________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
१०७ विभावादयो न प्रतीयेरन् । कारणज्ञानतत्काय॑ज्ञानादीनां युगपददर्शनात् । न हि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानं चैकदा सम्भवति । रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेन विभावादिज्ञानकारणकत्वमित्यभिप्रायः।।
५५ नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले हि न भावोऽप्यस्य विद्यते ॥ ४४ ॥ न खलु नित्यवस्तुनोऽसंवेदनकालेऽसम्भवः । विभावादयः। न नैवेत्यर्थः । प्रतीयेरन् । हेतुं स्पष्टयति-कारणज्ञानतत्काय॑ज्ञानादीनाम्। आदिनो त्पत्तिविनाशयोर्ग्रहणम् । युगपत् । एकस्मिन्नेवावसर इति भावः । 'युगपदेकदा ।' इत्यमरः । अदर्शनात् । अयम्भावः-कारणकार्ययोरुत्पत्तिविनाशयो: कारणज्ञानकाय॑ज्ञानयोरुत्पत्तिज्ञानविनाशज्ञानयोश्च युगपददर्शनान्न रसप्रतीतिकाले विभावादिः प्रतीयेत, प्रतीयत इति न, विभावादिज्ञानकारणको हि रसरूपः कार्य्यः । इति । तदेव दृष्टान्तमुखेन स्पष्टयति-हि यत इत्यर्थः । चन्दनस्पर्शज्ञानम् । तज्जन्यमुखज्ञानं तस्य विभावादिस्पर्शस्य जन्यं यत्सुखं तस्य ज्ञानमिति तथोक्तम् । च । एकदैकस्मिन् काल इत्यर्थः । न । सम्भवति। यस्मिन् क्षणे चन्दनस्पर्शज्ञानं जायते तस्मिन् क्षणे यथा चन्दनस्पर्शजन्यसुखज्ञानं न सम्भवति, तथा यस्मिन् क्षणे रसानुभवो जायेत तस्मिन् क्षणे विभावादीनामनुभवो न जायेत, कारणकार्ययोयुगपदनुपपत्तेः । ज्ञानस्य क्षणिकत्वात् विजातीययोर्द्वयोरेकक्षणिकत्वासम्भवाचेति भावः । बोधसौकाय पुनः स्पष्टयति-रसस्य । च पुनः । विभावादिसमूहालम्बनात्मकतया विभावादीनां विभावानु. भावव्यभिचारिणां समूहः समष्टयात्मनाऽवस्थितत्वमेवालम्बनं तदात्मा स्वरूपं यस्य तस्य भावस्तत्ता तयेति तथोक्तया । विभावादीनां समष्टयात्मनाऽवस्थितत्वालम्बनात्मत्वेनेति भावः । एव 'न तु विभावादयः कारणं कारणानि वा यस्य तत्तया'इति शेषः । प्रतीतेः । अत्र 'विभाषा गुणेऽस्त्रियाम् ।' २।३।२५ इत्यत्र 'विभाषे'ति योगविभागात् पञ्चमी । विभावादिज्ञानकारणकत्वम् । न नैव । 'मन्तव्य' मिति शेषः । इति । अभिप्रायः ।
ननु यदि रसो नैवं ज्ञाप्यः कार्यो वा तर्हि किं नित्यः ? इति चेत् । नापि नित्य इत्याह-५५ नो नित्य इत्यादिना।
५५ पूर्वसंवेदनोज्झितः पूर्व प्रत्यभिज्ञायाः पूर्ववर्ति यत्संवेदनं विभावादि संवित् आस्वादानुभवविशेष इति यावत्, यद्वा-विभावादिसंविदः पूर्वं पूर्ववर्ति यत् संवेदनं लौकिकं ज्ञानं तस्मात् उज्झितश्यतो, यदा शून्य इति तथोक्त अत एव-नो नैव । 'अभावे नानो नापि' इत्यमरः । नित्यः 'रस' इति प्रसङ्गानुप्रसक्तम् । अयम्भावः-यद्ययं नित्योऽभविष्यत् तर्हि सर्वदैवैकस्वरूपोऽभविष्यत्, न च तथा; प्रत्यभिज्ञाऽवसरे तदनुभवाद्वा प्राक् तस्याभावात् । इति । ननु ब्रह्मणोऽपि समाध्युत्थानान्तरं समाधितो वा पूर्व न प्रत्ययस्सम्पद्यते तत् किमेतावताऽस्यानित्यत्वमापतितम् ? इति चेत् एवमित्याह-हि यत इत्यर्थः । 'हि हेताववधारणे' इत्यमरः । अस्य रसस्येत्यर्थः । भावः खरूपेणावस्थितत्वमिति भावः । अपि 'किं पुनरप्रतीतत्वमिति शेषः । असंवेदनकाले 'विभावादीना मिति शेषः। तथा च-विभावाद्यसंवेदनावसरे इति निष्कृष्टोऽर्थः । न । विद्यते। इदमाकूतम्-विभावादिसंविदात्मैवायमिति विभावादिसंविदोऽभावेऽस्यापि स्वतोऽभाव एवेति तथोक्तम् । इति ॥ ४४ ॥
उक्तमर्थ स्पष्टयितुमाह-न खल्वित्यादि।
न। खल नैवेत्यर्थः । नित्यवस्तुतः। असंवेदनकाले ज्ञानाभावावसर इति भावः । असम्भवः सद्भावाभावः । 'सम्पद्यत' इति शेषः । तथोक्तम्-'नासतो विद्यते भावो, नाभावो विद्यते सतः ।' इति । इदमुक्तम् यद्यपि ब्रह्मणः सविदभावो भवति, तथाऽपि न तस्य खरूपासत्त्वमिति तस्यास्तां नित्यत्वम्, अस्य तु विभावादिरांविन्मात्रालम्बनत्वात् विभावादिसंविदवध्येव सद्भावो, न संविदोऽभावेऽपि। अस्मादयमनित्य इति। 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यादाविवार्थापत्त्याऽऽपतितमनित्यत्वमप्यस्यानिर्वचनीयत्वं साधयितुमाह-५६ न चेत्यादि।