्ता तस्या ऐश्वर्य तेन संयुक्तस्तथोक्तः । सः। अयम् । अनुढाभ्रातानिढाया भ्राता। राज्ञः। श्यालः। शकारः । इतीत्येवम् । उक्तः । अत्रोपगीतिश्छन्दः, तल्लक्षणं चोक्तं प्राक ॥ ६९ ॥
नन्वेवम्भूतः कुत्र वर्ण्यत इत्याह-शकारस्तत्सझो राज्ञोऽधमः श्यालः । मृच्छकटिकादिषु मृच्छकटिकाख्य. प्रकरणादिषु । प्रसिद्धः स्फुटं वर्ण्यमान उपलब्ध इति भावः ।
कियतोऽन्तःपुरसहायानिर्दिश्यान्यनिर्देशमुपेक्षमाण आह-अन्येऽनुदाहृता म्लेच्छादय इत्यर्थः । अपि । यथा. दर्शनं दर्शनं तत्तत्स्वरूपप्रसिद्धिस्तदनतिक्रम्य । ज्ञातव्याः । 'स्वय' मिति शेषः ।
एवं शुद्धान्तसहायानभिधाय दण्डदाने सहायानभिधातुमुपक्रमते-अथेत्यादिना ।
अथान्तःपुरसहायनिरूपणानन्तरम् । दण्डसहाया दण्डे लक्षणया दण्डप्रयोगे सहाया इति तथोक्ताः । 'सप्तमी शौण्डैः ।' २।१।४० इति सप्तम्या समासः उच्यन्ते-८७ दण्ड इत्यादिनेति शेषः ।
८६ दण्डे ‘राज्ञ' इति शेषः । तथा च-राजकर्तृके दण्डप्रयोग इति निष्कृष्टम् । सुहतकुमाराटविकाः सुहृदश्च कुमाराश्चाटविकाश्चेति ते तथोक्ताः । सुष्ठु (शुद्धं ) हृदयं येषां ते सुहृदः । 'सुहृदु«दौ मित्रामित्रयोः ।' ५।४।१५० इति साधुः । अटव्यां वने भवा आटविकाः । 'बहुचोऽन्तोदात्ताहञ् ।' ४।३।६७ इति ठञ । कमारा युवराजाः । 'युवराजस्तु कुमार' इत्यमरः । च तथा । सामन्तसैनिकाद्याः सामन्ताः स्वाधिकारान्तर्वार्तनोऽधिपाः.