________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
१११ ननु यदि रसो न कार्य्यस्तत कथं महर्षिणा 'विभावानुभाषव्यभिचारिसंयोगाद्रसनिष्पत्ति' रिति लक्षणं कृतमित्युच्यते-६१
अथ रसस्य सिंहनिरीक्षणन्यायेन स्वरूपं परीक्षते-नन्वित्यादिना ।
ननु । यदि। रसः शृङ्गारादिव्यपदेश्य आस्वादविशेषः । कार्य उपलक्षणेन ज्ञाप्यश्च । तत्तर्हि । महर्षिणा भरताचार्येण । 'विभावानुभावव्यभिचारिसंयोगाद्विभावानुभावव्यभिचारिणां संयोग: परस्परं मेलनं तस्मात् । रसनिष्पत्ती रसस्य निष्पत्तिरुत्पत्तिः।' इतीत्येतत् । लक्षणं 'रसस्येति शेषः । कथम् । कृतम्। इत्तीत्यतः । उच्यते-६१ निष्पत्त्येत्यादि।
अत्रेदं बोध्यम्-'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः।' इति रस लक्षणलक्षकं मूलभूतं भरतसूत्रम् , नानाविधशेमुषीणां वैचित्र्येण नाना व्याचक्षते चैतदाचार्य्याः, तथाहि-'स्थायिभावानां ललनाऽऽदिभिरालम्बनरूपैस्यानादिभिरुद्दीपनरूपैश्च विभावैः स्तम्भस्वेदादिभिः कटाक्षभुजोत्क्षेपादिभिश्च सात्त्विकासात्त्विकैरनुभावैरुत्कण्ठादिभिर्व्यभि. (स) चारिभिश्च सहकारिरूपैः सह संयोगात् क्रमेणोत्पाद्योत्पादकभावरूपाद गम्यगमकभावरूपात् पोष्यपोषकभावरूपाच सम्बन्धादसस्य निष्पत्तिः क्रमेणोत्पत्तिरभिव्यक्तिः पुष्टिश्च भवती' त्येवं मीमांसकाः, एषां चायमभिप्रायः-'ललनादिभिरालम्बनविभावैर्जनितः, उद्यानादिभिरुद्दीपनविभावैरुद्दीपितः, स्तम्भस्वेदादिभिः कटाक्षादिभिश्चानुभावैः प्रतीतियोग्यः कृतः, उत्कण्ठादिभिव्यभिचारिभिश्च परिपोषितः स्थायी रत्यादिौवो रामादावनुकायें नाटयेनाभिनेये रसः, नटे तु सादृश्यानुसन्धानवशादारोप्यमाण: सामाजिकानां चमत्कारकारणम् । यथा हि-ससत्त्वेऽपि तत्तयाऽवलोकिताया रजोरपि भयं जायते, तथा दुष्यन्ताद्यसत्त्वेऽपि तत्तयाऽवलोक्यमानादपि नर्तकादभिनयनैपुण्येन शकुन्तलादिविषयानुरागरूपा दुष्यन्तादिरतिस्तनिष्ठेव प्रतीयमाना सामाजिके चमत्कारं समर्पयन्त्येव रसपदवीमधिरोहति । न च 'सादृश्यस्य भेदगर्मितत्वात्सति बाधे कथं दुष्यन्ताद्यारोप' इति शङ्कथम् , भेदस्य नर्तकनैपुण्यदोषेणाग्रहणात् ।' इति। 'दुष्यन्तादावेवानुकार्ये रसनिष्पत्त्या सामाजिके रसनिष्पत्त्यभावात्तत्र चमत्कारो न जायेत' इति 'विभावादिभिरभिहितखरूपैः सहानुमायानुमापकभावरूपात्संयोगात्सम्बन्धाद्रसस्य निष्पत्तिरनुमिति:।' इत्येवं नैयायिकाः, एषां चायमभिप्राय:-दुष्यन्तोऽये शकुन्तलाविषयकरतिमान् शकुन्तलाऽऽलम्बनोद्यानोद्दीपनविभावस्तम्भाद्यनुभावोत्कण्ठादिव्यभिचारिभावसम्बन्धित्वात् । 