________________
१०५
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । भनुकर्तृगतत्वं चास्य निरस्यति
५१ शिक्षाऽभ्यासादिमात्रेण राघवादेः सरूपताम् ॥ ४१॥
दर्शयन्नतको नैव रसस्यास्वादको भवेत् ।
किञ्च
५२ काव्यार्थभावनेनाय-मपि सभ्यपदास्पदम् ॥ ४२ ॥
रत्यादेः पारिमित्यादित्वं तस्य स्थादिति भावः । तथाऽऽहुस्तर्कवागीशा:-"एतदिति पारिमित्यादीत्यर्थः । विलक्षणत्वं च तदभावव्याप्यत्वमेव। एवं च-यद्धाभावव्याप्यो यदृत्तिधर्मस्तद्धर्मस्तद्भेदव्याप्य इति नियमः सम्पद्यते। यथा पटवृत्तिधर्मः पटत्वं घटत्वधाभावव्याप्यो भवति, घटत्वधर्मोऽपि पटभेदव्याप्यो भवति । यथाश्रुतं तु न सम्यक् । तथाहियद्धम्मों यबृत्तिधर्मभिन्नस्तद्धमस्तद्भदव्याप्य इति नियमो नोपपद्यते । घटत्वं घटवृत्तिधर्मान्तरविलक्षणम्, न तु घटभेदव्याप्यमिति, व्यभिचारात् । यदि तु यद्वत्तित्वावच्छिन्नप्रतियोगिताको भेदो विवक्ष्यते, तदा नायं दोष इत्यवधेयम् ।" इति।
कुज्झटिकाऽऽकुलिते प्रदेशेऽविद्यमानस्यापि धूमस्याभिमानात् धूमनियतो धूमध्वजो वह्निरनुमीयते, तथा नर्तकेनैव स्वशिक्षाऽभ्यासमहिना सुनिपुणं “ममैवैते विभावानुभावव्यभिचारिणः” इति प्रकाशितैस्तस्मिन्नविद्यमानैरपि तैस्तन्नियतः स स स्थायी भावोऽनुमीयमानोऽपि खवैभवेन सामाजिकानां चेतसि रस्यमानतया चमत्कृतिमादधद रसतां प्रतिपद्यते, तस्मानर्तकेऽनुमीयमानः स स स्थायीभाव एव स स रस इति स्वीक्रियतामिति श्रीशकुकादीनां मते रसस्य नर्तकगतत्वं निराकर्तुमुपक्रमते-अनुकर्तृगतत्वमित्यादिना । ___अस्य रसस्येत्यर्थः । अनुकर्तृगतत्वमनुकर्ताऽभिनेता नर्तक इति यावत् तत्र गतस्तस्य भावस्तत्त्वं तत्तथोक्तम् । नर्तकनिष्ठत्वमिति भावः । च पुनः अनुकार्यगतत्वनिरसनानन्तरमिति यावत् । निरस्यति५१ शिक्षाऽभ्यासादिमात्रेणेत्यादिना । __५१ शिक्षाऽभ्यासादिमात्रेण शिक्षा गुरूपदेशलाभश्चाभ्यासः शिक्षितस्यार्थस्य मुहुरनुष्ठानेन संस्कारातिशयश्चेति तावादी यस्य (नैपुण्यादेः ) सः, शिक्षाऽभ्यासादिरेवेति तेन तथोक्तेन । मात्रपदेन काव्यार्थभावनाव्यवच्छेदः । राघवादेरनुकार्य्यस्य नायकस्येत्यर्थः । सरूपताम् । दर्शयन् । नर्तकः । रसस्य । आस्वादकोऽनुभविता । न । एव । भवेत् । अयम्भावः-नर्तकः केवलं शिक्षाऽभ्यासादिप्रभावेण विभावादेः सादृश्यं प्रकटयितुं प्रभवति, न पुना रसास्वादानुभवितृत्वम्, स्वस्य सहृदयत्वमप्राप्यैव तत्र तथा प्रवृत्तत्वात् । सामाजिकानां च सहृदयत्वेऽपि तस्य तस्य स्थायिनो भावस्यास्वीकारात् स्फुटं रसाभावः । अत एवाहुः-“न तावत् नर्तकनिष्ठतयाऽनुमीयते, रामदुष्यन्ताद्यभावेन तद्रत्यादेरपि अभावादसतः सत्तयाऽनुमानागोचरत्वात, रामदुष्यन्तादिनिष्ठस्य कथमपि नर्तकनिष्ठतयाऽनुमितस्यापि रत्यादेः सामाजिकेऽभावात् तेन च चमत्कारासम्भवाच्च । न रामदुष्यन्तादिनिष्ठतया जायते विभावादेर्वास्तविकाभावात् , न वा सामाजिकनिष्ठतयाऽभिव्यज्यते, सिद्धस्यैव व्यङ्गयत्वसम्भवात्तद्रसस्य चासिद्धत्वात् ।" इति ॥४१॥
ननु यदि सहृदय एव कदाचिन्नतको भवेत् , तर्हि तस्यापि रसास्वादानुभवितृत्वं मा भूदित्याशङ्कयाह-किश्चान्यदपि 'उच्यते' इति शेषः । ५२ काव्यार्थभावनेनायमित्यादि ।
५२ अर्य नर्तक इत्यर्थः । अपि । काव्यार्थभावनेन काव्यस्यार्थों व्यङ्गयतया विभावादिस्तस्य भावनं तन्माअनिचित्तत्वै तदेकतानत्वमिति यावत् तेन तथोक्तेन । 'सरूपतां दर्शय'निति पूर्वतोऽन्वेति । सभ्यपदास्पदं सभ्यानां सामाजिकानां पद रसास्वादकत्वरूपं लक्ष्म पदवी वा तस्यास्पदं पात्रं प्रतिष्ठा वेति तथोक्तम्, तथाभूत इति भावः। 'भ' दिति शेषः। 'पदै व्यवसितत्राणस्थानलक्ष्माध्रिवस्तुषु।' इति 'प्रतिष्टाकृत्यमास्पदम् ।' इति चामरः ॥ ४२ ॥
१४