________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
११७ ये हि लोके रामादिगतरत्यादीनामुद्धोधकारणानि सीतादयस्त एव काव्ये नाटये च निवेशिताः सन्तो 'विभाव्यन्ते आस्वादाङ्गुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभि' रिति, विभावा उच्यन्ते । तदुक्तं भर्तृहरिणा
'शब्दोपहितरूपास्तान बुद्धेविषयताङ्गतान् । प्रत्यक्षानिव कंसादीसाधनत्वेन मन्यते॥' इति । तद्भेदावाह
६६ आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ॥ ५३ ॥ स्पष्टम् । तत्र
६७ आलम्बनं नायकाऽदि-स्तमालम्ब्य रसोद्गमात् ॥ ५४॥ तदेव स्वयं विवृणोति-ये हीत्यादिना ।
ये। हि खल। लोके काव्यनाट्याभ्यामन्यत्र जगति। राम त्यादीनां रामाऽऽदिगता ये रत्यादयः (स्थायिभावाः) तेषां तथोक्तानाम् । आदिपदाभ्यां सीतादीनां शोकादीनां च ग्रहणम् । उद्धोधकारणान्युद्बोधकारणभूताः । सीतादयः । आदिपदेन रामादीनां ग्रहणम् । अत एवात्र पुल्लिङ्गत्वेन निर्देशो युज्यते । 'सीतादिरत्यादीनामुद्बोधकारणानि रामादय' इति पाठान्तरे तु आदिपदाभ्यां पूर्ववत् रामादीनां हासादीनां च ग्रहणम् । उत्तरत्रादिपदेन सीतावसन्तादीनां ग्रहणम् । 'प्रसिद्धा' इति शेषः । ते । एव । काव्ये श्रव्यकाव्ये । नाटये नाटके श्रव्यकाव्ये इति यावत् । च । निवेशिता वर्णितस्वरूपा इत्यर्थः । सन्तः। विभाव्यन्ते विशेषेण भाविताः क्रियन्ते । तदेवाहएभिः (कर्तृभिः) सामाजिकरत्यादिभावाः सामाजिकानामभिनयदर्शिनामत एव तत्तद्वासनाशालिना मार्मिकाणां रत्यादिभाव। इति तथोक्ताः । आस्वादाङ्करप्रादुर्भावयोग्या आस्वादस्याङ्कुरप्रादुर्भावोऽङ्कुरवत्प्रादुर्भावस्तस्य योग्या इति तथोक्ताः । क्रियन्ते सम्पाद्यन्ते।' इति, । विभावा इति व्युत्पन्नार्थका विभावपदवाच्याः । उच्यन्ते । अथोक्तं द्रढयितुं प्रमाणमाह- भर्तहरिणा वाक्यपदीयाभिधं ग्रन्थं रचितवतेति भावः । उक्तं कथितं प्रतिपादितमिति यावत् । किमित्याह-'सहृदयो मर्मवेत्ता। शब्दोपहितरूपान् शब्देन काव्यनाट्यसम्बन्धिना वचसोपहितान्युपधानीकृतानि रूपाणि मूर्तयो येषां तान् । उप-धा-कः । 'दधातेर्हिः ।' ७।४।४२ इति ह्यादेशः । तत एव-बुद्धय॑जनाजन्यबोधस्य । विषयताम् ।गतान् । तान् प्रसिद्धान् । कंसादीन् । वीररसाभिप्रायेणेदमुक्तम् । वस्तुतस्तु-रामादी'
साधीयान् । साधनत्वेन तत्तद्रसाविर्भावस्य साधनात्मना । प्रत्यक्षान् । इव । वस्तुतस्तु-परोक्षानपीति शेषः । मन्यते प्रत्येति । इदमभिहितम्-केवलं वर्ण्यमाना अपि व्यन्जनया ज्ञापितस्वरूपा अत एव प्रत्यक्षभूता इव सहृदयैरध्यवसीयन्ते रामादयः ।' इति ।
एवं च लोके यत् कारणपदवाच्यं तदेवात्र विभावपदेन निर्दिश्यते, इदं चोपादानरूपं मुख्य, निमित्तरूपं पुनरपरभिति निदर्शयितुं प्रतिजानीते-तद्भेदावित्यादिना ।
तडेदौ तस्य विभावस्य रत्याद्यवोधने कारणस्येति यावत् भेदो भेदद्वयमिति तौ तथोक्तौ। आह-६६ आलम्बनोद्दीपनाख्यावित्यादिना ।
६६ तस्य विभावस्य । आलम्बनोद्दीपनाख्यौ आलम्बनं चोद्दीपनं चेति ते आख्ये ययोस्तौ तथोक्तौ । आलम्ब्यतेऽनेनेत्यालम्बनम्, उद्दीप्यतेऽनेनेति पुनरुद्दीपनम् । तथा च- आलम्बनं नाम विभाव एव लोक उपादानं नाम कारणमिति, उद्दीपनं पुनर्निमित्तमिति गीयते, थदालम्बनमन्तरा रसानाविर्भावस्तस्यालम्बनपदार्थत्वात् , यस्य चोद्दीपनमात्रकारित्वं तस्य पुनरुद्दीपनमित्यभिधानात् । इति बोध्यम् । उभौ द्वौ शुद्धौ वा। उवद्भा ययोस्तौ । भेदौ । स्मृतौ 'भरतादिभि' रिति शेषः ॥ ५३ ॥
न किश्चिद्गूढार्थ विशेषेण वा विवरणीयमित्याह-स्पष्टमिति । ननु किं तत्र तावदालम्बनपदाभिधेयमित्याह-तत्र तयोरालम्बनोद्दीपनाख्ययोर्विभावभेदयोर्मध्य इति यावत् ।
६७ नायकादिर्नायको रामादिरादौ यस्य नायिकाप्रतिनायिकादेरिति तथोक्तः । आलम्बनमालम्बनपदवाच्यः । आलम्ब्यतेऽनेनेति तथोक्तः । आङ्-लबि-ल्युट् । 'ल्युट्च' ३।३।११५। कुत इत्याह-तं नायकादिम् । आलम्ब्या