________________
१२४ साहित्यदर्पणः।
[तृतीयः७८ शठोऽयमेकत्र बदभावो यः। दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ ६२ ॥ यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोहिदर्शितानुरागोऽन्यस्या नायिकायां गूढं विप्रियमाचरति स शठः । यथा
'शठान्यस्याः काश्चीमणिरणितमाकर्ण्य सहसा यदाश्लिप्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्वाचक्षे घृतमधुमयत्वद्वहुवचो-विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥२१॥' अथ शठस्वरूपमभिधत्ते-७८ शठ इत्यादिना ।
७८ यः। दर्शितबहिरनुरागो दर्शितो दानादिना प्रकटितो बहिरनुरागो बाह्यानुरागो नत्वान्तरिकाऽनुरागो येन स तथोक्तः । अभिमतायामपि किं पुनरनभिमतायां बाह्यानुरागस्यैव प्रकटयितेति भावः । एकत्रैकस्यामभिमतायां नायिकायामित्यर्थः । बद्धभावो बद्धो निबद्धः स्थापित इति यावत् , न तु दर्शितो भाव आन्तरिकः स्नेहो येन स तथोक्तः । अन्यत्रान्यस्यामनभिमतायां नायिकायामित्यर्थः । 'सप्तम्यास्त्रल् ।' ५।३।१० इति त्रल् । गूढमप्रकटितस्वरूपम् । विप्रियं प्रियाविरुद्धम् । आचरति । अयं 'स' इति शेषः । शठस्तदाख्यो नायको भवतीति भावः । अत्र गीतिश्छन्दः । तल्लक्षणं च-'आUप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभा तां गीति गीतवान्भुजङ्गेशः ॥' इत्युक्तम् ॥ ६२ ॥
तदेवाह-य इत्यादिना।
यः। पुनः। एकस्याम् । एव नत्वन्य इस्यर्थः । नायिकायाम एतदुपलक्षणम्, तेन कार्यनिष्पत्तौ चेत्यर्थ: बद्धभावः स्थापितान्तरिकानुरागः । क्योरभिमताऽनभिमतयोरिति भावः । अपि । नायिकयोः। बहिः प्रत्यक्षम् । दर्शितानुरागो दर्शितो न त्वनुष्ठितोऽनुरागः प्रेम येन स तथोक्तः । अन्यस्यामनभिमतायाम् । नायिकायां नायिकाविषये । गूढं परोक्षम् । विप्रिय प्रियाविरुद्धम् । आचरति । सः। शठः शठनायक इत्यर्थः ।
उदाहरति-यथा-इत्यादिना ।
यथा-हे शठ कुटिल! 'कुटिलस्त्वनृजुः शठः ।' इत्यमरः । यत् । अन्यस्या अपरस्या अभिमताया नायिकायाः । नामाकीर्तनं द्वेषं सूचयति । काश्चीमणिरणितं काञ्चया मेखलाया मणयो रत्नखण्डानीति तेषां रणितं शब्दस्तत्तथोक्तम् । अत्र काञ्चीपदं नूपुरयोरप्युपलक्षकम् । तथा च-नूपुरमणिरणितं चेत्यर्थः । आकर्ण्य श्रुत्वा । सहसा शीघ्रं तत्पदमिति यावत् । आश्लिष्यन्नालिङ्गमानः। एव न त्वन्यदा। प्रशिथिलभुजग्रन्थिः प्रकर्षण शिथिल इति, प्रशिथिलो भुज (योः ) ग्रन्थिर्यस्य स तथोक्तः । अभवः। 'त्व'मिति शेषः । तत्। 'मत्सख्या' आश्लेषावसर एव यदन्यस्याः काञ्चीरणितमाकर्ण्य तां प्रति चलच्चित्ततयाऽऽश्लेषरसं दूषितवानसि तदित्यर्थः । एत. स्मृत्यारूढतया प्रत्यक्षभूतमित्यर्थः । 'चरित'मिति शेषः । क कुत्र। आचक्षे कथयामि । कुत्रापि मत्कथनं निशम्य सदुपारिणं जनं न पश्यामीति भावः । किं पुनस्तव सखी मयि विश्रब्धेत्यत आह-घृतमधुमयत्वद्धहुवचोविषण धृतमधुनो विकार इति घृतमधुमयं यत्त्वहुवचस्तव बहुधाऽऽलाप इति तदेव विषस्तेन तथोक्तेन । घृतमधुनी यथा मधुरे भपि प्रतीयेते, किन्तु परिणाम प्राणान् हरतस्तथा तव वचनमिति भावः । 'त्व'दित्यपठित्वा 'त्वादिति पाठे 'हेतौ' पञ्चमी, यद्वा-घृतमधुमयत्वमततीति तथोक्तं यद्बहुवच इति तदेव विषस्तेनेत्यर्थः । आघूर्णन्ती मूर्छा नाटयन्तीति भावः । मे मम । सखी। किमपि किं काय किं वा नेत्यर्थः । न नैव । गणयति बुध्यते। कयाचिन्नायिकया प्रेरितायास्तत्सख्या दूत्या नायकं प्रत्युक्तिरियम् । पद्यं चेदममरुशतकस्थम् । अत्र शिखरिणी छन्दः, तल्लक्षणं च यथोक्तम् , 'रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी।' इति ॥ २१ ॥ ___इदं शृङ्गारमुद्दिश्योदाहृतम् । अन्यत्र तु कुटिलत्वमात्रशठलक्षणमित्यलम् । यथा मम-'रेरे शल्य ! ममैत्य सारथिपदं तिग्मैः शरैराहतं निश्श्योतद्रुधिरोघमप्यविरतं दृष्ट्वाऽपि गाण्डीविनम् । मां न स्तौषि कदाऽपि, यर्हि तु मनाक् तद्बाणपातो मयि प्राज्यं तर्हि विनिन्य मां तमनिशं स्तोतुं भुजङ्गेश्वरः ॥ इति दिक् ।