________________
[तृतीयः
१२२
साहित्यदर्पणः । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते .
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ १८॥' ७६ कृतागा अपि निश्शङ्क-स्तर्जितोऽपि न लज्जितः।
दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः ॥ ६१॥ यथा मम
शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः पादेन प्रहतं तया, सपदि तं धृत्वा सहासे मयि ।
इत्यमरः । प्रसाद्याऽनुनेया। इतीत्येवम् । विज्ञाय । मयाऽवरोधसञ्चारिणा कञ्चुकिनेति भावः । अन्तःपुरसुन्दरी प्रति । अत एव-'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपी' त्यनेन 'सुन्दरीः' इति द्वितीया । विज्ञापिते निवेदिते सतीत्यर्थः । अप्रतिपत्तिमूढमनसा 'किं कर्तव्य'मिति व्याकुलमनसा । 'ऋतौ भार्यामुपेयात् इति श्रुतेः । 'ऋतुस्नातां तु यो भायां स्वस्थः सन्नोपगच्छति । बालगोनापराधेन लिप्यते नात्र संशयः ॥'इति स्मृतेश्च कथमृतुस्नातां कुन्तलेश्वरनन्दिनीं धर्मज्ञः सन् नाहमुपगच्छेयम्, कथं वा सत्यसन्धोऽसत्यवादिनां दण्डयिता वा सन् स्वयमेवाहमङ्गराजखसुर्नियतसमयमुल्लचेयम्, 'एषु द्यूतेष्वयमेव पणः स्याद् यद्यहं जेष्यामि तर्हि भवानिमां रात्रिं स्थितः स्यात्, यदि तु भवाजेष्यति तहिं स्वरात्रिमपहास्यामी'ति सप्रतिज्ञं प्रवर्तितै तैर्जित्वा यया महाभागया रात्रिरेवेयं स्वायत्तीकृतेति तामपि कमलासदशतया कमलेति प्रसिद्धो कथं मुञ्चेयम् , महाराझ्याश्च रोषापनयः सर्वथैव कर्त्तव्य इत्यसावपि कथमवैव सम्पद्यतेति किं साम्प्रतं मम कर्त्तव्यमिति मूढेनेति भावः । देवेन राज्ञा । 'देवं हृषीके देवस्तु नृपतौ तोयदे सुरे।' इति हैमः। द्विवा द्वे वा तिस्रो वेत्यर्थः । नाडिका घटिकापर्य्यन्तम्। 'कालाध्वनोरत्यन्तसंयोगे।' २।३।५ इति द्वितीया। स्थितम् 'तूष्णी' मिति शेषः । अन्तःपुरचारिणः कस्यापि कमपि तथाविधं प्रत्येव कौतुकोक्तिरियं प्रतीयते, पद्यं त्वेतद् भोजप्रबन्धे समस्यापूर्तिप्रसङ्गे दृश्यते । अत्र च शार्दूलविक्रीडित छन्दः । लक्षणं चोक्तं प्राक् ॥१८॥
अत्र हि राज्ञः सर्वासु समोऽनुरागः प्रतीयत इत्यस्य दक्षिणत्वम्। यथा वा मम-'जेतव्या पुरतः स्थिता किल मया
णीयं चमूः, साहाय्यं च विधेयमायंचरणानासाद्य तत्राचिरात् । नैषां साम्प्रतमेव हन्त भवितुं शक्यो विनाशो, न वा त्याज्यो मे समरः कदाचि, दिति सम्मूढोऽर्जुनोऽभूत्क्षणम् ॥', यथा वा-'अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥' इति दिक् ।
धृष्टवरूपं निर्दिशति-७६ कृतागा इत्यादिना।
७६ कृतागाः कृतमागोऽपराधो येन स इति तथोक्तः । अपि । निश्शङ्को । निर्गता शङ्काऽपराधातको यस्य स इति तथोक्तः । तर्जितस्तिरस्कृतः । अपि । न नैव । लज्जितः। दृष्टदोषो दृष्टः प्रत्यक्षं विदितो दोषः पररोषोत्पादनहेतुः कर्म यस्य सः । अपि । मिथ्यावाक 'न मया कृतमिद' मित्यसत्यवचनः । धष्टनायको धृष्टो ऽसौ नायक इति तथोक्तः । कथितः। 'भरताथै' रिति शेषः ॥ ६२॥
उदाहर्तमुपक्रमते-यथेत्यादिना । यथा 'धृष्टः सम्भवति तथा' इति शेषः । मम 'प्रबन्धे' इति शेषः । शोणमित्यादि ।
" हे सखे मित्र!। शोणं रक्तवर्ण 'रोषा'दिति शेषः । मुखम् (कम)। 'वामभुव' इति प्रकृतमनुषज्यते । वीक्ष्य निरीक्ष्य । विचुम्बितुं विशेषेण चुम्बितुम् । 'मद्गण्डस्थलसौन्दर्यलुब्ध एवायं चुम्बितुं प्रवर्तते, न तु जानाति स्मरति वा प्राकनं खानयमिति सूचयनिवे'ति शेषः। अहम। समीपम् । यातो गतः। 'गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरहजीयंतिभ्यश्च । ३।४।७२ इति कर्तरि क्तः। ततस्तदनन्तरम् । तया वामभ्रवा (का) । पादेन पादद्वारा। प्रहतम्। 'प्रहृत' मित्यपि पाठः। 'मम वक्ष' इति शेषः । 'तामेवानुसर या तव दयिता, किम्मये'ति प्रहतं मदीयं वक्ष इति भावः । पुनः-तं पादम् । सपदि तदानीमेव । धृत्वा 'रिरंसयाऽयमङ्के मम चरणकमलं निदधातीत्यवश्यं मयाऽनुप्राह्य इति जानात्वेषेति कृत्वे ति शेषः । सहासे 'मानेन प्रहारकारणमवगतमिति निश्चिनोत्वियमिति