________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । किश्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ___ ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभुवः ॥ १९ ॥' इति । ७७ अनुकूल एकनिरतः । एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः। यथा'अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः। किन्त्वन्येऽपि जना वदन्ति 'सुभगोऽप्यस्याः प्रियो नान्यतो
दृष्टिं निक्षिपती'ति, विश्वमियता मन्यामहे दुःस्थितम् ॥२०॥' इति । हसति सती'ति भावः । मयि । तत्र । चरणग्रहणावसर इत्यर्थः । किञ्चित् किमपि प्रतिकार्यम् । विधातुं कर्तुम्। अक्ष. मतयाऽसमर्थतया (हेतुना) । मुञ्चन्त्याः बाप्पमथुजलम् । सृजन्त्या। वामभ्रवो वामे कुटिले अति मनोज्ञे च भ्रुवो यस्यास्तस्यास्तथोक्तायाः। 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे । पयोधरे हरे कामे' इति विश्वः। ध्यातः स्मृतिपथं नीतः । कोपः। अपि । चेतसि 'ममेति शेषः। कौतुकमानन्दविशेषम् । वितनुते विस्तारयति । कस्यापि कमपि सखायं प्रत्युक्तिरियम्। अत्रं च शार्दूलविक्रीडित छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १९ ॥ इति । :
अत्र हि नायकस्य धृष्टत्वं विदितचरम् । यथा वा मम-'पीड्यते दह्यते भूयः समुपैति कृतार्थवत् । संसारे हन्त लोकोऽयं पीड्यते दह्यते पुनः ॥' इति । यथा वा ममैव, 'ताडितः परिहतः प्रयापितो विस्मृताभिभववत्पुनर्बत । याचते धनमदेन दुर्दशं दीन एष न तु जातु तं परम् ॥' इति । संसारिणो धृष्टत्वं पश्यतो निर्वाणोक्तिरेषेति दिक् ।
अथानुकूलनायकखरूपमभिधत्ते-७७ अनुकूल इत्यादिना ।
७७ एकनिरत एकस्यां निरत आसक्त इति तथोक्तः । 'एका च नायिके'ति शृङ्गारे, अन्यत्र यथातथमूत्या । अनुकूलः । 'नायकः स्यादिति शेषः ।
तदेव विवृणोति-एकस्यामित्यादिना ।
एकस्याम् । एव न तु द्वितीयायामिति भावः। नायिकायामपलक्षणेन 'अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥' इत्यादिदिशा निर्दिष्टानां प्रतिज्ञादीनां ग्रहणम् । आसक्तः। अनुकूलनायकोऽनुकूल: प्रातिकूल्यरहितत्वे सति तनिष्ठोऽसौ नायक इति तथोक्तः । 'यथा रामभद्रादि'रिति शेषः ।
उदाहर्तुमुपक्रमते- यथा-'अस्माकं सखि !..'इत्यादिना ।
'हे सखि ! अस्माकम् । खसौभाग्याधिक्यमेव सूचयितुमत्र बहुत्वेन खनिर्देशः । वाससी वस्त्रद्वयम् । परिधेयमुत्तरीयं चेति भावः । न । रुचिरे सुन्दरे । 'स्त' इति शेषः । ग्रैवेयकं कण्ठाभरण, किं पुनरन्यदिति भावः । 'कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ।' ४।२।९६ इति ढकञ् । उज्ज्वलं सुन्दरम् । न । 'अस्ती'ति शेषः । गतिर्गम नम् । वक्रा कुटिला विचित्रेति यावत् । नो नैव । हसितम् । उद्धतमत्यन्तम् । न नास्ति । कश्चित्तारुण्यायतमावलेपजन्मा । मद औद्धत्यसूचकश्चेतोविकारः । न । एव सर्वथा । अस्ति वर्तते । किन्तु तथाऽपि, एवं नायकमनोहरणसामग्र्यसद्भावेऽपीति भावः । इदमुक्तम्-कस्याश्चिद्वाससी एव मनोहरे भवतः, कस्याश्चिद्वैवेयकादीन्याभरणान्येव महोहराणि भवन्ति, कस्याश्चित्पुनः सञ्चरणशैल्येवैतादृशी भवति यस्यां दृष्टायां खतो नायकस्य मनो हृतं भवेत्, कस्याश्चिद्धसितं कस्याश्चित्तथा मदो मनो हर्तुमलम् । न चास्माकं वासोरुचिरत्वादिसामग्री मनोहारिणी, अथापीति । अन्ये न त्वहंमम संख्य एव वेति भावः । अपि । जनाः। अस्याः (मम)। 'प्रियःप्रेमास्पदं नायकः । सुभगः सुन्दरत्वे सति श्रीमानित्यर्थः । अपि । अन्यतोऽन्यत्र खं कामयमानास्खपि परासु नायिकाखिति भावः । दृष्टिं किं पुनस्ताभिः सङ्गो त्कण्ठाम् । निक्षिपति निदधाति ।' इतीत्येवम् । वदन्ति। इयतैतावता। विश्वं जगत् । दुःस्थितं दुःखस्थम् । मन्या' महे । अस्माकं सौभाग्यं न लोकः सहते, इति निश्चिनुमः । कथमितरथाऽस्माकं तथा चर्चा कुर्म्युरिति भावः । रुद्रकृतेशृङ्गारशतके कस्याश्चिदात्मसौभाग्यं व्यञ्जयन्त्याः सखी प्रत्युक्तिरियम् । अत्र शार्दूलविक्रीडित छन्दः, तल्लक्षणं चोक्तं प्राक् २०॥