________________
साहित्यदर्पणः ।
तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरूपणप्रकारस्येत्याह५९ तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।
११०
[ तृतीय:
--
तत् किं प्रमाणं तस्य सद्भाव इत्याह
६० प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥ ५० ॥ चर्वणाऽऽस्वादनम् । तच्च - 'स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः' इत्युक्तप्रकारम् |
अत्रेदमपि बोद्धव्यम्--' एवं तावद्रसो न कार्यो, न ज्ञाग्यो, न नित्यो, नानित्यो, न भविष्य, न भूतो न भवन्न निर्विकल्पक ज्ञानप्रात्यो, न सविकल्पक ज्ञानप्राह्यो, न परोक्षो, न वा प्रत्यक्षः । इत्युक्तदिशा तस्योभयभिन्नत्वं प्रतिपादितम् । अथ 'विरुद्धयोरेकतर निषेधेऽपरस्मिन् पर्यवसान' मिति नियमेन तस्योभयात्मकत्वमपि बोध्यम् । यथा तस्य नित्यत्वनिषेधेऽनित्यत्वमनित्यत्वनिषेधे च नित्यत्वमिति दिक् । तदुक्तम्- ' उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववलो
कोत्तरतामेव गमयती 'ति ।
नन्वेवमलौकिकीय प्रक्रियेत्याशङ्कय शङ्कोत्तराभ्यामिष्टापत्तिमाह तदित्यादिना ।
तत्तर्हि । अस्य रसस्य । अश्रुतादृष्टपूर्वनिरूपणप्रकारस्य न श्रुत इत्यश्रुतः, न पूर्वे दृष्ट इत्यदृष्टपूर्वः, तादृशो निरूपणप्रकारो यस्य तस्य । त्रिपदो बहुव्रीहिः । कीदृक्किंस्वरूपम् । तत्त्वम् । इति कथय । इतीत्यतः । आह-५९ तस्मादित्यादि ।
५९ तस्मादश्रुतादृष्टपूर्वनिरूपण प्रकारकत्वाद्धेतोरित्यर्थः । अयं रसः । सहृदयैर्मनस्त्विभिर्मार्मिकैर्वा । वेद्यो ज्ञेयः । सत्यं निश्चितम् । अलौकिकः । तथा च श्रुतिः - 'पराणि खानि व्यतृणोत्स्वयम्भूः ।' इति । अन्यत्र तादृशं प्रतिपादनं 'च तस्यालौकिकस्य भूषणं न तु दूषणं, लोकोत्तरस्य लोकोत्तरत्वेनैव प्रतिपादनौचित्यात् । अत एवोक्तं प्रकाशकारैः - 'अलौकिकसिद्धेर्भूषणमेतन्न दूषणम् ।' इति ।
एतदेव स्थूणानिखननन्यायेन द्रढयितुमाह-तदित्यादि ।
तत्तर्हि यदि सत्यमज्ञेयत्वादिना रसः कार्य्यादिभ्यो विलक्षण एव तदेति यावत् । पुनः । तस्य तादृशस्य विलक्षणस्य रसस्थेति भावः । सद्भावे । किं किन्नाम । प्रमाणं प्रमीयतेऽनेनेति तथाभूतम् । इतीत्येवं जिज्ञासायाम् । आह-६० प्रमाणमित्यादि ।
६० अत्रास्मिन् रस इति यावत् । स्वाभिने स्वस्माच्चर्वणाख्याद् व्यापारादभिन्नस्तत्स्वरूपभूत इति तस्मिंस्तथोक्ते । चणास्वरूप इति भावः । तथोक्तम्- 'चर्वणैव भगवतीस्वसंवित्स्वस्वरूपादभिन्ने तस्मिन् प्रमाणम् ।' इति । विदुषाम् । चर्वणाssस्वादानुभवविशेषः । प्रमाणम् । मतम् ॥ ५० ॥
चर्वणापदार्थे समवगमयति-चर्वणेत्यादिना ।
चर्वणा चत आस्वाद्यत इति स्त्रीत्वविवक्षायां तथोक्ता । आस्वादनम् । तचर्वणापरपर्यायमास्वादनम् । च पुनः । 'काव्यार्थसम्भेदात् । विभावादिपरिशीलनादित्यर्थः । आत्मानन्दसमुद्भव आत्मनो बुद्धेरानन्दसमुद्भवो विषयान्तरतिरोधानेन बुद्धेरानन्दवृत्तिकतयाऽवस्थानमिति यावत् । स्वादः आस्वादः । ' इत्युक्तप्रकारमितीत्येवमुक्तः प्रकारः सादृश्यं यस्य तत्तथोक्तम् । 'प्रकारस्तुल्यभेदयोः ।' इति मेदिनी । 'बोध्यम्' इति शेषः ।
इदमवसितम् - अलौकिकः खलु रसः, यन्नायं ज्ञाप्यः कार्य्यो वा नित्यो वाऽनित्यो वा भानघान् वाऽभानवान् वा भविष्यन्वा भूतो वा भवन वा निर्विकल्पकज्ञानविषयो वा सविकल्पकज्ञानविषयो वा परोक्षो वा प्रत्यक्षो वा; न चायं प्रत्याख्यातुं शक्यते, सहृदयहृदयस्य तत्र साक्षिकतया वर्त्तमानत्वात् । इति ।