________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । चेटः प्रसिद्ध एव । ८३ कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः॥ ६७॥ स्वकर्म हास्यादि । अर्थचिन्तने सहायमाह
८४ मन्त्री स्यादर्थानां चिन्तायांअर्थास्वन्त्रावापादयः। यत्त्वत्र सहायकथनप्रस्तावे-'मन्त्री स्वं वोभयं वाऽपि सखा तस्यार्थचिन्तने ।' इति केन चिल्लक्षणं कृतम्, तद्राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम् , न तु
विदषयति
अथ क्रमप्राप्तं चेटस्वरूपनिरूपणं 'बालखाभाव्यचेष्टामिर्योषितां प्रीतिभाजनम् । तत्तदास्वादविमुखश्चेटः स्याच्चञ्चल: शिशुः ॥' इत्यादिना 'सन्धानचतुरश्चेटः' इत्यादिना वा प्रसिद्धतया गतार्थ मन्वान आह-चेटश्चेटयते परेण प्रेष्यतेऽसावित्ति तथोक्तः । दासविशेषः । प्रसिद्धः। एव न पुनस्तन्निरूपणमत्यन्तोपकरमिति भावः । इति ।
अथ विदूषकस्वरूपं लक्षयति-८३ कुसुमवसन्ताद्यभिध इत्यादिना ।
८३ कर्मवपुर्वेषभाषायैः कर्म च वपुश्च वेषश्च भाषा चेति, ता आया. येषां (चेष्टितादीनाम् ) तैस्तथोक्तैः । कर्मणा वपुषा वेषेण भाषणाऽऽदिना चेति भावः । हास्यकरो हास्यस्य (परेषां दोषानारोप्य) उत्पादकः । कलहरतिः कलहे परस्परं द्वेषोत्पादने रतिः कौतूहलं यस्य सः । स्वकर्मज्ञः स्वस्य कर्म भोजनादि हास्योत्पादनं कलहकौतूहलोस्प्रेक्षणं वेति तज्जानातीति तथोक्तः । कुसुमवसन्ताद्यभिधः कुसुमवसन्ताद्यन्यतमनामा । विदूष दृष्टं श्रुतं वा निन्दनीयत्वेन प्रस्तौतीति तथोक्तः, अत एवान्वर्थसज्ञः । स्यात् । अत्रोपगीतिश्छन्दः । लक्षणं चोक्तं प्राक् ॥६॥
कारिकां सुगमयितुं स्वकर्मेति पदं व्याचष्टे-स्वकर्म 'इत्यस्य'ति शेषः । हास्यादि । 'भोजनादी'ति परत्र पाठः। 'इत्यर्थ' इति शेषः ।
मन्त्रिस्वरूपं लक्षयितुमुपक्रमते-अर्थचिन्तने इत्यादिना ।
अर्थचिन्तनेऽर्थानां स्वमनोरथानुकूलकाऱ्यांनुष्ठानादीनां चिन्तनमिति कर्तव्यताविचारस्तति तथोक्त। अत्र विषये निमित्ते वा सप्तमी । सहायम् । आह-८४ मन्त्रीत्यादिनेति शेषः ।
८४ अर्थानां तन्त्रावापादीनाम् । चिन्तायां विचारविषये विचारनिमित्तं वेति भावः । मन्त्री 'सहाय' इति शेषः । स्यात् । 'नायकस्ये'ति शेषः । यो यादृशो नायकस्तस्य तादृश एव स्वभावादिनाऽनुरूपो मन्त्रीति च बोध्यम् ।
अर्थपदार्थ दर्शयति-तन्त्रेत्यादिना ।
अर्थाः। तन्नावापादयस्तन्त्रणं स्वाधीनतया स्वमनोरथानुकूलतया विधीयमानं कर्म तन्त्रं, तस्यावापो बीजारोपः, असावादिर्येषां ते तथोकाः । आवपनं समन्ताद्रोपणमावापः । 'हलच ।' ३।३।१२१ इति घञ्। आदिशब्देन परोद्योगप्रयोजनादीनां ग्रहणम् ।
दशरूपे धनञ्जयेनोक्तं मन्त्रिस्वरूपमालोचते-यत्त्वित्यादिना।
यद। तु पुनः । अत्रास्मिन् । सहायकथनप्रस्तावे सहायानां सहायस्वरूपनिरूपणानां प्रस्ताव उपक्रमस्तत्रेत्यर्थः । 'तस्य नायकस्य । अर्थचिन्तने 'कर्तव्य' इति शेषः । सखा मित्रम् । स्वं स्वयम् । वा। उभयं सखा स्वयं चेत्यर्थः । वाऽथवा । अपि । मन्त्री। 'सहाय' इति शेषः ।' इतीत्येवम् । केनचित् । दशरूपनिर्मात्रा 'दशरूपव्याख्याने ति तु चिन्त्यैवोक्तिः । अत्र नाम्नाऽनिर्देशोऽवज्ञा सूचयति । लक्षणं 'मंत्रिण' इति शेषः । कृतम् । तत् । लक्षणमित्यर्थः । 'अपी' त्यधिकः पाठः। राज्ञो न तु नायकमात्रस्येत्यर्थः । अर्थचिन्वजोपा . .
दशरूप