________________
१२१
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । ७४ एभिर्दक्षिणधृष्टा-नुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारो नायकः ।
७५ एषु त्वनेकमहिला-समरागो दक्षिणः कथितः ॥ ६० ॥ द्वयोनिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः। यथा
'नाता तिष्ठति कुन्तलेश्वरमुता, वारोऽङ्गराजस्वसुः, द्यूतै रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च ।
७४ दक्षिणधृष्टानुकूलशठरूपिभिर्दक्षिणश्च धृष्टश्चानुकूलश्च शठश्चेति, ते रूपिणस्तैस्तथोक्तैः । अत्र 'अल्पाचतरम् ।' २॥२॥३४ इत्यनेन शठादिपदानां पूर्वनिपातप्राप्तावपि नाभ्यर्हितत्वात्पूर्वनिपातः । एभिर्धीरोदात्तादिभिरित्यर्थः । षोडशधा षोडशभेदाः 'सम्पद्यन्त इति शेषः । 'सङ्ख्याया विधार्थे धा।' ५।३।४२। तथा च-धीरोदात्तो दक्षिण: १, धीरोद्धतो दक्षिणः २, धीरललितो दक्षिणः३, धीरप्रशान्तो दक्षिण:४, धीरोदात्तोधृष्टः ५, धीरोद्धतो धृष्टः ६, धीरललितो धृष्टः७, धीरप्रशान्तो धृष्टः ८, धीरोदात्तोऽनुकूल: ९,धीरोद्धतोऽनुकूलः १०,धीरललितोऽनुकूल: ११,धीरप्रशान्तोऽनुकूल: १२, धीरोदात्तशठः १३, धीरोद्धतः शठः १४, धीरललितः शठः १५, धीरप्रशान्तः शठः १६, इति षडधिकदशभेदा नायका बोध्याः । यद्यपि धीरोदात्तादयो न सदा दक्षिणादिरूपाः, किन्तु शृङ्गारवत्त्वायनुनाहित्वे युज्यंत इति निष्कृष्टम् ।
तदेवाह-तत्रेत्यादिना।
तत्र झारे । तेषां पूर्वोक्तस्वरूपाणाम् । धीरोदात्तादीनाम् । प्रत्येकम् । दक्षिणधृष्टानुकूलशउत्वेन । अत्र हेतौ तृतीया । षोडशप्रकारः । नायकः ६८ त्यागीत्यायुक्तस्वरूप आलम्बननामा विभावविशेषः । 'सम्भवतीति शेषः । तत्र-धीरोदात्तस्वरूपत्वे सति दक्षिणस्वरूपाक्रान्तो धीरोदात्तोपधिको दक्षिण इति दिक् ।
किं नाम दक्षिणत्वादीत्यत आह-७५ एष्वित्यादि।
७५ एषु धीरोदात्तत्वादिना चतुधा भिद्यमानेषु नायकेष्वित्यर्थः । तु पुनः । अनेकमहिलासमरागोऽनेका अमूः महिला नायिका इति, तासु समो रागो यस्य स इति तथोक्तः । 'वनिता महिला तथा।' इत्यमरः । इदं चशृङ्गारमुद्दिश्य निदर्शनमात्रम्, वस्तुतस्तु-सर्वत्र समचित्तः सन् समव्यवहारशालीति वाच्यम् । अत एव-दक्षिण उदारश्चतुर इति यावत् । 'दक्षिणे सरलोदारा'वित्यमरः । कथितः । अत्रार्या छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ६ ॥
एतदेव विवृणोति-द्वयोरित्यादिना ।
द्वयोर्नायिकयोरितिशेषः । त्रिचतुःप्रभृतिषु तिस्रश्च चतस्रश्चेति ताः प्रभृतावादौ यासां तासु तथोक्तासु तिसूक्षु चतसृषु पञ्चसु वेत्येवमनेकासु नायिकास्विति भावः । तुल्यानुरागस्तुल्यः समानो राग: प्रेम यस्य स इति तथोक्तः । दक्षिणनायको दक्षिणश्चतुरोऽसौ नायक इति तथोक्तः । 'भवतीति शेषः ।
उदाहर्तुमुपक्रमते-यथेत्यादिना।
यथा दक्षिणः सम्भवति तथोदाहियते-“कुन्तलेश्वरसुता कुन्तलस्य तदाख्यस्य देशविशेषस्येश्वरो निग्रहानुग्रहसमर्थो राजेति यावत्, तस्य सुता पुत्रीति तथोक्ता । नाता मासिकप्रसवोत्तरं कृततद्दोषक्षालना गर्भधारणोन्मुखीति यावत् । तिष्ठति । तथा-अङ्गराजस्वसुरङ्गस्य देशविशेषस्य राजेति, तस्य स्वसा भगिनी तस्या इति तथोक्तायाः । वारो नियतसमयः । 'प्राप्त इति शेषः । 'निवहावसरौ वारौ'इत्यमरः । इयं यस्यां स्नाता कुन्तलेश्वरतनया गर्भधारणमपेक्षते, यस्यां वाऽङ्गराजस्य खसा नियतसमयतया रिरंसति; सैवैषेति भावः । रात्रिः। कमलया। तदाख्यया राझ्या (का)। चूतैर्दूतद्वारा । जिता स्वायत्तीकृता । अद्य । च पुनः । देवी महाराज्ञी । ‘देवी कृताभिषेकायाम्'