________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
११५
मुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भावः । “सुखादितादात्म्याङ्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्रं प्रमोदनिद्रामुपेयाः।” इति च । 'अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः । ' इति च । ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव निपातनीयो दण्डः । तादात्म्यादेवास्याखण्डत्वम् ।
उपकल्प्य लक्षणया स्वीकृत्येत्यर्थः । तदेकात्मनि सा चर्वणैवैक आत्मा स्वरूपं यस्य तस्मिन्निति तथोक्ते । चर्वणातोऽभिन्नस्खरूप इत्यर्थः । चर्वणामात्रस्वरूप इति भावः । अत एव अनादिवासनापरिणतिरूपेऽनादिः प्राक्तनी या वासमा तस्याः परिणतिः परिणामस्यैव रूपं यस्य तस्मिंस्तथोक्ते । 'सामाजिकाना' मिति शेषः । तथा च - सामाजिकानां चिरकालिका या रामादिविषया वासना सैव परिणामं प्राप्ता यत्स्वरूपभूता तादृशे इति भावः । रत्यादिभावे रत्यादौ स्थायिनि भावे । अपि किं पुना रस इत्यर्थः । व्यवहारः 'काव्यत्वस्ये 'ति शेषः । अभिहितं च विवृतिकारैः '“ विभावादिसंयोगाद्वत्यादी रसो जायते" इत्यत्र रसे साक्षाद्रत्यादौ रसद्वारैव प्रतीयते इति भावः ।' इति यद्वारत्यादिभावे रत्यादेर्विभावादिसंयोगोत्तरका लिकेभ्यो रत्यादिभ्यो भावो जन्म यस्य तस्मिन्निति तथोक्ते । रस इत्यर्थः । अपि व्यवहारः 'कार्यत्वस्ये 'ति शेष इति पूर्ववत् । इदमुक्तम्- रसस्य चर्वणाऽऽस्वादविशेषः । स च न सर्वकालिकः स्यादेतस्याविर्भवनतिरोभवनशीलत्वात् । तदिति चर्वणायाः काय्र्यत्वं लक्षणया स्वीक्रियते । एवं च - रसस्य चर्वणामात्रस्वरूपभूतत्वादत्र कार्यत्वम् । रसश्च रत्यादिरेवेति रसस्य कार्यत्वेऽङ्गीकृते रत्यादेरपि कार्यत्वम् । अत एवाहुस्तर्कवागीशा:' रत्यादीति । रत्यादि (भाव) विषयावच्छेद इत्यर्थः । ' इति । एवं च - ' रत्यादिभागे' इति काचित्कः पाठोsपि सङ्गच्छते । न च रसावस्थायां रत्यादिश्चर्वणातो व्यतिरेकेणावतिष्ठते, न वाऽनादिवासनापरिणतिरूपो नेति वक्तुं शक्यः; युक्तं चैवं यथोक्तम् । इति । ननु ' विभावादिसंयोगाद्रत्यादयो रस' इति मते रत्यादीनां ज्ञानाभिन्नत्वं स्वीकृत्य रसावस्थायां स्वप्रकाशत्वं मिलितानामेवैषां रसावस्थां स्वीकृत्य रसस्याखण्डत्वं चोपपाद्यतां नाम, किन्तु - 'स्वप्रकाशानन्दचिन्मयः ।' इति मते न रसस्य स्वप्रकाशत्वाद्युपपादयितुं शक्यम्, विजातीयानां चिदानन्दचमत्काराणामैक्यानुपपत्तेः । तदिति रसस्य चिन्मयत्वादिखीकारे कथं स्वप्रकाशत्वादीत्युपपाद्यतामिति चेदूर मित्यप्युक्तमित्याह - "सुखादितादात्म्याङ्गीकारे सुखादिनाऽऽनन्दप्रकाशाभ्यां तादात्म्यमभिन्नत्वमेकत्वमिति यावत्तस्य स्वीकारस्तस्मिन्निति तथोक्ते । अन सतिसप्तमी । यदि रस आनन्दमात्रस्वरूपश्चमत्कारैकप्राण इत्येवं स्वीक्रियते तति भावः । च । आस्माकी मस्माकमियमिति तां तथोक्ताम् । सिद्धान्तशय्यां सिद्धान्त एव शय्या तामिति तथोक्तम् । अधिशय्य । दिव्यमानन्दमात्रानुभावकतया शुद्धं स्वर्गे वा भवम् । वर्षसहस्रम् । 'कालाध्वनोरत्यन्तसंयोगे । २।३।५ इति द्वितीया । अत्र सहस्रशब्दोऽनन्तवाचकः । तथा च - अनन्तवर्षपर्यन्तमित्यर्थः । प्रमोदनिद्रां प्रमोदेन निद्रेति ताम् । उपेया यायाः । अयम्भावः - रस आनन्दाद्यभिन्न इति त्वस्माकं सिद्धान्त एवेति यद्येवमङ्गीक्रियते तर्हि न कोsपि त्वां विजेष्यत इति निर्भरं सुखमनुभव । आनन्दचमत्कारादेश्च रमणीयतावशात् क्षणेक्षणे विलक्षणव्यपदेशमात्रत्वं, न तु तत्खतोऽनेकत्वं येन रसस्याखण्डत्वं व्यपहन्येत । तस्मादखण्ड एवायं रसः । इति ।" इति । च । 'उक्तमन्यै 'रिति शेषः । प्रमाणान्तरेणापि रसस्य स्वप्रकाशत्वं प्रदर्श्य प्रकरणमुपसंहरति- 'प्रमात्राऽ'नुभवकर्त्रा 'प्रमया चे 'ति शेषः । प्रमः च चर्वणारूपवेति चर्वणरूपया प्रमया चेत्यर्थः । अभिन्नः । अपि । वासनोपनीतरत्यादितादात्म्येन वासनया संस्कारेणोपनीतो यो रत्यादिस्तदभेदेनेत्यर्थः । 'विशिष्ट' इति शेषः । स रस इत्यर्थः । गोचरीकृतः 'प्रमाने 'ति पूर्वेण । अयम्भावः - प्रमात्र भिन्नः प्रमाऽभिन्नोऽपि च रसो वासनोपनीतरत्यादिरूपेण प्रमात्रा खानुभवानतिरिक्ततयाऽनुभूयते । इति ।' इति । च । 'उक्तमन्यै' रिति शेषः । ननु ज्ञानमनुव्यवसायरूपमेवाथ कथं स्वप्रकाशमित्याक्षिपतः प्रत्याक्षिपति - ज्ञानस्य । स्वप्रकाशत्वम् । अनङ्गीकुर्वतां ये नाङ्गीकुर्वन्ति तेषामित्यर्थः । उपरि मते । वेदान्तिभिर्ज्ञानस्य स्वप्रकाशत्वानङ्गीकारेण स्वसिद्धान्तस्य सर्वथा दानिं पश्यद्भिरिति भावः । एव । दण्डो दोषः । निपातनीय उपन्यस्तव्यः । दोषश्च - ज्ञानस्यानुव्यवसायेन तस्याप्यपरे ति ग्रहेऽनवस्थापात एवेति बोध्यम् । अथ निरुक्तकारिकार्थं सुगमयन्नाह - अस्य रसस्य । तादात्म्याज्ज्ञानतादात्म्यात् । एव । अखण्डत्वं विभावादित्यादिपार्थक्यावगाहिज्ञानाविषयत्वम् । अत एव स्वप्रकाशत्वं चेति भावः । 'सिध्यति '