________________
११२
साहित्यदर्पणः ।
[ तृतीय:
प्रकाश्यन्ते, उद्रेकश्च खेतराव भिभूयावस्थानम् । तथा च - 'प्रत्यासन्ना नटो नायकादिः सामाजिकश्चेति त्रयः । तत्राद्यद्वयगतत्वेन न रसप्रतीतिः, ताटस्थ्येन तस्यामनास्वाद्यत्वात्, अन्त्यगतत्वेन तु तस्या असम्भव एव । न हि शकुन्तलायाः सामाजिकान् प्रति विभावत्वम् । विभावमन्तरेणानालम्बनस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणविभावत्वावच्छेदकमत्राप्यस्तीति वाच्यम्, अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकस्य विभावत्वावच्छेदककोटाववश्यं निवेश्यत्वात् । अन्यथा स्वस्रादेरपि कान्तात्वादिना तत्त्वापत्तेः । एवमशोध्यत्वकापुरुषत्वज्ञानविरहस्य तथाविधस्य करुणादौ । तादृशज्ञानानुत्पत्तिस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरा दुरुपपादा | स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेन्न नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्व कापुरुषत्वादेर्वैधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबाधस्यैव दुरुपपादत्वात् । अथ केयं रसप्रतीतिः । प्रमाणान्तरानुपस्थित्या शाब्दीति चेन्न व्यवहारिकशब्दान्तरजन्यनायक मिथुनवृत्तान्तावगमानामिवास्या अप्यनास्वाद्यत्वापत्तेः । नापि मानसी, चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्यात् । न च स्मृतिरूपा । पूर्व तथाऽननुभवात् । अतः - शब्दस्याभिधावत् काव्यनाट्ययोर्भावकत्वं भोजकत्वं चेति व्यापारद्वयं करूप्यम् । तत्राभिधया निवेदिताः पदार्था आद्येन व्यापारेणागम्यात्वादिरसविरोधिज्ञानप्रतिबन्धकद्वारा कान्तात्वादिरसानुकूलपुरस्कारेणावस्थाप्यन्ते । एवं च - साधारणीकृतेषु दुष्यन्तशकुन्तलादेशकालवयोदशादिषु सत्सु सति पङ्गौ च तस्य व्यापारस्य महिमनि द्वितीयेन व्यापारेण निगीर्णयो रजतमोगुणयोरुद्विक्तसत्त्वजनितेन निजचित्स्वभाव निर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो रत्यादेरास्वाद एव रसनिष्पत्तिपदवाच्यः । सोऽयमास्वादोऽपि विषयसंवलनाद्ब्रह्मास्वादसविधवर्त्ती । इति । एवमपि लक्षणाप्रयोजनव्यञ्जकतया एकत्र सत्यभिधानियन्त्रणेऽर्थान्तरव्यञ्जकतया वक्तृवैशिष्ट्यादिसाहाय्येन तत्तदर्थावगमकतया सिद्धेन व्यञ्जनाव्यापारेणैव मायकल भोजकत्वव्यापारयोर्गतार्थत्वेऽनयोः पुनः कल्पने प्रमाणाभावो गौरवापत्तिश्च ।' इति स्थायिनां विभावादिभिः साकं संयोगाद् व्यङ्गव्यञ्जकत्वरूपात् सम्बन्धाद् विभावादीनामेव वा परस्परं संयोगान्मेलनाद्रसस्य निष्पत्तिरभिव्यक्ति: ।' इति प्राच आलङ्कारिकाः, एषामयं पुनरभिप्रायः - लोके प्रमदादिभिरालम्बनकारणैश्चन्द्रिकादिभिरुद्दीपनकारणैरश्रुपातादिभिरनुभावपदवाच्यैः काय्यैश्चिन्तादिभिर्व्यभिचारिपदवाच्यैः सहकारिभिश्च स्थायिनो रत्यादिभावस्यानुमितिविषये परिशीलनेन झटितिप्रवृत्तिमतां सामाजिकानां प्राग्वासनयाऽन्तर्निविष्टः काव्ये नाट्ये च गुणालङ्कारयोगेन कायिकवाचनिकसास्विकाहाय्र्यरूपेणाभिनयेन च तैरेव कारणादिव्यपदेशहानेन विभावनानुभावनव्यभिचारणात्मकव्यापारवत्तया लोकोत्तर विभावानुभावव्यभिचारिपदाभिधेयैः 'ममैवैते, 'शत्रोरेवैते, उदासीनस्यैवैते' इति सम्बन्धिविशेषस्वीकारनियमस्य 'न ममैवैते' न शत्रोते, न वोदासीनस्यैवैते' इति सम्बन्धिविशेषपरिहार नियमस्य चानवगमाच्छकुन्तलात्वादिविशेष्यतावच्छेदकमपहाय कान्तात्वादिना प्रतीतेरभिव्यक्तो रत्यादिः स्थायी तत्तदात्मनिष्ठोऽपि विभावादिसाधारण्यबलासानुभावावसरे विगलितपारमितप्रमातृत्वादिनिजधर्म्मतया प्रादुर्भूतेतरावगमविधुरापरिमितभावेन प्रमात्रा संवादकारिणा प्रमातृविशेषसम्बन्धाग्रहरूपेण साधारण्येन स्वाकार इवाभिन्नोऽपि प्रत्यक्षीकृतश्चर्व्यमाणैकप्राणतया चर्वणोत्पत्तिविनाशयोरुत्पत्तिविनाशशीलत्वेन प्रतीयमानो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर व परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् इतरत् सकलमिव तिरोदधब्रह्माखादमिवानुभावयन् लोकोत्तरचमत्कारकारी शृङ्गारादिव्यपदेश्यो रसः । तत्र तावत् काव्यपदेभ्यस्तत्तदर्थोपस्थितिः, ततो यथोपस्थितविभावादिविषयो वाक्यार्थावगमस्ततो गुणालङ्काराभिनयादि, ततो रत्यादिवासनावतः सामाजिकस्य साधारण्येन विभावाद्यवगमस्तेन साधारण्येनैव च विभावादिसंवलितरत्याद्यवच्छिन्नचिदानन्दाव रणभङ्गात्प्रकाशमानानन्दचिद्विषयो विभावादिसंवलितो रत्यादिस्थायिभावो रसः । इति । ' नैतदपि स्थाने, भावनामन्तरा केवलेन व्यञ्जन. व्यापारेण विभावादीनां साधारण्यं दुरुपपादम् तस्माद्भावनारूपदोष विशेषस्यावश्यं कल्पनीयस्याकल्पना 'दिति विभावादीनां संयोगाद्भावना विशेषरूपाद्दोषाइसस्यानिर्वचनीयदुष्यन्तादिरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः ।' इति नव्याः, एषां चायमभिप्रायः- काव्येषु नाट्येषु च कविभिर्नटेश्च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादिषु शकुन्तलादिरत्यादिषु गृहीतेषु च सामाजिकसहृदयतोल्लासितस्य भावनारूपस्य दोषविशेषस्य महिना कल्पितदुष्यन्तत्वाद्यवच्छादिते स्वात्मन्यज्ञानावच्छिन्ने] शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिग्व रसः । अयं च कार्यों दोषविशेषस्य, नाश्यश्च तनाशस्य, खोत्तरभाविनाऽलौकिकाहादेन सम्भेदाग्रहात्सुख
सकलसहृदय