________________
११८ साहित्यदर्पणः।
[ तृतीयःभादिशब्दान्नायिकामतिनायकादिः । अत्र यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र नायकः
६८ त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही।
दक्षोऽनुरक्तलोक-स्तेजोवैदग्ध्यशीलवानेता ॥ ५५ ॥ दक्षः क्षिप्रकारी, कृती कृतज्ञः, शीलं सद्वृत्तम् । तद्भेदानाह
श्रित्य । रसोद्माद् यतो रसस्योद्गमो भवति तस्माद्धेतोरिति भावः । उक्तं च पण्डितराजैः-‘एवं यो यस्याश्चित्तवृत्ते. विषयः स तस्य आलम्बनम् ।' इति । यस्या इत्यविवक्षितम् । 'आलम्बन' इति त्वपपाठः ॥५४॥
आदिशब्दादोद्धव्यं निर्दिशति-आदिशब्दादित्यादिना ।।
भादिशब्दात् । अत्र ल्यपो लोपे पञ्चमी । तथा च-आदिशब्दमाश्रित्येत्यर्थः । नायिकाप्रतिनायकादिः । 'गृह्यत' इति शेषः ।
न च सर्वेषां रसानामालम्बनमुद्दीपनं वाऽभिन्नमित्याह-अत्रेत्यादिना ।
अत्रैषु नायकादिष्वालम्बनेषूपलक्षणेन वक्ष्यमाणेषूद्यानादिषूद्दीपनेषु च मध्य इति यावत् । यस्य । रसस्य शृङ्गारादेः । यः । विभाव 'आलम्बनरूप उद्दीपनरूपो वेति' शेषः । सः। तत्स्वरूपवर्णने तस्य ( रसस्य ) स्वरूपं लक्षणमिति, तस्य वर्णनं तत्रेति तथोक्ते । 'उपक्रम्यमाण' इति शेषः । वक्ष्यते कथयिष्ये । एवं च-सर्वेषां रसानां न विभावैक्यमिति यद्यद्रससम्बन्धी योयो विभावः सस तत्खरूपवर्णनोपक्रमे वर्णयिष्यते। इति निष्कृष्टम् ।
अथ नायकादिस्वरूपं वर्णयितुमुपक्रमते-तत्रेत्यादिना । तत्र तेषु नायकादिषु मध्य इलर्थः । नायकः। 'उच्यते' इति शेषः । ६८ त्यागीत्यादिना ।
६८ त्यागी परार्थ द्रव्यादेरुत्सर्जनं त्यागः, सोऽस्यास्तीति तथोक्तः । दातेत्यर्थः । कृती कृतं परेणोपकृतमस्यास्तीति तथोक्तः । कृतज्ञ इत्यर्थः । कुलीनः सत्कुले प्रसूतः । 'कुलात्खः ।' ४।१।१३९ इति खः । सुश्रीको मनोज्ञाऽतिशयिता श्रीः शोभा कीर्तिरिति यावत् , यस्य सः । 'श्रीर्वेषरचनाशोभाभारतीसरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्ती वेषोपकरणे मतौ ॥' इति मेदिनी। रूपयौवनोत्साही प्रशस्तरूपवान, युवा, उत्साहशीलश्वेत्यर्थः । रूपं च यौवनं चोत्साहश्चेति तेऽस्य सन्तीति तथोक्तः । दक्षः प्रवीणः क्षिप्रं काय सम्पादयितुं समर्थ इति यावत् । अनुरक्तलोकोऽनुरक्तोऽनुरागवाँल्लोकः सर्वोऽपि जनो यत्र स इति तथोक्तः । तेजोवैदग्भ्यशीलवान् । तेजः परेणापारभूयमानत्वं परं वा परिभवितुं युक्तत्वम् , वैदग्भ्यम् उचितकर्मकारित्वम्, शीलं सदाचरणम् । तथा च-परेणानाकाम्यः स्वयं च परमाक्रमितुं प्रभुस्तेजस्वी । याथार्थेन समयोचितकर्मकर्ता विदग्धः सदाचारी शीलवान् । इति निष्कृष्टोऽर्थः । नेता नायको ‘भवती'ति शेषः । अत्रााछन्दः । लक्षणं चोक्तं प्राक ॥५५॥
अथानेकार्थकानां रक्षादिपदानां विवक्षितमर्थ निर्दिशति-दक्ष इत्यादिना।।
दक्षो दक्षपदार्थः । क्षिप्रकारी चतुरः। 'न तु-'दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्या' मिति विश्वोक्त्या प्रजापतिरित्यादि'रिति शेषः । कृती कृतिपदार्थः । कृतज्ञः परेण मनागप्युपकृतं स्मर्ता । 'न तु-'कृती विज्ञे कृती दक्षे कृतज्ञे च कृती स्मृतः ।' इति गोपालोक्त्या विज्ञ इत्यादि' रिति शेषः । शीलं शीलपदार्थः । सद्वृत्तं सदुसमं चेदं वृत्तमाचरणमिति तथोक्तम् , 'न तु-' शीलं खभावे सद्वत्ते' इति विश्वोक्त्या स्वभाव' इति शेषः ।
एतस्य पुनश्चत्वार आत्मान इति निर्देष्टुमुपक्रमते-तद्भेदानित्यादिना ।