________________
१०४ साहित्यदर्पणः।
[ तृतीयःअनुकार्यगतो रस इति वदतः प्रत्याह
५० पारिमित्याल्लौकिकत्वात् सान्तरायतया तथा ॥ ४० ॥
अनुकार्यस्थ (स्य) रत्यादेरुद्धोधो न रसो भवेत् । सीताऽऽदिदर्शनादिजो रामादिरत्याशुद्धोधो हि परिमितो, लौकिको, नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपतामियात् ? रसस्यैतद्धर्मत्रितयविलक्षणधर्मत्वात् । प्रेयसि ॥' इति । न च 'प्रेयसी' त्यालम्बनविभावोऽस्त्येवेति वाच्यम्, रत्यनुकूलधर्मत्वेन तस्य निर्देशाभावात् प्रत्युत ‘जातागसी 'ति विशेषणदानाद्विरुद्धधर्मत्वेन निर्देशात् । इदं पद्यममरुशतकस्य, निराकरणेन प्रसादनपराङ्मुखस्य नायकस्य पुनरागमने किञ्चिदुदितभावाया मानिन्याश्चक्षुर्मात्रक्रियावर्णनपरम् । इतिदिक् इदमत्राकूतम् शकुन्तलादिभिरालम्बनविभावरु त्पादित, उद्यानादिभिरुद्दीपनविभावरुद्दीपितः, सुस्मितनिरीक्षणादिभिरनुभावैर्व्यजितो हर्षांवेगादिभिः सञ्चारिभिः पोषितश्च दुष्यन्तादावनुकार्ये नाट्येनाभिनेये स्थायी भावो रसः, नर्तके तु अभिनयनैपुण्येन तुल्यरूपताप्रोत्पादनादारोपितः स्थायी भावः सहृदयानां चमत्कारकारणम् । अयं क्रमः-प्रथमं शकुन्तलाऽऽदिगतो दुष्यन्तादिविषयो रत्यादिरेव रसः सहृदयैः काव्योपात्तलिङ्गद्वाराऽनुमीयते, अनन्तरं तस्य रमणीयविभावाद्यभिनयप्रदर्शननिपुणे दुष्यन्ताद्यनुकारिणि नर्तके तुल्यरूपताऽनुसन्धानवशादारोपः साक्षात्काररूपो धर्म्यशे लौकिकः, आरोग्यांशे तु लोकविलक्षण: 'शकुन्तलेयं दुष्यन्तविषयकरतिमान्' इत्याद्यात्मकश्चमत्कारकारणं रस इति । न च तुल्यताया भेदमूलत्वाद्वाधे सति कथं दुष्यन्तायारोप इति शङ्कयम् , अभिनवनैपुण्येन तस्याः प्रथमतो दूरमुत्सारितत्वात् । इति ।
इत्येवंनायकनिष्टमेव रसं मन्यमानानाम् भट्टलोल्लटादीनाम्मतं निराकृत॒म्प्रवृत्तः स्वाभिप्रायमाविष्करोति-अनुकार्यगत इत्यादिना।
अनुकार्यगतोऽनुकार्यो दुष्यन्तादिविभावस्तं गतस्तत्र निष्ठ इति भावः । रसः। इति । वदतो। व्याचक्षाणान् । प्रत्याह-५० पारिमित्यादित्यादि ।
५० अनुकार्यस्थरत्यादेरनुकार्योऽभिनेयो रामादिरूपो विभावादिस्तत्र तिष्ठतीति. सोऽसौ रत्यादिस्तस्य तथोक्तस्य । अनुकार्यस्येति पाठे तु अनुकार्यसम्बन्धिन इत्यर्थः । पारिमित्यात परिच्छिन्नत्वादिति भावः । लौकिकत्वाहिव्यत्वासम्पत्तेः 'विभाषा गुणेऽस्त्रियाम् ।' २।३।२५ इत्युभयत्र हेतौ पञ्चमी । तथा । सान्तरायतयाऽन्तरायेण विघ्नेन व्यवधानेनेति यावत् सह वर्तत इति तस्य भावस्तत्ता तया । कालादिना व्यवधानं नीतत्वादिति भावः । 'हेतौ ।' २।३।२३ इति तृतीया । उद्घोध आस्वादनीयतया सम्पद्यमानत्वम् । रसः। न । भवेत् । अयम्भाव:यद्यनुकार्यगत एव रत्यादी रसः ? तदा तन्मात्रनिष्ठस्य रत्यादेः सकलसहृदयसनिविष्टत्वाभावात् परिमितत्वे रसस्यापि पारिमित्यमापद्येत, न च तथा युक्तम्; अस्य ब्रह्माभिन्नत्वेन निरतिशयासदशाहादरूपत्वात् । तथा-खगतरत्यादिरिवानुकार्यगतरत्यादिरपि लोकसाधारणत्वेऽलौकिकत्वं तिरोधीयेत, अलौकिकस्य लौकिकत्वं परमेश्वरस्य पामरत्वमिव । एवम्-अनुकार्यो रामादिः स च कालान्तरे देशान्तरे देहान्तरे च जातः, स्वयं च सम्प्रति अस्मिन् देशे देहे चेति कालान्तरे देशान्तरे देहान्तरेणानुभूतो रसाखादो नर्तकेनाभिनीय सम्भाव्यमानोऽप्यन्तरित एव, ब्रह्मानन्दस्येव रसास्वादस्य सान्तरायत्वं पुनर्नितान्तमयुक्तम् । इति ॥ ४० ॥
तदेव निर्दिशति-सीताऽऽदिदर्शनादिज इत्यादिना ।
हि यतः । सीताऽऽदिदर्शनादिज आदिपदाभ्यां रामादीनां स्पर्शनादीनां च ग्रहणम् । रामादिरत्याशुद्धोध आदिभ्यां रामसीताऽऽदीनां हासादीनां च ग्रहणम्। परिमितः। लौकिकः। तथा-नाठ्यकाव्यदर्शनादेः। आदिना श्रवणालोचनादेर्ग्रहणम् । कथम् । रसरूपताम् । इयात् प्राप्नुयात् ? ननु पारमित्यादित्वेऽपि रत्यादी रस इत्यगीक्रियतामिति चेन्नेत्याह-रसस्य । एतद्धमत्रितयविलक्षणधर्मत्वात् एतद्धर्मत्रितयं यस्य तस्माद्विलक्षणधर्मा तस्य भावस्तत्त्वं तस्मात् । रसो हि न परिमितो लौकिक: सान्तरायश्च न स्वरूपसन्, अनुकार्यस्थतायां पुना
१ "अनुकार्यो रामादिः, तद्गतो रत्यादिना परिमितो, लौकिकः, कालान्तरेसम्भूतत्वात् सान्तरायश्च, स कथमपरिमितस्यालौकिकस्यानुभूयमानस्य च रसस्य स्वरूपसत्तामधिकुर्य्यात् ? " इति पाठान्तरं तु साधु स्पष्टार्थे च ।