________________
१०६ साहित्यदर्पणः।
[ तृतीयःयदि पुनर्नटोऽपि काव्यार्थभावनया रामादिसरूपतामात्मनो दर्शयेत् तदा सोऽपि सभ्यमध्य एव गण्यते।
५३ नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः । यो हि ज्ञाप्यो घटादिः स सन्नपि कदाचिदज्ञातो भवति, नह्ययं तथा प्रतीतिमन्तरेणाभावात् ।
५४ यस्मादेष विभावादि-समूहालम्बनात्मकः ॥४३॥
तस्मान कार्य:यदि रसः कार्यः स्यात् तदा विभावादिज्ञानकारणक एव स्यात् । ततश्च रसप्रतीतिकाले उक्तमर्थ निर्दिशति यदीत्यादिना।
यदि । पुनः । नटो नर्तकः । अपि । काव्यार्थभावनया काव्यस्यार्थः प्रतिपाद्यो विभावादिस्तस्य भावना चेतसा तथाभवनं तया तद्वारेत्यर्थः । आत्मनः । रामादिसरूपतां रामादेविभावादेः सरूपता ताम् । समानं रूपं यस्य तस्य भावस्तत्ता । 'ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।' ६३८५ इति सादेशः । दर्शयेत । तदा । स नट इत्यर्थः । अपि । सभ्यमध्ये । एव । गण्यते । वस्तुतस्तु नर्तकस्य रङ्गानुरजनमात्रपरतया विभावादिभावितान्तःकरणताविरहान भवत्येव रसाखादः । अत एव- अपीति सुप्रयुक्तम् ।।
अस्यापरिमितत्वादि साधयितुं प्रवृत्तोऽनुषङ्गेण “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इति भरतसूत्रे पञ्चम्या हेतुत्वेनापतितं ज्ञाप्यत्वं कार्यत्वं च निरसितुकामस्तत्र तावज्ज्ञाप्यत्वं निरस्यति-५३ नायमित्यादिना।
५३ अयं रस इत्यर्थः । स्वसत्तायां खस्य ( रसस्य ) सत्ता स्वरूपसत्त्वं तस्याम् । 'सत्या' मिति शेषः । प्रतीत्यव्यभिचारतः प्रतीतेर्व्यभिचाराभावात् प्रतीतिमन्तरेणानुपलब्धेरिति यावत् । तर्कवागीशास्तु-‘स्वसत्ताया' मित्यत्र षष्ठयर्थे सप्तमी मन्वानाः “षष्टयर्थ सप्तमी। प्रतीति विना स्वावस्थानस्याभावात्" इति व्याचक्षते । ज्ञाप्यो बोधनीयताया विषय इति भावः । न । 'भवतीति शेषः।
तदेव सुस्पष्टमवगमयति-यो हीत्यादिना।
हिंयतः । यः। घटादिः। आदिना पटादेः पदार्थस्य ग्रहणम् । ज्ञाप्यो बोधनीय इति भावः । 'भवती'ति शेषः । स घटादिः पदार्थ इत्यर्थः । सन् विद्यमानः । अपि “किम्पुनरविद्यमान' इति शेषः । कदाचित् 'ज्ञापकसामग्र्यसद्भावे' इति शेषः । अज्ञातः । भवति । नहि नत्वित्यर्थः । अयं रस इत्यर्थः । तथा। 'यथा ज्ञाप्यो घटादि 'रिति शेषः । प्रतीतिम् । अन्तरेण विना । अभावात् सिद्धत्वाभावात् ।।
अयं निर्गलितोऽर्थः-यो यो ज्ञाप्यः स कदाचित् दीपादिसद्भावे प्रतीयते, कदाचिद्दीपाद्यसद्भावे च न प्रतीयते, अयं पुना रसः कदाचिन्न प्रतीयते इति न, न वा कदाचित् प्रतीयत इति च; अस्य प्रतीयमानशरीरत्वात्, प्रतीयमानस्वाभावे पुनरस्य सद्भावस्यैवाशक्यत्वम् । इति ।
एवं ज्ञाप्यत्वं निरस्य कार्यात्वमपि निरस्यति-५४ यस्मादेष इत्यादिना ।
५४ एष रस इत्यर्थः । यस्मात् 'कारणादिति शेषः । विभावादिसमूहालम्बनात्मको विभावादीनां विभावानुभावव्यभिचारिणां समूहः समष्टयात्मनाऽवस्थितत्वमिति यावत् स एवालम्बनं तदात्मा खरूपं यस्येति तथोक्तः । तस्मात 'कारणा' दिति शेषः । 'रसोऽय' मिति शेषः । कार्यः। न 'मन्तव्य' इति शेषः ॥ ४३ ॥
तदेव स्पष्टमवगमयति-यदीत्यादिना ।
यदि । रसः। कार्यः। स्यात् । तदा। विभावादिज्ञानकारणको विभावादीनां ज्ञानं संवित् तदेव कारणं यस्य तादृशः । एव 'न त्वन्यकारणक' इति शेषः । 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रोपदिष्टदिशा निष्पत्तिशब्दस्य चोत्पत्त्यर्थवीकारेण रसप्रादुर्भावप्राक्क्षणे विभावादिज्ञानस्यैव सत्त्वात्तथात्वस्योपपतेरिति भावः । स्यात् । ततस्तस्मात् कारणादित्यर्थः । च । रसप्रतीतिकाले रसस्य स्वरूपसत्त्वावसर इति भावः ।