________________
१२६ साहित्यदर्पणः।
[तृतीयः तस्य नायकस्य बहुव्यापिनि प्रसङ्गसङ्गत इतिवृत्तेऽनन्तरोक्तै यकसामान्यगुणैः किश्चिदूनः पीठमईनामा सहायो भवति । यथा-रामचन्द्रादेः सुग्रीवादिः। अथ शृङ्गारे सहायाः८१ शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः।
भक्ता नर्मसु निपुणा: कुपितवधूमानभञ्जकाः शुद्धाः॥६५॥ आदिशब्दान्मालाकाररजकताम्बूलिंकगान्धिकादयः । तत्र विटः
८२ सम्भोगहीनसम्प-विटस्तु धूर्तः कलैकदेशज्ञः।
वेशोपचारकुशलो वाग्ग्मी मधुरोज्थ बहुमतो गोष्ठयाम् ॥६६॥ तदेव विवृणोति-तस्येत्यादिना ।
तस्य पूर्वमभिहितस्वरूपस्य । नायकस्य धीरोदात्ताद्यन्यतमस्य नेतुः । बहुव्यापिनि बहु व्याप्तुं शीलमस्यास्तीति तस्मिंस्तथोक्ते । बहुव्यापित्वं च सर्वतो विदितत्वं दविष्ठत्वं वा। प्रसङ्गसड़ते प्रसङ्गे समतं प्राप्तं तत्र । इतिवृत्ते कर्त्तव्यकर्मविषयके वृत्तान्ते । अनन्तरोक्तैरनन्तरं प्राकू ७० अविकत्थन इत्यादिनोक्ताः कथितास्तैः । नायकसामान्यगुणैर्नायकस्य सामान्यगुणास्तैः । सामान्य जातिः, तस्य तदनुरूपा गुणा इति सामान्यगुणाः । तथा चयस्य धीरोदात्ताद्यन्यतमस्य नायकस्य धीरोदात्तत्वाद्यन्यतमरूपा जातिस्तदनुरूपा धीरोदात्तत्वाद्यवच्छिन्ने यादृशा गुणाः सम्भवन्ति तादृशा गुणास्तैरिति निष्कृष्टम् । 'जातिर्जातं च सामान्य'मित्यमरः । किश्चिन्न तु सर्वथेति भावः । ऊनोन्यूनः । पीठमईनामा। पीठमासनं मृद्राति सममध्यास्य दलतीति, पीठमर्दो नाम यस्य तथोक्तः । सहायः सहचारी । भवति । उदाहरति-यथा-रामचन्द्रादेर्षीरोदात्तादे यकस्य। आदिपदेन श्रीकृष्णादेर्ग्रहणम् । सुग्रीवादिः। आदिपदेनोद्धवादेर्ग्रहणम् ।
एवं रसमात्रे नायकस्य सहायस्वरूपं निर्दिश्य शृङ्गारे सप्रपञ्चं निर्देष्टुमुपक्रमते-अथेत्यादिना। अथ । शृङ्गारे। सहाया 'नायकस्य'ति शेषः । नायकसहाया अभिधीयन्ते-८१ शृङ्गार इत्यादिनेति । भावः ।
८१ अस्य नायकस्येत्यर्थः । नर्मसु परिहासोक्तिषु । 'द्रवकेलिपरीहासाः क्रीडा खेला च नर्म च ।' इत्यमरः । निपुणाश्चतुराः । कुपितवधूमानभञ्जकाः कुपिता नायिकान्तरसङ्गादिदोषावगमेन स्टाश्चामी वच्चो नायिकास्तासां मानभञ्जका इत्यथैः । 'कुपितवधूमानभञ्जने' इति पाठान्तरम् । शुद्धा निर्दोषाः परदारसंपर्करहिता इति यावत् । दक्षा इति पाठान्तरम् । विटचेट
पकाद्याः। आद्यपदेन मालाकारादिग्रहणम् । श्रडारे शृङ्गारनिमित्तम् । 'उपरागे माया'दितिवत् निमित्तार्थे सप्तमी। सहायाः सङ्गि नः । स्युः। अत्रार्या छन्दः, तल्लक्षणं चोक्तं प्राक् ॥६५॥ 'विदूषकाद्या' इत्यत्राद्यपदांशभूतादिशब्दावोद्धव्यमर्थ बोधयति-आदिशब्दात । आदिशब्दमाश्रित्येत्यर्थ: । ल्यपो
लकगान्धिकादयः। तत्र मालाकारः पुष्पादिमालानिर्माणोपजीवकः, रजको वाससा रङ्गविधानोपजीविकः, ताम्बूलिकस्ताम्बूलसाध्यद्रव्यविक्रेता, गान्धिकः सुरभिततैलविशेषादिविक्रेतेति बोध्यम्। अत्राद्यादिपदेन वैद्यनापितगोपादिग्रहणम् ।
अथ क्रमादेतेषां स्वरूपमभिधातुमुपक्रमते-तत्रेत्यादिना । तत्र तेषु विटायेषु मध्य इत्यर्थः । विटः। उच्यते-८२ सम्भोगहीनसम्पदित्यादिना ।
८२ विटः। तु पुनः । सम्भोगहीनसम्पत्सम्भोगे सुरतोपासने हीना सम्पद् इति तथोक्तः । हीना नष्टा सम्पद् यस्य सः । क्लीब इत्यर्थः । धूर्तः। कलैकदेशज्ञः कलानां नत्यगीतादीनामेकदेशो न तु सर्वांश इति तं जानातीति तथोक्तः । वेशोपचारकुशलो वेशस्य वेश्यागृहस्योपचारस्तदुपयोगी व्यवहारस्तत्र कुशलः । 'सप्तमी शौण्डैः । २।१।४० इति सप्तमीसमासः । 'नेपथ्ये गृहमात्रे च वेशो वेश्यासमाश्रये।' इति रभसः । वाग्ग्मी प्रशस्ता वागस्यास्तीति तथोक्तः । 'वाचो रिमनिः ।५।२।१२४ इति ग्मिन्नादेशः । मधरःप्रीतिपात्रम । अथ। गोष्ठयां वयस्यसमाजे इति भावः । बहमतो नितान्तं सम्मानितः । 'भवतीति शेषः । अत्र गीतिश्छन्दस्तलक्षणं चोक्तं प्राक् ॥६६॥