'यो हि स्वविभावत्वे सत्यनुभावव्यभिचारिभाववान् स तद्रत्याद्यन्यतमभाववान्' इति यत्तद्भ्यां सामान्यतोव्याप्तिः। 'योन स नैवम्' इति व्यतिरेकव्याप्तिा । इतीयमेवानुमितिः सचमत्कारप्रतीत्यात्मिका चर्वणा । एनया च विषयीक्रियमाणो रत्यादिः स्थायीभावो रसः । चर्वणा च सामाजिकानां, तस्मादेतेष्वेव रस इति व्यवहारः । न च साक्षात्कार एव चमत्कारभूमिः, न त्वनुमितिः । अनुमीयमाने सुखादावपि तत्त्वापत्तरिति वाच्यम्, चमत्कारास्पदवस्तुमहिमवशादनुमीयमानत्वेन रत्यादिस्थायिनामनुमेयान्तरवैलक्ष्यण्यात् । न च तथाऽपि नटे रत्यादीनामवर्तमानत्वाद्वाधाऽवतारे कथमनुमितिरिति शङ्कयम्, तेषामवर्तमानत्वनिश्चयावर्त्तमानत्वात् स्थायिरूपेणानुमानस्य च निर्बाधात् । इति। 'एवमपि सामाजिके रसनिष्पत्त्यभावेन चमत्कारानुभवाभाव एव । न च चन्दनाद्यारोपश्चमत्काराय, किन्तु तत्सम्बन्ध एवेति सुखमपि नारोप्यमाणं तथाभूतम्, अपि तु वस्तुतो विद्यमानमेवेति चमत्कारकारणमन्यदेवेति 'स्थायिनां भोज्यभोजकरूपात्संयोगासस्य निष्पत्ति क्तिर्भवति ।' इति साह्यविदः, एषां चायमभिप्राय:----शब्दात्मनः काव्यस्य त्रयोऽशाः, ते च 'अभिधा भावना चैव तद्भोगीकृतिरेव च' इत्युक्तरभिधा भावना भोगश्चेति । एषामप्यभिधायकत्वं भावकत्वं भोजकत्वं चेति व्यापारत्रयम् । एतदपि वाच्यं, रसादि, सामाजिकविषयम् । तत्राभिधा निरन्तरार्थगता सान्तरार्था चेति द्विधा, एतेन लक्ष्यस्यापि ग्रहणम्, एतस्य मुख्यार्थबाधजन्यविच्छित्त्युपस्थित्या सान्तरार्थत्वात् । भावना च साधारणीकरणम्, अनया हि सस्थायिका विभावादयः साधारणीक्रियन्ते । एतेषां साधारण्यं च विशेष्यत्वप्रकारकज्ञानविरहेण तत्तत्साधारण्याध्यवसायरूपम् , यथा शकुन्तलायां कान्तात्वमात्रप्रतिपत्तिः । स्थाप्यनुभावादीनामपि साधारण्यं विशेषानवच्छेदेनैव । अन्त्यं तु व्यापारद्वयं नाट्येऽपि। एवं काव्ये नाट्ये च भावकत्वव्यापारेण साधारणीकृतैविभावादिभिर्भोजकत्वव्यापारसहकारेण तथाकृत एव स्थायी भावो भुज्यते, भोगश्च सत्त्वीद्रेकात्प्रकाशते य आनन्दस्तन्मय्यनन्यालम्बना या संवित्तत्वरूपो लौकिकसुखानुभवविलक्षणः । सत्त्वरजस्तमोगुणानामुद्रेकेण कमात्सुख, दुःख, मोहाः