________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
१३५ ७९ एषां च त्रैविध्या-दुत्तममध्याधमत्वेन ।
उक्ता नायकभेदा-श्चत्वारिंशत्तथाऽष्टौ च ॥ ६३ ॥ एषामुक्तषोडशभेदानाम्। अथ प्रसङ्गादेतेषां सहायानाह८० दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिके निवृत्ते तु ।
किश्चित्तद्गुणहीनः सहाय एवास्य पीठमाख्यः ॥ ६४॥ अथैतेषामवान्तरभेदान् गणयति-७९ एषामित्यादिना ।
७९ एषां निरुक्तषोडशप्रकाराणां नायकानामित्यर्थः । च पुनः । उत्तममध्याधमत्वेन । अत्र मध्यशब्दात् 'अ साम्प्रतिके।' ४।३।९ इत्यप्रत्ययः। भावप्रत्ययस्य प्रत्येकं सम्बन्धः, अभेदे करणे वा तृतीया। त्रैविध्यात्तिस्रो विधाः प्रकारा येषां तेषां भावस्त्रैविध्यं तस्मात् । चत्वारिंशत् । तथा । अष्टौ । च । नायकभेदाः। उक्ताः कथिताः । अत्रोपगीतिश्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ ६३ ॥
___ संशयापनोदाय कारिकास्थमेषामितिपदं व्याचष्टे-एषामित्यस्य पदस्य'ति शेषः । उक्तषोडशभेदानाम् । 'इत्यर्थ' इति शेषः । षोडशानां च त्रैविध्ये (त्रिभिर्गुणितत्वे) अष्टचत्वारिंशत्त्वमव्याहतमेवेति बोध्यम् ।
. अत्रायं पालोकः-शृङ्गारे रसे नायको नायिका चेत्युभयमेवालम्बनम् । तत्र तावत् नायकः पतिः, उपपतिः, वैशिकश्चेत्येवं त्रिविधः, तत्रापि-विधिवत्पाणिग्रहीता पतिः, सोऽपि धीरोदात्तो, धीरोद्धतो, धीरललितो, धीरप्रशान्तश्चेति चतुष्प्रकारः, सोऽयं पुनरनुकूलो दक्षिणो धृष्टः शठश्चेति प्रत्येकं चतुर्धा । पाणिग्रहणमन्तरैव प्रेम्णाङ्गीकृतः पतिरुपपतिः । सोऽपि अनुकूलत्वादिना चतुर्धा । वैशिको नाम बहुलवेश्योपभोगरसिकः, अयमपि अनुकूलत्वादिना तथाविभः । ते पुनः-उत्तमा मध्यमा अधमाश्चेति प्रत्येकं त्रैविध्ये भेदान्तरसम्भवं प्रतिपन्नाः। तदेवं नायकश्चत्वारिंशत्प्रकारात्मा प्रोषितोऽप्रोषितश्चेति भिद्यत इत्येके, केचिदेवम्-'सोऽप्युत्कोऽनुत्को विप्रलब्धः खण्डितश्चेति भिद्यते ।' इति, 'नायकः-पतिरुपपतिर्वैशिकश्चेति त्रिविधः, सोऽप्यनुकूलो दक्षिणो धृष्टः शठश्चेति चतुर्भेदः, असावपि प्रोषितोऽप्रोषितश्चेति द्विविधः ।' इत्यपरे, 'पतिरुपपतिर्वेशिकश्चेति त्रिविधः, असौ च धीरोदात्तो धीरोद्धतो धीरललितो धीरप्रशान्तश्चेति चतुर्धा, एवं भिद्यमानोऽप्ययमनुकूलो दक्षिणो धृष्टश्शठश्चेति भिद्यते, असौ च द. भद्रः पाञ्चाल: कूचिमारश्चेति चतुरात्मा, अत्र दत्तः पद्मिन्या, भद्रश्चित्रिण्याः, पाञ्चालो हस्तिन्याः, कूचिमारः पुनः शखिन्या एव नायक, इति बोध्यम् ।' इत्यनेके, 'पतिरुपपतिवैशिकश्चेति त्रयो नायकाः, तत्राद्यो दत्तो भद्रः पाञ्चाल: कूचिमारश्च, अमी च धीरोदात्तो धीरोद्धतो धीरललितो धीरप्रशान्तश्चेति भिद्यन्ते । द्वितीयो भद्रः पाञ्चाल: कूचिमारश्चेति त्रेधैव, न तु दत्तः; त्रयोऽप्येते धीरोदात्तादिना चतुर्धा, तृतीयः पुनः कूचिमारः, असावपि धीरोदात्तादिना चतुर्धा, एते दक्षिणा अनुकूलाश्च । सप्रभेदा उपपतयो वैशिकाश्चानुकूला दक्षिणा धृष्टाः शठाश्चेत्यमी अपि उत्तमा मध्यमा अवराश्चे'ति चाहुबहवः । वीरादिषु पुना रसेषु नायको धीरोदात्तादिना यथोक्तस्तथाविध एव, विविक्तान्युदाहरणान्याकरे द्रष्टव्यान्येतेषाम् । इति दिक् ।
आनुषङ्गिकमभिधातुमुपक्रमते-अथेत्यादिना ।
अथ सप्रपञ्चं नायकभेदनिरूपणानन्तरमित्यर्थः । प्रसङ्गात् । एतेषां 'नायकाना' मिति शेषः । सहायाननुसङ्गिनः । आह-८०-दूर नीत्यादिना ।
८० तस्य नायकस्य । दूरानुवर्तिनि दूरमनुवर्तितुं शीलमस्यास्तीति तस्मिंस्तथोक्ते । दूरं प्राप्त इति भावः । प्रासङ्केितिवृत्ते प्रसङ्गात्प्राप्त प्रासङ्गिकं, तच्च यदितिवृत्तं तस्मिंस्तथोक्ते । तु एव । 'तु स्याद्भेदेऽवधारणे ।' इत्यमरः । किश्चित् । तहणहीनस्तस्य गुणास्तैहीनः । अस्य नायकस्य । एव । सहायः सहायते गच्छतीति तथोक्तोऽनुचरविशेष इति भावः। पीठमाख्यः पीठमई आख्या (नाम) यस्य स तथोक्तः। स्यात् ॥ अत्रो पगीतिश्छन्दः । तलक्षणं चोक्तं प्राक् ॥ ६४॥