________________
साहित्यदर्पणः।
[ तृतीयःरत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वेप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तदुक्तम्
'विभावाश्चानुभावाश्च सात्त्विका व्यभिचारिणः ।
प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम् ॥'इति । 'परमार्थतस्त्वखण्ड एवायं वेदान्तसिद्धान्तप्रसिद्धब्रह्मतत्त्ववद् वेदितव्यः।' इति च ।
अथ के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह
६५ रत्याशुद्धोधका लोके विभावाः काव्यनाट्ययोः।। इति शेषः । एतदेव हेतुनिर्देशपुरस्सरमुपपाद्य दर्शयति-हि यतः । रत्यादयः 'विभावादयश्चेति शेषः । तथा चरत्यादयो भावाः, विभावानुभावव्यभिचारिणश्चेति निष्कृष्टम् । प्रथमं रसात्मनाऽवतारात्प्रागित्यर्थः । एकैकशः पृथक्पृथक्खरूपेण । प्रतीयमानाः प्रतीयन्ते, तदनन्तरं तथासन्त इति भावः । सर्वे रत्यादयो विभावादयश्च । अपि । एकीभूता अपृथग्भूताः । स्फुरन्तः । एव यावत्तावत् । रसताम् । आपद्यन्ते । तत्तथा । उक्तम् । 'अन्य' रिति शेषः । किमित्याह
'विभावाः। अनुभावाः । सात्त्विकाः स्वेदस्तम्भादयोऽनुभावविशेषाश्चेत्यर्थः । व्यभिचारिणः। च । प्रथमं रसात्मनाऽवतारा'दिति शेषः । खण्डशः पृथक्पृथग्रूपेण। प्रतीयमानाः। अखण्डताम् । यान्ति प्रतिपद्यन्ते ॥' इति । इदमुक्तम्-यथा खण्डमारचादीनां पृथक्पृथगवस्थितानां पृथक्पृथक्तयैव रसानुभवः, सम्मिलितानां पुनस्तेषामपृथगात्मना विलक्षणरसानुभवः सम्पद्यते; तथैव रत्यादीनां प्रथमं पार्थक्येनानुभवः, सम्मिलितानां पुनस्तेषां कोऽपि य आस्वादः सोऽखण्डो विलक्षणानन्दात्मा रसपदव्यपदेश्यः । एवं पूर्व रत्यादीनां खण्डात्मनाऽवस्थानं तत्पुनरखण्डात्मनेति निष्कृष्टम् । इति ।
एवं प्रकारान्तरेण समाधाय सिद्धान्तमवजिगमयिषुराप्तलेखमुद्धरति- परमार्थत..' इत्यादिना ।
'परमार्थतः सिद्धान्तदशायाम् । तु । अयं रसः । वेदान्तसिद्धान्तप्रसिद्धब्रह्मतत्त्ववद्वेदान्तस्य सिद्धान्तस्तत्र प्रसिद्धं यद्ब्रह्मतत्त्वं तेन तुल्यमिति तथोक्तम् । अखण्डः परिपूर्णः । एव । 'इती'ति शेषः । वेदितव्यो शेयः । विवृतं च तर्कवागीशैः-'यथा चिदानन्दरूपोऽयं पुरुषः इत्यनेन चिदानन्दयोरेकब्रह्मरूपत्वं प्रतिपादितं तथा चिदानन्दचमत्काराणामेकरसरूपत्वमिति भावः ।' इति।
अनायं पूर्वापरसन्दर्भभावः-'चिदपरपर्याय ज्ञानम् , तदवच्छिन्नो रत्यादी, रत्याद्यवच्छिन्ना वा चिद्विभावादिभिः समं सम्भूयैव सहृदयदृशा रसात्मनाऽवतिष्ठत इति सिद्धान्तः । अत्र च केवलं रत्याद्यंशमादाय न स्वप्रकाशत्वं न नित्यत्वं च, यथाहि स्वोपाधिकत्वेन कल्पितस्य ब्रह्मणः, अथ विशेषणतया विशेष्यतया ज्ञानांशमादाय स्वप्रकाशत्वं नित्यत्वमखण्डत्वं च सर्वथैव पर्य्यवसितम् , यथाहि-चिन्मात्रस्य ब्रह्मणः।' इति केचित् , 'रत्यादेखनाभिन्नत्वमेव, तत्त्वस्य ज्ञानाल्लेशतोऽप्यतिरिच्यमानताऽनुपपत्तेः । अथ सर्वथैव स्वप्रकाशत्वं नित्यत्वमखण्डत्वं च तस्य निर्बाधम् ।' इति परे, 'यथा पानकरसे खण्डमरिचादीनां भिन्नास्वादानामप्येषामभिन्नास्वादात्मनोपलभ्यमानत्वं तथाऽनेकस्वरूपाणामपि रत्यादीनां रसावस्थायामेकात्मत्वमात्रम् ।' इत्येके, 'यथा- "विज्ञानमानन्दं ब्रह्म' 'सर्वं खल्विदं ब्रह्मेत्यादिश्रुत्युक्तदिशा जगदावतदशायां पृथक्पृथगात्मनाऽवभासमानमपि ब्रह्म परमार्थदशायामेकमेवेति प्रतिपाद्यते तथा-रसावस्थातः पूर्व रत्यादीनां विभावादीनां च पार्थक्येन प्रतीयमानानामपि रसावस्थायां पुनस्तेषां न खलु पार्थक्यम् । तदिति ब्रह्मवद् रसस्याखण्डत्वं स्वप्रकाशत्वं च ।' इति त्वाहुरन्ये । इति ।।
अथ विभावादिस्वरूपं लक्षयितुमवतरणिकामुपन्यस्यति-अथेत्यादिना ।
अथ 'रत्यादिसम्मिलिता विभावादयो रस' इति सिद्धान्तप्रतिपत्त्यनन्तरम् । ते 'ये रत्यादिसम्मिलिता रसपदव्यपदेश्या' इति शेषः । विभावानुभावव्यभिचारिणः । के किंस्वरूपाः । इत्यपेक्षायामित्येवं ज्ञातुमभिलाषायां सत्यामित्यर्थः । विभावम् । क्रमप्राप्तत्वात्तत्र प्रथमं विभावपदवाच्यम् । आह-६५ रत्याधुबोधका इत्यादिना ।
६५ लोके काव्यनाट्यभिन्ने जगतीत्यर्थः । 'लोकस्तु भुवने जने।' इत्यमरः । रत्याशुद्धोधका नायकादयः । 'ये ख्यातास्त एवेति शेषः । काव्यनाट्ययोः काव्ये नाट्ये (नाटके) च । काव्यनाट्ययोः श्रव्यदृश्यभेदेन गोबलीवर्दवत्पृथगभिधानम् । विभावा विभावपदवाच्याः । 'ज्ञेया' इति 'उच्यन्ते' इति वाऽध्याहाय॑म् ।