________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । ६२ निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः। यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं, तथाऽपि तस्य कादाचित्कतयोपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते।
६३ अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥५१॥ तस्य रसस्य । आदिशब्दादलक्ष्यत्वादि । व्यपदेश्यः । स्वपूर्वोपस्थितेन रत्यादिना भेदाग्रहात्तत्तद्रत्याद्यन्यतरत्वेनैकत्वाध्यवसायाद्वा व्यङ्गयो वर्णनीयश्चेत्येवमेवायमनिवचनीयः । अवच्छादकं दुष्यन्तत्वादिकमप्यनिर्वचनीयमेव । अवच्छादकत्वं च रत्यादिविशिष्टावगमे विशेष्यतावच्छेदकत्वम् । इति । 'एवमपि भावनारूपदोषविशेषमहिनैव दुष्यन्ताद्यभेदावगमे जायमाने शकुन्तलादावगम्यात्वावगमे च प्रतिबध्यमाने किं काव्यव्यापारात् किं वाऽनिर्वचनीयख्यातेः ।' इति 'विभावादीनां संयोगाद्भावनाविशेषाद्रसस्य निष्पत्तिरुत्पत्तिः ।' इति त्वाधुनिकाः, एषां चायमभिप्रायः-व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानम्युपगमेऽपि भावनारूपदोषविशेषस्य महिना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदाभ्युषगमो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः । स्वानादिस्तु तादशाभ्युपगमो न काव्याथंभावनाजन्मा, तदिति न स रसः, तेन न तत्र तथाविधाहादापत्तिः । न चैवमपि स्वात्मनि अविद्यमानस्य रत्यादेरनुभवः कथमिवेति वाध्यम्, न ह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादनस्य रसविषयकम्यवहारस्तु रत्यादिविषयकत्वालम्बनः । इति ।
तदेवं व्याख्यातृवैचित्र्येण व्याख्यानवैचित्र्येऽपि 'संयोगा'दिति पञ्चमी हेतावित्यत्र न वैचित्र्यम्, तत्त्वं च कारकत्वं ज्ञापकत्वं वा स्यात्, तद्रसः कार्यो ज्ञाप्यो वाऽवश्यं मन्तव्यः । न चेष्टापत्तिरिति वक्तुं शक्यम्, पूर्व तत्त्वस्य निराकृतत्वात् ; इति चेदभिधीयते-६२ निष्पत्त्या... इत्यादिना ।
६२ चर्वणस्यास्वादनस्येति भावः । निष्पत्त्या सिद्धया । अस्य रसस्य । उपचारत उपचारेणारोपेणेति यावत् । निष्पत्तिः सिद्धिरुत्पत्तिरिति यावत् । 'बोद्धेव्येति शेषः । रसचर्वणयोरभिन्नत्वात्तयोरेकतरस्य निष्पत्त्याऽन्यतरस्य निष्पत्तिारति 'निष्पत्त्ये त्यत्राभेदे तृतीया । न च 'तथाऽपि रसस्य कायंत्वमतिरोहितम्' इति वाच्यम् , उपचारेण तथास्वीकारात् । न वोपचारतो रसस्यैव निष्पत्तिः स्वीक्रियते, न पुनश्चर्वणस्य; अतः कथं न तयोविभेद इति शङ्कथम् । आविर्भावतिरोभावाभ्यां तस्य कादाचित्कत्वं प्रकल्प्योपचरितस्य कार्य्यत्वस्य प्रथमत एव क्रोडीकरणात् ।
एतदेवाह-यद्यपीत्यादिना ।
यद्यपि । रसाभिन्नतया ६१ प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतमित्युक्तदिशा रसेन सममैक्येनेति भावः । चर्वणस्यास्वादनस्य । अपि न परं रसस्येति भावः । कार्यत्वमुपलक्षणेन ज्ञाप्यत्वमपीति बोध्यम् । न सिद्धयति' इति शेषः । रसस्य कार्यत्वं ज्ञाप्यत्वं वा दूरमास्तां, किन्तु तदभेदेन चर्वणस्यापि नेति भावः । तथापि । तस्य चर्वणस्य । कादाचित्कतया कदाचिदावरणभङ्गदशायां भवतीति कादाचित्कं तस्य भावस्तत्ता तयेति तथोक्तया । 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् ।' इत्युक्तदिशा पुण्यभोगावसर एवाविर्भावादन्यदा च तिरोभावासाभिनतया कल्पितेन कादाचित्कत्वेन हेतुनेति भावः । उपचरितेनारोपितेन न तु वास्तवेन । कार्यत्वेन । इदमुपलक्षणं 'ज्ञाप्यत्वेने त्यस्यापीति बोध्यम् । अभेदे तृतीया। कार्यत्वमुपलक्षणेन ज्ञाप्यत्वं चेत्यर्थः । उपचर्यते ।
ननु भवतु रसस्यैवं कार्यत्वं ज्ञाप्यत्वं वोपचरितम् , किन्तु कथं नास्य वाच्यत्वाद्यपि विभावादिसंयोगात्मकस्यैतदुपपत्तौ बाधाभावात् , प्रत्युत युक्तत्वादित्याशङ्कयाह-६३ अवाच्यत्वादिकमित्यादि।
६३ तस्य रसस्य । अवाच्यत्वादिकम् । आदिपदेनालक्ष्यत्वमतात्पर्य्यविषयत्वं चेति बोध्यम् । व्यञ्जनरू. पणे व्यञ्जनस्य व्यञ्जनाया रूपणं निरूपणं यत्र तत्रेति तथोक्ते पञ्चमपरिच्छेदे इति भावः । वक्ष्ये प्रतिपादयिष्ये ॥५१॥
अथ सूत्रस्थस्य कठिनाशरूपस्य तस्ये त्यादेः पदस्याथै दर्शयति-तस्येत्यादिना ।
तस्य 'इत्यस्येति शेषः । रसस्य इत्यर्थः' इति शेषः । आदिशब्दा ‘दवाच्यत्वादिक' मित्यादिपदादित्यर्थः । अलक्ष्यस्वाधलक्ष्यत्वं तात्पाविषयत्वं च । इत्यों बोध्य' इति शेषः ।