________________
१०८ साहित्यदर्पणः ।
[तृतीयः५६ न चानादिरनन्तोऽय-मनित्यः सम्भवेद्रसः।
अस्य भानमभानं च चर्वणावशतः परम् ॥ ४५ ॥ चर्वणायां सत्यां निवृत्तायां च रसस्य भानमभानं चाविरुद्धम् * । ५७ नापि भविष्यन् साक्षा-दानन्दमयप्रकाशरूपत्वात् ।
कार्यज्ञाप्यविलक्षण-भावान्नो वर्तमानोऽयम् ॥ ४६ ॥
विभावादिपरामर्श-विषयत्वात्सचेतसाम् । ५६ अनादिर्नादिः पूर्व उत्पत्तिहेतुभूत इति यावत् यस्येति तथोक्तः। अत एव 'नायं कार्य' इत्युक्तम् । अनन्तो नान्तो विनाशो यस्येति तथोक्तः । आवरणभङ्गोत्तरं तथैव खरूपेण प्रकाशमानत्वात् , आवरणस्य च स्वरूपसत्तां प्रत्यकिञ्चित्करत्वात् । एतेन नास्य मायाया इवानादित्वमिति द्योतितम् । अयम् । रसः। च । अनित्यः। न । सम्भवेत् । ननु कथं तर्हि . विभावादिसंवेदनस्यादावन्तेऽयं न प्रकाशते इति चेत् ? अत्र चर्वणैव हेतुरित्याह-अस्य रसस्येत्यर्थः । भानं स्वरूपसत्त्वेन प्रतीतिः । 'विभावादिसंवेदनावसरे' इति शेषः । च तथेत्यर्थः । अभानं स्वरूपसत्त्वेन प्रत्ययाभाव इति भावः। 'विभावादिसंवेदनानवसर' इति शेषः । चर्वणावशतश्चर्वणायाः सहृदयहृदयस्य तदुन्मुखीभवनस्य वश आयत्तत्वं तस्मादिति तथोक्ततः । 'वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ।' इति हैमः । परं केवलम् । चर्वणायां सत्यां रसस्य भानम्, तस्यामसत्यामभानं चेति भावः । इदमुक्तम्-यद्यपि "रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्यएव हि रसः ।" इत्युक्तदिशा प्रकाशात्मक एव रसः । प्रकाशश्च विभावादिसंवेदनादनन्यः । अतश्च विभावादिसंवेदनमेव तत्सद्भावहेतुस्तदभावश्च तदभावहेतुरिति स्थिते विभावादिसंवेदनस्य पूर्वोत्तरभागयोरस्य दर्शनाभावात् तत एव जन्मविनाशयोः कल्पनीयत्वं सङ्गच्छते। तथाऽपि कथं विभावादिसंवेदनं कदाचिदुज्जम्भते, कदाचित् पुनस्तिरोभवतीति मीमांसाव्यतिकरे किमपि नियामकमवश्यं कल्पनीयमित्यध्यवसायः सहृदयहृदयङ्गमः स्यात् । कल्पनीयं पुनर्नियामक चर्वणैव, असौ चावरणभङ्गापरपाया। तथा च-यथाऽऽवरणसद्भावे सूर्यों न प्रतीयते, आवरणभङ्गे पुनर्यथाऽसौ प्रतीयते, तथा रसोऽपि । आवरणसद्भावासद्भावावेवं तदप्रत्ययप्रत्ययौ प्रति कारणे इति सिद्धम् । इति ॥ ४५ ॥
बोधसौकाय चर्वणावशत इति मूलांशकाठिन्यं परिहरति-चर्वणायामित्यादिना।
चर्वणायां भावनाविशेषे। सत्याम्। निवृत्तायामसत्यामिति भावः । च । रसस्य । भानम् । अभानम् । च । अविरुद्धम् । चर्वणायां सत्यां रसस्य स्वरूपसत्तया प्रत्ययः, तस्यां पुनर्निवृत्तायां रसस्य स्वरूपसत्तया प्रत्ययाभावश्च स्थाने एवेति भावः ।
अथ रसस्य भविष्यतत्वं निराकुरुते-५७ नापीत्यादिना ।।
५७ साक्षादानन्दमयप्रकाशरूपत्वात् साक्षादपरोक्षोऽसावानन्द इति, स एवेति साक्षादानन्दमयः, स चासौ प्रकाशो विभावादिसंविदिति, स रूपं यस्य तस्य भावस्तत्त्वं तस्मात्तथोक्तात् । भविष्यन् भविष्यः, न तु साम्प्रतं स्फुरति न वा प्रागस्फुरदित्याकारकज्ञानविषयः । अपि । 'रस' इति शेषः । 'नैष' इति पाठान्तरे तु नाध्याहारापेक्षा । न नेव अत एवं भूतोऽपि नेति स्वतःसिद्धम् । अयम्भावः-नहि साक्षादानन्दमयः सन् प्रकाशमानो यः, स 'भविष्यती'ति वक्तुं शक्यते, वर्तमानकालिकस्य भविष्यत्कालिकत्वेन सति प्रत्यक्ष निर्देशायोगात् । तदिति साक्षादानन्दमयत्वेन प्रत्यक्षसिद्धः प्रकाशात्मा रसो न भविष्यन् न वा भूतः, साक्षादानन्दमयप्रकाशरूपेण तस्य स्फुरषात् । इति । ननु तर्हि वर्तमान इति चेन्नैवंविधोऽपीत्याह- अयं रस इत्यर्थः । 'अपी'ति पाठान्तरम् । कार्यज्ञाप्यविलक्षणभावान्निरुक्तदिशा काय॑भिन्नत्वाज ज्ञाप्यभिन्नत्वाचेति भावः । वर्तमानः । नो नैव । वर्तमानवस्तुनः कार्यज्ञाप्यान्यतरत्वनियमादस्य च तद्विरहान वर्तमानत्वेन निर्देशो ज्यायानिति भावः । न च ततो निर्विकल्पकज्ञानविषय इत्याहतस्य रसस्य । विभावादिपरामर्शविषयत्वाद् विभावादीनां परामर्शः सम्मेलनं विशिष्टवैशिष्ट्यावगाही ग्रह इति यावत् , स एव विषयो यस्य तस्य भावस्तत्त्वं तस्मात्तथोक्तात् । रत्यादिविशिष्टविभावादिसंयोगाभिन्नत्वादिति भावः ।
* ५७ न चेत्यारभ्याविरुद्धमित्यन्तः पाठ उपयुक्तोऽपि प्रायः पुस्तकान्तरे नोपलभ्यते।