________________
साहित्यदर्पणः।
[तृतीयःननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाऽखण्डत्वमित्याह६४ रत्यादिनितादात्म्या-देव यस्माद्रसो भवेत् ।
ततोऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥५२॥ पदि रस्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्येत् , न च तथा; तादात्म्याङ्गीकारात् ।
यदुक्तम्-'यद्यपि रसानन्यतया चर्वणाऽपि न कार्य्या, तथाऽपि कादाचित्कतया कार्यत्वअथास्य खप्रकाशत्वमखण्डत्वं च साधयितुमुपक्रमते-नन्वित्यादिना ।
नन । यदि। मिलिता विभावादिभिः समं सम्पृक्ताः । रत्यादयः स्थायिनो भावाः । रसाः शृङ्गारहास्याद्याः । तत् तर्हि । कथम् । स्वप्रकाशत्वं स्वयं प्रकाशन्त इति स्वप्रकाशा इति तेषां भावस्तत्त्वम् । 'सम्भवतीति शेषः । कथम् । था। अखण्डत्वं न खण्डोऽवयव विभागो येषां तेषां भावस्तत्त्वमिति तथोक्तम्। 'सम्भवती'ति शेषः । अयम्भावः-३६ 'सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मय' इत्यनेन रसानामखण्डत्वं स्वप्रकाशत्वं च यदभिहितं तत्र स्वप्रका. शत्वं नाम स्वस्वरूपज्ञानविषयत्वम् , अखण्डत्वं पुनरेकरूपत्वम् , एते च रत्यादेर्न सम्भवतः मनोज्ञेयत्वादनेकत्वाच्च । इति श्तीत्याशङ्कय । आहोत्तरयितुमि ति शेषः । ६४ रत्यादिरिति ।
६४ यस्मात् । ज्ञानतादात्म्याज्ज्ञानं विभावादिसंवित्तस्य तादात्म्यमभिन्नता तस्मादिति तथोक्तात् । 'तादात्म्यं स्यादभिन्नता।' इति गोपालः । अत्र ल्यपो लोपे पञ्चमीति विभावादिसंविदभिन्नता प्रतिपद्येत्यर्थः । रस्यादिः 'स्थायीभाव' इति शेषः । एव । रसः। भवेत् । ततस्तस्माद्विभावादिसंविदभिन्नस्यैव रत्यादे रसात्मताऽङ्गीकारादिति भावः । अस्य रसस्य । स्वप्रकाशत्वं पराप्रकाश्यत्वम् । च तथा । अखण्डत्वम् । सिध्यति सम्पद्यते। अयम्भाव:-चिदवच्छिन्नो रत्यादी, रत्याद्यवच्छिन्ना चिदेव वाऽवच्छिन्नत्वावच्छेदकत्वावच्छेदका निराकृत्य रसरूपेण सम्पद्यते । तथा च-चिदभिन्नो रत्यादी, रत्याद्यमिन्ना वा चिदेव रस इति स्थितम् । चिच्च ज्ञानं, तत्स्वप्रकाशमखण्डं चेति वेदान्तसिद्धान्तः । तस्मादस्य स्वप्रकाशत्वमखण्डत्वं चेति ॥५२॥
तदेवोपपादयति-यदीत्यादिना ।
यदि। रत्यादिकं स्थायी भावः । प्रकाशशरीराप्रकाशो विभावादिज्ञानं स एव तस्य वा शरीरं तस्मात् । अतिरिक्तं भिन्नम् । स्यात् । तदा । एव । अस्य रसात्मनो रत्यादिकस्येत्यर्थः । स्वप्रकाशत्वमुपलक्षणेनाखण्डत्वं चेत्यर्थः । न नैव । सिध्येत् । न च न तु । तथा 'रसात्मनो रत्यादिकस्वप्रकाशशरीरादतिरिक्तत्वम्' इति शेषः । कुत इत्याह-तादात्म्याड्रीकाराव विभावादिसंविदोऽभिन्नत्वाङ्गीकारात् । अयम्भावः-यदि चिद्रत्याद्योरभेदमनङ्गीकृत्व रत्यादी रस इतिनाङ्गयकरिष्यत, तर्हि रसस्यापि स्वप्रकाशत्वमखण्डत्वं च नाङ्गयकरिष्यते ति, चिच्च स्वप्रकाशाऽखण्डा च; तदिति तथाभूतो रत्यादी रस इति स्थितौ रसः स्वप्रकाशोऽखण्डश्च । इति ।
उक्तमर्थ द्रढयितुं प्रवृत्तोऽनुषङ्गेण 'रसस्य स्वप्रकाशत्वाद्यङ्गीकारे तदनुयोगिनः चर्वणस्यापि स्वप्रकाशत्वायेव युज्येत, न चैवं युक्तम्, “६२ निष्पत्त्या 'चर्वणस्यास्य निष्पत्तिः" इत्ययुक्तत्वापत्तेः; इत्याशङ्कामप्यपनेतुमाहयदुक्तमित्यादि।
यद् यतः । उक्त 'माचाय्य 'रिति शेषः । 'यद्यपि 'सिद्धान्तपक्षे' इति शेषः। रसानन्यतया रसस्यानन्यताऽभिन्नता तया तथोक्तया । नान्या भिन्नत्यनन्या। चर्वणाऽऽखादः। अपि किं पुना रस इति भावः । कार्या कार्यरूपा । न नैवास्ति । इदमुक्तम्-रसचर्वणयोराखादमात्ररूपत्वादभिन्नत्वमिति चर्वणाया अपि न केवलं रसस्य, कार्यव्यतिरिक्तत्वमुपपद्यते । कार्यव्यतिरिक्तत्वं नाम स्वप्रकाशत्वमखण्डत्वं वा इति । तथाऽपि । कादाचित्यतया कदाचिद्विभावादिरूपायां चित्तवृत्तौ सत्यामाविर्भवति, असत्यां पुनस्तस्यां तिरोभवतीति कृत्वा कस्मिंश्चित्समये भवतीति कादाचित् तस्य भावस्तत्ता तयेति तथोक्तया। 'शरदः कृतार्थते' तिवत्सामान्ये नपुंसकम् । कार्यत्वं कार्यरूपत्वम् ।