________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥ ४७॥ न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते । . तथामिलापसंसर्ग-योग्यत्वविरहान्न सः॥ ४८॥
सविकल्पकसंवेद्यः सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।
५८ साक्षात्कारतया न च । परोक्षस्तत्प्रकाशो ना-परोक्षः शब्दसम्भवात् ॥ ४९ ॥ सचेतसा मार्मिकाणाम् । स्फुटम् । परानन्दमयत्वेन परः परमोऽसावानन्द इति, स एव परानन्दमयस्तस्य भावस्तत्त्वं तेन तथोक्तेन । अत्राभेदे तृतीया। संवेद्यत्वात् संवेदन (ज्ञान) विषयत्वात् । तथा च-परमानन्दत्वप्रकारकसंवेदनविषयत्वाद्धेतोरिति निष्कृष्टम् । अपि । निर्विकल्पकं निर्गतो विकल्पो विभेदसंसर्गो यस्मिन् , तत् । नामरूपजात्यादिविशेषशून्यमित्यर्थः । ज्ञानम् । ग्राहकं विषयतानिरूपकम् । न नैव। इष्यतेऽभिमतं क्रियते । रसग्रहो निर्विकल्पकवरूप इति न वक्तुं शक्यत इति भावः । विभावादिनिष्ठप्रकारतायाः परमानन्दतानिष्ठप्रकारतायाश्च निरूपकस्य रसग्रहस्य निष्प्रकारकं निर्विकल्पात्मकत्वं न सङ्गच्छत इति तात्पर्य्यम् । अथ तर्हि सविकल्पकं ज्ञानं तस्य ग्राहकमिति चेदेतदपि न वाच्यमित्याह-स रस इत्यर्थः । 'चे'ति पाठान्तरम् । तथाऽभिलापसंसर्गयोग्यताविरहात्तथाऽभिलापस्य तथाभूतोऽयं रस इत्यभिधानविषयतायाः संसर्गः सम्बन्ध इति, तस्य योग्यत्वविरह इति तस्मात्तथोक्तात् । सविकल्पकसंवेद्यः सविकल्पकेन ज्ञानविशेषेण संवेद्यो शेयस्तद्विषयीभूत इति यावत्, इति तथोक्तः । न नैव । आस्वादे ज्ञानान्तरासम्भवात् स्वमात्रविषयिण्यां चर्वणायां च नामरूपजात्यादिविशेषोल्लेखायोगाद्रसः सविकल्पकज्ञानस्यापि न विषय इति तात्पर्यम् । एवं च-रसः सर्वथाऽज्ञेयोऽलौकिकश्चेति स्थितम् ॥ ४६ ॥ ४७ ॥ ४८॥
रसस्य सविकल्पकज्ञेयेभ्यो वैलक्षण्यं स्पष्टयति-सविकल्पकज्ञानसंवेद्यानां सविकल्पकज्ञानेन संवेद्यास्तेषां तथोक्तानाम् । नामरूपजात्यादिशालिनामिति भावः । ह्येव । वचनप्रयोगयोग्यता वचनं कथनं तस्य प्रयोगस्तस्य योग्यतेति तथोक्ता । 'अभिधाया अन्यत्र प्रवृत्त्ययोगा' दिति शेषः । रसस्य । तु पुनः । तथा यथा सविकल्पकज्ञानसंवेद्यानां वचनप्रयोगयोग्यता सम्भवति तद्वदिति भावः। न नैव। 'सम्भवतीति शेषः। किन्तु रसस्य यत् सविकल्पकज्ञानसंवेद्यत्वं तन्न तदितरविषयं, वचनप्रयोगयोग्यताया अन्यत्र सत्त्वादत्र च तस्या अभावादिति भावः । अत एव तर्कवागीशा अप्याहुः-'स रसः सविकल्पकज्ञानसंवेद्यः संसर्गावगाहिज्ञानविषयः। प्रागुक्तहेतुद्वयासमतेरस्य सविकल्पकज्ञानविषयत्वमस्त्येव, किन्तु-सविकल्पकवेद्यान्तरादस्य वैलक्षण्यसाधने तात्पर्य्य वेदितव्यम् । स्वप्रकाशकत्वेनापि ज्ञानान्तरमाह्यात्सविकल्पकादस्य वैलक्षण्यं बोध्यम् ।' इति ।
अथास्यालौकिकत्वं ज्ञापयितुं परोक्षत्वापरोक्षत्वे अपि निषेधति-५८ साक्षात्कारतयेत्यादिना।
५८ साक्षात्कारतया साक्षात् क्रियत इति तस्य भावस्तत्ता तयेति तथोक्तया, ऽसंशयमनुभूयमानत्वेन हेतुना। च पुनः । तत्प्रकाशस्तस्य रसस्य प्रकाशो भानमिति तथोक्तः । न नैव । परोक्षः। परोक्षस्य साक्षात्कारासम्भवान्न रसप्रकाशोऽप्रत्यक्ष इति भावः । तर्हि प्रत्यक्ष इति चेनैवंविधोऽपीत्याह-शब्दसम्भवाच्छब्देभ्यः काव्यत्वघटनानुकूलेभ्यः पदविशेषेभ्यः सम्भव इति तस्मात् । न नैव । 'तत्प्रकाश' इति पूर्वेणान्वेति । अपरोक्षः प्रत्यक्षः । नहि शब्दप्रमाणमात्रगम्यानां प्रत्यक्षत्वमिति भावः । यत्तु तर्कवागीशा व्याचक्षते-'साक्षात्कारतयेति । खादनाख्यव्यापारस्य मनःसन्निकर्षत्वाङ्गीकारेण तजन्यत्वादिति भावः ।...शब्दसम्भवात् । काव्यजन्यविभावादिज्ञानजन्यत्वनियमात् । अनेन प्रत्यक्षान्तराद्वैलक्षण्यमेव साधितम् । नतु प्रत्यक्षभिन्नत्वं प्रागुक्तविरोधात् ।' इति, न तत्र रसप्रकाशस्य प्रत्यक्षभिन्नत्वाङ्गीकाराभावः शङ्कयोऽस्यानिर्वचनीयताऽन्यथाऽनुपपत्तेः, किन्तु प्रकारान्तरेणेति विशेषः ॥ ४९ ॥