________________
१०३
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। मध्यापाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथाऽस्या वपुः१७'
__ अत्र मालविकामभिलषतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णनेऽपि सञ्चारिणामौत्सुक्यादीनाम् , अनुभावानां च नयनविस्फारादीनाम् औचित्यादेवाक्षेपः। एवमन्याक्षेपेऽप्यूह्यम्। कक्षयोरधोभागौ। 'पार्श्वमस्त्री तयोरधः ।' इत्यमरः । प्रमृष्टे संशोधिते पार्धास्थामलक्ष्यत्वात्प्रमार्जिते इति यावत् । 'निर्णिक्तं शोधितं मृष्ट' मित्यमरः । इव। 'स्थिते' इति शेषः । तथा-पाणिमितः पाणिना करेण मुष्टया मितः परिमित इति तथोक्तः । मुष्टिपरिमित इति भावः । मध्यो मध्यभाग उदरमिति यावत् । नितम्बि नितम्बः पश्चात् कटिभागोऽस्यास्ति विपुलत्वेन प्रशस्तमिति तथोक्तम् । 'अत इनिठनौ ।' ५।२।११५ इत्यनेन प्रशंसायामिनि: । 'अमितं चेति पाठान्तरे तु अनुप्रासोऽपि । जघनम् । तथा-उदग्राइली उदग्रा उन्नतामा अङ्गुलयो ययोस्तौ तथोक्तौ। 'अरालाइगुली' इति पाठान्तरे तु अराला आकुञ्चितामा अगुलयो ययोस्तौ तथोक्तौ। . 'अरालं वृजिनं जिह्मम्' इत्यमरः । पादौ 'शोभेते' इति शेषः । इत्येवम्-यथा। एव । नर्तयितुः 'गणदासस्ये' ति शेषः । 'कामस्येति तु व्याख्यानं तत्रत्यग्रन्थानवलोकविजृम्भितम् । मनसि । श्लिष्टं संसक्तम् । छन्दोऽभिप्रायः । 'अभिप्रायश्छन्द आशयः' इत्यमरः । तथा । अस्या मालविकाया इत्यर्थः । वपुः शरीरम् । 'मनसः सृष्ट' मिति तु तत्र नोपलभ्यते पाठः । अत्र तर्कवाचस्पतयः-'नर्तयितुर्गणदासस्य मनसि यथा छन्द इच्छा यादृशाङ्गसौष्ठवे सति नर्त्तनं सुनिपुणं भवति, तथैवास्या वपुः श्लिष्टं संहतं भवति, स्वतःसिद्धसौन्दर्य्यादिगुणकतया सम्बद्धमित्यर्थः ।' इति 'नर्तयितु: नृत्यशिक्षकस्य गणदासस्य मनसि यथैव छन्दोऽभिप्रायः, अङ्गानां यादृशे सौन्दर्ये सति नृत्यादिकमतिमनोहरं भवेदित्यर्थः । तथा तेनैव प्रकारेणास्या मालविकाया वपुः शरीरं श्लिष्टं सङ्गतं गणदासेन सम्बद्धमित्यर्थः, खभावसुन्दराकृतिरियं पुनर्गणदासेन भावविशेषसमावेशानिरतिशयसुन्दराकृतिरिदानीं जातेति भावः ।' इति सिद्धान्तवागीशाश्चाहुः । अनेन च नर्तनपराया नृत्तारम्भोचितावस्थानविशेष उक्तः, तथा चोक्तं वसन्तराजे-'अङ्गस्य चतुरस्रत्वं समपादौ लताकरौ। आरम्भे सर्वनृत्यानामेतत्सामान्यमिष्यते ॥' इति । मालविकाग्निमित्रे मालविकाया वर्णनमेतत् , अत्र च चतुर्थवाक्यार्थे प्रति पूर्वपादवाक्यार्थस्थितपदार्थानां हेतुतया निर्देशात् काव्यलिङ्गम् । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं चोतं प्राक् ११ पृष्ठे ॥ १७ ॥
उदाहरणतात्पर्य्य निर्दिशति-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्य इति यावत् । मालविकाम् । अभिलषतः। अग्निमित्रस्य । मालविकारूपविभावमात्रवर्णने मालविका च रूपं चेति ते एव विभावौ आलम्बनोद्दीपनविभावौ, तावेवेति तस्य वर्णनं तस्मिन् तथोक्ते । 'क्रियमाणे सती'ति शेषः । अन्ये तु-'मालविकारूपमेव विभावस्तन्मात्रस्य वर्णने'इति व्याचक्षते । सञ्चारिणां व्यभिचारिभावानाम् । औत्सुक्यादीनाम् । आदिना हर्षादीनां ग्रहणम् । अनुभावानाम् । च । नयनविस्फारादीनाम् । आदिना मन्दस्मितरोमोद्गमादीनां ग्रहणम् । आक्षेपो व्यञ्जनया य एव बोधो जायते स इति भावः ।
औचित्याद वाच्यस्य विभावस्य विशिष्टत्वादिति भावः । एव 'सम्पद्यत' इति शेषः । अयम्भाव:-उदाहृतेऽस्मिन् पद्येऽग्निमित्रस्य मालविकाविषयकरतिमत्त्वान्मालविकाऽऽलम्बनं विभावः, तद्रूपसौन्दर्ये चोद्दीपनं विभावः, अस्य हि मदनोद्दीपकत्वात् । तदानीं च नयनविस्फारमुखविकाशकालासहिष्णुत्वादीनामनुभावानामौत्सुक्यहर्षादीनां च व्यभिचारिणां खतः स्फुटमवगमः । इति । : ननु विभावाक्षेपो विभावानुभावाक्षेपो विभावव्यभिचाऱ्यांक्षेपश्चेत्येतेऽप्युदाहर्त्तव्या इत्यत आह एवमित्यादि।
एवं यथोदाहृते पद्येऽनुभावव्यभिचारिणोराक्षेपस्तथेत्यर्थः । अन्याक्षेपेऽन्यस्य विभावस्य अन्ययोश्च विभावानुभावयोर्विभावव्यभिचारिणोर्वेत्यर्थ आक्षेपस्तस्मिन् । अपि । ऊह्यम् 'उदाहरण' मिति शेषः । तथा च-'परिमृदितमृणालीम्लानमङ्गं, प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु। कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकारदन्तच्छेदकान्तः कपोल: ॥” इत्यत्र मालतीमाधवा आलम्बनविभावौ मालत्याश्चोद्दीपनविभावोऽपि प्रकरणोन्नेयः । तथा-अत्रैव, माधवस्य मालत्यामनुरागेण जनितो रोमोद्गमादिरनुभावः, उभयोश्च चिन्तौत्सुक्यादिळभिचारिभावश्च प्रस्ताववैशिष्टयाद् व्यज्यते । यथा वा-विभावाक्षेपः, “दूरादुत्सुकमागते विवलितं, सम्भाषिणि स्फारितं, संश्लिष्यत्यरुणं, गृहीतवसने किञ्चिन्नतVलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं, चक्षुर्जातमहो प्रपश्चचतुरं जातागसि